Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.49.1

तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः ।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ॥ ४.४९.१ ॥

克里帕(沙罗陀婆多之子)听了他的话,他精通政治学,是俱卢众英雄的导师,于是说道:

4.49.2

सदैव तव राधेय युद्धे क्रूरतरा मतिः ।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥ ४.४९.२ ॥

罗陀之子啊,你在战争中的心思总是极其残酷;你不了解事务的本性,也不顾及其后果。

4.49.3

नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ॥ ४.४९.३ ॥

依据典籍,人们设计了许多策略;而古代智者宣称,其中战争是最为罪恶的。

4.49.4

देशकालेन संयुक्तं युद्धं विजयदं भवेत् ।
हीनकालं तदेवेह अनर्थायोपकल्पते ॥ ४.४९.४ ॥

与恰当的地点和时机相配合的战争会带来胜利;而在不合时宜的时机发动的同一场战争,在此只会导致祸患。

4.49.5

देशे काले च विक्रान्तं कल्याणाय विधीयते ।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ॥ ४.४९.५ ॥

在恰当的地点和时机展现的勇武,被认为是有益的;而接下来的行动则依据事务的有利与否来决定。

4.49.6

भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ।
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ॥ ४.४९.६ ॥

智者不会去承担车匠的重担;而未经对贡蒂之子(阿周那)仔细考量,我们与之交锋并不合宜。

4.49.7

एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् ।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ ४.४९.७ ॥

因为他一人便能在战场上抵挡敌人;他独自守护俱卢族,也独自使火神得到满足。

4.49.8

एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ॥ ४.४९.८ ॥

他独自持守梵行五年;他独自将苏跋陀罗扶上战车,在车战中向黑天挑战。

4.49.9

सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् ।
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ॥ ४.४९.९ ॥

在林中流放期间,他击败信度王,将黑公主夺回;他独自在释迦(因陀罗)处学习五年武器之术。

4.49.10

एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः ।
एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥ ४.४९.१० ॥

他独自战胜敌人,为俱卢族赢得荣誉。这位降伏敌人者独自迅速在战场上击败了乾达婆王持明(Citrasena),并击溃了他难以战胜的军队。

4.49.11

पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे ।
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ॥ ४.४९.११ ॥

在选婿大会上,般度之子(阿周那)击败了诸刹帝利,得到了光荣的般遮罗公主,并将她带走。那时你去了哪里?

4.49.12

तथा निवातकवचाः कालकेयाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ ४.४९.१२ ॥

同样,连诸神也无法杀死的尼瓦塔卡瓦查和迦罗刻耶檀那婆,也在战斗中被一人击倒。

4.49.13

एकेन हि त्वया कर्ण किं नामेह कृतं पुरा ।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥ ४.४९.१३ ॥

迦尔纳啊,你独自在此以前做过什么?就像那些大地的守护王被一一降服一样。

4.49.14

इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ ४.४९.१४ ॥

在战斗中,即使因陀罗也不能与阿周那作战;想与他交战的人,应当准备解药。

4.49.15

आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् ।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ ४.४९.१५ ॥

你想举起一条愤怒毒蛇的右边部分,用食指去夺取它的毒牙。

4.49.16

अथवा कुञ्जरं मत्तमेकमेकचरं वने ।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ॥ ४.४९.१६ ॥

或者你想不用象钩,骑上一头独自在林中游荡的发狂大象,进入城中。

4.49.17

समिद्धं पावकं चापि घृतमेदोवसाहुतम् ।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥ ४.४९.१७ ॥

你想涂满酥油、身穿树皮衣,从被酥油、脂肪和骨髓供奉的熊熊烈火中间穿过。

4.49.18

आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् ।
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ॥ ४.४९.१८ ॥

迦尔纳啊,一个人把自己绑紧,颈上系着石头,用双臂渡过大海,这里有什么勇气可言?

4.49.19

अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः ।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ ४.४९.१९ ॥

不善武艺、极为软弱之人,若想与精通武艺、强大的般度子阿周那交战,啊迦尔纳,此人便是愚昧之徒。

4.49.20

अस्माभिरेव निकृतो वर्षाणीह त्रयोदश ।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ ४.४९.२० ॥

我们在此已经十三年亏待了他。挣脱罗网的狮子,不会给我们留下任何余地。

4.49.21

एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ ४.४९.२१ ॥

我们出于无知,攻击了独坐一处的般度子阿周那——他如同藏于井中的火,于是我们陷入了极大的危险。

4.49.22

उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् ।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ॥ ४.४९.२२ ॥

把火投向棉花堆,一人怎能将其扑灭?让我们一同与这位因战斗之狂而来的阿周那交战。

4.49.23

यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः ।
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ॥ ४.४९.२३ ॥

我们都已警觉,是英勇、布阵出击的战士。让我们迎战那位前来、严阵以待的因陀罗之子阿周那。

4.49.24

यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः ।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ॥ ४.४९.२४ ॥

愿我们众人保持警觉,从四面包围这位最优秀的车战勇士;让六位车战者围住他,正如阿修罗围绕手持金刚杵的因陀罗。

4.49.25

द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् ।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ ४.४९.२५ ॥

德罗纳、难敌、毗湿摩、你、德罗纳之子,以及我们所有人,将与班图之子作战。迦尔纳,不要轻率行事。

4.49.26

न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम् ।
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ॥ ४.४९.२६ ॥

若我们分散作战,便无法在战场上战胜班图之子;若我们在战场上团结一致,我们所有人都将战胜班图之子。