マハーバーラタ · 章 4.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.53.1
ततः सुदर्शनं नाम प्रासादं हरिवाहनः ।
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ॥ ४.५३.१ ॥
そこでハリヴァーハナ(インドラ)は、すべての神々を呼び集め、スダルシャナという宮殿へ、パーンダヴァ(アルジュナ)のいる所へ向かった。
4.53.2
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् ।
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ॥ ४.५३.२ ॥
中央に千列の柱が立てられているところ、太陽の道の上に、清らかで大いなる集会堂が立っていた。
4.53.3
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ॥ ४.५३.३ ॥
そこにはアーディトヤ、ヴァス、ルドラ、二人のアシュヴィン、そしてマルトの群れがいた。金と水晶の白い円盤もあった。
4.53.4
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत ।
मणिरत्नविचित्राणि नानारूपाणि भागशः ।
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ॥ ४.५३.४ ॥
同様に、バーラタよ、神々しい姿の見事な傘があった。宝玉と珠玉で彩られ、さまざまな形をして部分ごとに分かれ、輝き吉祥なものが空中に一緒に見えた。
4.53.5
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च।
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च ॥ ४.५३.५ ॥
アグニ、インドラ、ソーマ、ヤマ、ヴァルナのもの、そしてダートリ、ヴィダートリ、ミトラ、ダナダ(クベーラ)のもの、ルドラ、ヴィシュヌ、サヴィトリのもの、同様に三十三神のものであった。
4.53.6
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः ।
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ॥ ४.५३.६ ॥
そこには金の紐と、神々しい花で覆われたさまざまな見事な花輪があり、そこに見事に配されていた。
4.53.7
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते ।
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ॥ ४.५३.७ ॥
王よ、神聖な宝玉で飾られたその宮殿で、神聖な香りに満ちた神々しい花環が輝いた。
4.53.8
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ।
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ॥ ४.५३.८ ॥
バラタの末裔よ、神聖な風が四方から香りを運んで吹き、季節が花を携えてそこに立った。
4.53.9
प्रजानां पतयः सप्त सप्त चैव महर्षभः ।
तत्र देवर्षयश्चैव देवराजं दिवौकसः ।
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ॥ ४.५३.९ ॥
生き物の主である七人の大聖仙がそこにいた;神仙と天界の住人たちは神々の王と共にいた;インドラと共に三十の神々すべてが整列して立った。
4.53.10
न पङ्को न रजस्तत्र प्रविवेश कथंचन ।
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ॥ ४.५३.१० ॥
そこには泥も塵もどうしても入り込まなかった;太陽もそこでは厳しくなく、度を越して照りつけないかのように輝いた。
4.53.11
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति ।
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ॥ ४.५३.११ ॥
神聖な香りを運んで風がそこへ来る;空と四方のすべてが眺めて美しく見えた。
4.53.12
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् ।
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ॥ ४.५३.१२ ॥
そこで神々は、四方に輝き、意のままに動くその神聖な宮殿に登り、澄み渡った空に立った。
4.53.13
तत्र राजर्षयश्चैव समारुह्य दिवौकसः ।
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ॥ ४.५३.१३ ॥
そこへ王仙と天界の住人が登った:王シュヴェータ、ヴァスマナス、バドラ、プラダルシャナ。
4.53.14
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः ।
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ॥ ४.५३.१४ ॥
ヌリガ、ヤヤーティ、ナフシャ、マーンダートリ、バラタ、クル、アシュタカ、シビ、その二人、そして王プルーラヴァス。
4.53.15
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा ।
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ॥ ४.५३.१५ ॥
ダンバより生まれたカールタヴィーリヤ、アルジュナ、サガラ、そしてディリーパ、ケーラ、プール、シャリヤーティ、ソーマカ、その時。
4.53.16
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा ।
भगीरथश्च राजर्षिः सर्वे च जनमेजय ॥ ४.५३.१६ ॥
輝くハリシュチャンドラ、ラグ、ダシャラタも、王仙バギーラタ、そしてすべての者よ、ジャナメージャヤよ。
4.53.17
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः ।
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ॥ ४.५३.१७ ॥
また大王パーンドゥも、ヤクの尾の扇に輝き、傘を差しかけられ、ラージャスーヤの威光に囲まれていた。
4.53.18
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः ।
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ॥ ४.५३.१८ ॥
これらの人々と、その他多くの徳行あり、清浄な誓いを守り、名声高く、大いなる力を持つ者たちが、そこ天界に立っていた。
4.53.19
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः ।
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ॥ ४.५३.१९ ॥
アプサラスの全ての群れと、四方のガンダルヴァ、ダイティヤ、ラークシャサ、ヤクシャ、そしてスパルナとナーガも同様であった。
4.53.20
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः ।
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ॥ ४.५३.२० ॥
ヴァーサヴァを筆頭に、全ての神々が群れの主たちとともに昇ってそこに集まり、その戦いを見たいと望んでいた。
4.53.21
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः ।
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ॥ ४.५३.२१ ॥
こうして空に位置を定め、宮殿に立つ天界の住人たちは、一人対多数の戦いを見るために陣取った。
4.53.22
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ ४.५३.२२ ॥
クルの喜びよ、あらゆる点で、私はこれを語るのが最善である。