Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.46.1

भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः ।
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ॥ ४.४६.१ ॥

于是持武器者中最杰出、制服敌人的婆罗堕遮之子德罗纳望着难敌,对国王说道。

4.46.2

यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते ।
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ॥ ४.४६.२ ॥

如战车的轰鸣,如海螺的吹响,如大地的震颤——这不是别人的声音,而是左手善射者(阿周那)的。

4.46.3

औत्पातिकमिदं राजन्निमित्तं भवतीह नः ।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ॥ ४.४६.३ ॥

国王啊,此地对我们而言这是一个不祥的征兆。焚烧敌人者啊,我在我军中看不到胜利。

4.46.4

शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः ।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ॥ ४.४६.४ ॥

兵器不再闪耀,坐骑不再欢欣;烧得旺盛的火也不燃烧,也不显得吉祥。

4.46.5

प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च ।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ॥ ४.४६.५ ॥

迎着太阳,所有凶猛的野兽都向我们咆哮;向左飞翔的鸟儿也预示着巨大的恐惧。

4.46.6

गोमायुरेष सैन्यानां रुदन्मध्येन धावति ।
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ॥ ४.४६.६ ॥

这只豺狼哭泣着穿过军队中央奔跑,天空中的鹞鹰鸣叫,预示着巨大的恐惧。

4.46.7

भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ॥ ४.४६.७ ॥

我看到你们的汗毛也竖了起来,仿佛激动不已。

4.46.8

अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः ।
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ॥ ४.४६.८ ॥

它们的身体并不冰冷,而是满身汗水,且不断打哈欠。大象僵直地站着,马儿流下眼泪,并且一再排出尿液与粪便。

4.46.9

लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः ।
न च सूर्यः प्रतपति महद्वेदयते भयम् ॥ ४.४६.९ ॥

大地被鲜血浸湿,四方都被烟雾笼罩。太阳不再炽烈,它预示着巨大的恐惧。

4.46.10

हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः ।
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ॥ ४.४६.१० ॥

大象也惊恐万分,战士们也都害怕了。你们的军队已被击败,无人愿意再战。

4.46.11

विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ॥ ४.४६.११ ॥

几乎所有战士都面色沮丧、心神慌乱,一再望向南方。

4.46.12

मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः ।
वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ॥ ४.४६.१२ ॥

鹿与飞鸟从我们的左侧掠过,虽然乐器之声高起,它们却不发出深沉的鸣叫;乌鸦停落在旗杆之巅——这不吉祥。

4.46.13

यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः ।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ॥ ४.४६.१३ ॥

如云中深沉的雷鸣迅速传开而被听见,此车辚之声也如此可闻;此非他人,乃是财富征服者(阿周那)之车。

4.46.14

अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् ।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ॥ ४.४६.१४ ॥

可闻驾载帝释天的骏马嘶鸣之声,以及战车上猴子(哈努曼)神圣而宏大的吼声。

4.46.15

शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ॥ ४.४६.१५ ॥

阿周那的螺号之声震聋了我的双耳,全军都已惊恐;此非他人,乃是财富征服者之声。

4.46.16

राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम् ।
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः ।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ॥ ४.४६.१६ ॥

我们以敌人的征服者国王难敌居前,遣送牛群,以布列好的阵势作为进攻者而立,将军队分为三部,并高举旗帜。

4.46.17

शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः ।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ॥ ४.४६.१७ ॥

财富征服者以利箭焚烧此军,将把他的左脚踏于一切国王的头上。

4.46.18

न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि ।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ॥ ४.४६.१८ ॥

此毗跋特苏即使天神与阿修罗也无法战胜。让各方向都驻守营队吧;我们严阵以待,与你作战,阿周那。