摩诃婆罗多 · 章 4.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.29.1
कीचके तु हते राजा विराटः परवीरहा ।
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ ४.२९.१ ॥
当基查卡被杀后,消灭敌方勇士的国王毗罗吒与大臣及祭司一同陷入极大的悲痛。
4.29.2
कीचकस्य वधं घोरं सानुजस्य विशांपते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ ४.२९.२ ॥
人主啊,想到基查卡与其幼弟被惨杀以及由此而来的大祸,平民百姓都感到惊愕。
4.29.3
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः ।
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ ४.२९.३ ॥
在那座城市和那个国家里,人们到处议论:基查卡勇猛,深受国王宠爱,且骄傲自大。
4.29.4
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे ।
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः ।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ ४.२९.४ ॥
据说,基查卡在战场上闻名,强大不可战胜,能击杀敌人,但心怀恶念,窥视他人之妻,因为桑德丽的缘故,被乾闼婆们在夜间杀死。
4.29.5
इत्यजल्पन्महाराज कीचकस्य विनाशनम् ।
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ॥ ४.२९.५ ॥
大王啊,人们就这样议论基查卡的灭亡,基查卡被杀后,每个地方的人都感到惊讶。
4.29.6
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ ४.२९.६ ॥
于是,持国之子派出的那些在外游走的密探,搜寻了许多国家、村庄和城市,并且……
4.29.7
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः ।
कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ ४.२९.७ ॥
他们按照吩咐,逐地安排妥当,约定了暗号,所有这些向导随后便返回了城中。
4.29.8
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् ।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ ४.२९.८ ॥
到达哈斯蒂纳普拉后,见到了那位国王——考罗婆族、持国之子、降伏敌人者,
4.29.9
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ।
संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ ४.२९.९ ॥
与德罗纳、迦尔纳、克里帕,以及大德毗湿摩同在,与兄弟们、三伽尔塔人和诸大车战士相聚。
4.29.10
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा ।
आसीनं सूर्यसंकाशे काञ्चने परमासने ॥ ४.२९.१० ॥
他们以头叩地向他致敬,并以胜利的祝福为其祈福。他坐在如太阳般的金色至尊宝座上。
4.29.11
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् ।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ ४.२९.११ ॥
众臣侍奉于他,如同诸摩如帝侍奉因陀罗;与智者、歌者、诗人和赞颂者同在,
4.29.12
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः ।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ ४.२९.१२ ॥
众多国王与其随从侍奉之中,他们对坐于议会中央的难敌说了这些话。
4.29.13
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ ४.२९.१३ ॥
人中之主啊,我们一直在那片大森林中竭力寻找般度之子。
4.29.14
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले ।
लताप्रतानगहने नानागुल्मसमावृते ॥ ४.२९.१४ ॥
在那片人迹罕至、猛兽密布、群蜂嗡嗡、藤蔓交错、灌木丛生的森林中。
4.29.15
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ ४.२९.१५ ॥
我们不知道那位勇武坚定的普利塔之子走了哪条路,尽管我们在苦行林和森林中寻找他们的足迹。
4.29.16
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च ।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ ४.२९.१६ ॥
在高耸的山峰上、各个地区、人口稠密之处、十字路口,以及城市之中。
4.29.17
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् ।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ ४.२९.१७ ॥
人主啊,那些突然失踪的般度之子,我们并不知道下落;因为完全不见踪影,他们已经消失。愿你吉祥,人中雄牛啊。
4.29.18
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु ।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च ॥ ४.२९.१८ ॥
在山峰与密林之中、在洞穴、凹地与山坡之间、在河流的源头、在湖泊与池沼之中。
4.29.19
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च ।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ ४.२९.१९ ॥
在洞穴、堡垒、村庄和园林之中,他们的踪迹难以辨识,我们正在寻找他们,甚至在象与虎附近、狮子的边缘和沙罗跋之间。
4.29.20
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम ।
कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ ४.२९.२० ॥
沿着战车的道路寻找,车手中的最优者啊,我们曾跟随御者一段时间,人主啊。
4.29.21
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः ।
प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ॥ ४.२९.२१ ॥
依法寻找并确知真相之后,焚敌者啊,御者们在没有般度之子的情况下抵达了德瓦拉卡。
4.29.22
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः ।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ ४.२९.२२ ॥
那里没有克利须纳,也没有持大誓的般度五子;人中之神啊,正如所指示的,我们在此并不认识般度之子。
4.29.23
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप ।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ ४.२९.२३ ॥
安心吧,他们已经失落。保持镇定,焚敌者啊,他们已全然覆灭。向你致敬,婆罗多族中的雄牛。
4.29.24
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता ।
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ॥ ४.२९.२४ ॥
整个大地,连同山岳、森林与园林,连同诸国、城市、村落与市镇,已被到处搜寻,然而我们仍未见到般度五子。
4.29.25
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते ।
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ ४.२९.२५ ॥
人王啊,民之主啊,请再告诉我们:从此以后,我们在寻找般度五子的事上还要做什么?
4.29.26
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ ४.२९.२६ ॥
英雄啊,请听我们这句亲切而吉祥的话。
4.29.27
येन त्रिगर्ता निहता बलेन बहुशो नृप ।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा।
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ ४.२९.२७ ॥
君王啊,为摩茨亚王而多次杀死三摩竭人的强大御者迦陈迦,已被杀倒在地;婆罗多后裔啊,他是在夜间被乾闼婆们杀死的。
4.29.28
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः ।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ ४.२९.२८ ॥
他是毗罗吒王的内兄,军队统帅,心地高尚,是苏德什纳的幼弟,残暴、勇敢、英勇而无所畏惧。
4.29.29
उत्साहवान्महावीर्यो नीतिमान्बलवानपि ।
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ॥ ४.२९.२९ ॥
他精力充沛,武力强大,通晓政事,力量强劲,精通战事,能摧毁敌人的威力,其勇猛如狮子一般。
4.29.30
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् ।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ ४.२९.३० ॥
他擅长保护百姓,能够擒获敌人,在大战中战胜敌手,勇猛刚烈,一心追求荣誉。
4.29.31
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः ।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ ४.२९.३१ ॥
他令男女心悦,坚毅善辩,喜好战斗,行善积德,是财富与欲乐的承受者,人中之最。
4.29.32
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप ।
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः ।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ ४.२९.३२ ॥
人主啊,因为一个女子,那心怀邪恶、不能忍耐的人在夜间被乾闥婆与其兄弟们杀死。他的朋友和武士也被击打致死。
4.29.33
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी ।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ ४.२९.३३ ॥
乾闥婆的正妃中,有一位名叫娑瑞檀德丽(Sairandhrī)的宽臀女子。骄傲、心怀邪恶而强有力的那人欲求她。
4.29.34
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ ४.२९.३४ ॥
我们这样听说,他在夜里被乾闥婆杀死了。
4.29.35
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः ।
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ ४.२९.३५ ॥
因为迦旃那与众多亲族一同被杀,人中之王啊,我们的意见是:从今日起应派遣探子四处搜寻般度五子。
4.29.36
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह ।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ ४.२९.३६ ॥
我们只听说:那心怀邪恶的人夜间与他的兄弟们一同被乾闥婆杀死。愿人主安好。
4.29.37
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ ४.२९.३७ ॥
哦,俱卢之裔,听到敌人败亡的这一喜讯,你已功成;现在请安排接下来应当做的事。