摩诃婆罗多 · 章 4.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.58.1
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा ।
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ॥ ४.५८.१ ॥
那支溃散的全军,如巨流般轰鸣,抵达毗湿摩身前,稳稳站住,如大海止于岸边。
4.58.2
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः ।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ॥ ४.५८.२ ॥
恒河之子毗湿摩安慰了他们所有人。随后这位焚敌者、大臂者、在战斗中不败的英雄,将军队排列成阵。
4.58.3
रथनागाश्वकलिकं युयुजे युद्धकोविदः ।
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ॥ ४.५८.३ ॥
精通战法的他,将充满战车、象群与战马的军队排列起来,使敌军无法冲破,即便勇士观之也为之迟疑。
4.58.4
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि ।
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ॥ ४.५८.४ ॥
由师尊、难敌、御者之子、克里帕与毗湿摩所守护的那些军队,仿佛不可杀戮,难以接近,车马象群充满其中。
4.58.5
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि ।
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ ४.५८.५ ॥
阿周那——戴冠者、持甘狄拔弓者、敌人的杀戮者——望见那些树立着巨大旗帜、排列成阵的军队,便呼唤毗罗吒之子鄔đ达罗,随即说道。
4.58.6
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः ।
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ॥ ४.५८.६ ॥
现在,紧握缰绳,控制好马匹,仔细观察,迅速驱车冲向这位对阵的英雄、毗迦尔达纳(迦尔纳);我选择与他交战。
4.58.7
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् ।
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ॥ ४.५८.७ ॥
你所看到的那件多样而奇妙的装饰,如象腹带一般,在柱上与战车上都可观赏,旋转闪耀如火光,那是毗迦尔摩之子(迦尔纳)最精良的军队。
4.58.8
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् ।
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ॥ ४.५८.८ ॥
用这辆战车迅速驱使这些系着金网缰带的白马前进;我将在那里展示我全部的速度。把我们带到这群车战勇士的近处。
4.58.9
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः ।
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् ।
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ॥ ४.५८.९ ॥
如同一头象想与另一头象交战,御者之子(迦尔纳)总想与我交战。请把我带到那依仗难敌而骄傲的御者之子面前。我将在战车中央将他击落,正如千眼者以金刚杵击倒弗栗多。
4.58.10
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै ।
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ ४.५८.१० ॥
毗罗吒之子驾驭着那些生来迅疾、系着金色腹带的壮马,粉碎了车战勇士的那支军队,把般遮罗子带入了战阵的中央。
4.58.11
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन् ।
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ॥ ४.५८.११ ॥
众车战勇士见他以至上的光辉冲来,便赶去保护毗卡尔塔那(迦尔纳);他们扑向他,如同猛虎在战场上扑住公牛。
4.58.12
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ ।
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ॥ ४.५८.१२ ॥
奇兰陀、奇车、英雄胜战、杜萨诃与奇军、毗威林沙提、杜尔穆卡与杜尔闍耶、毗迦尔纳、杜舍萨那与萨乌巴拉、以及首那与尼舍陀——这些年轻的勇士迅速追随毗卡尔塔那。
4.58.13
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य ।
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः ॥ ४.५८.१३ ॥
见毗卡尔塔那朝向般度子而去,诸子与他们的兄弟们一同疾驰而来;这些大力者举起弓,在战场上以箭的火焰倾注于大财(阿周那)之上。
4.58.14
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम् ।
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ॥ ४.५८.१४ ॥
般度子迅速在他们的弓弦所制成的多弦琵琶上弹奏,以长矛为琴颈,以箭束为拨子,指尖为琴轴,以坚固的弓杆为琴身。
4.58.15
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ ४.५८.१५ ॥
当那场喧嚣的大战开始时,库鲁勇士中的翘楚毗迦尔纳乘着战车,倾泻如雨的穿刺之箭,迎战大车战士般度子,并逼近了怖军的幼弟。
4.58.16
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम् ।
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन ॥ ४.५८.१६ ॥
于是他斩断毗迦尔那那张镶金、弦固的弓,射穿并击落了他的旗帜;旗帜已断的他也急速退去。
4.58.17
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि ।
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ॥ ४.५८.१७ ॥
他不能忍受这份敌意,便以龟甲状箭头射向正在摧毁敌军、行非凡之事的般度之子阿周那。
4.58.18
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ ४.५८.१८ ॥
他被那位大车将国王射伤,却仍冲入敌军;这敌人的克星立即以五箭射中他,随后又以十箭杀死了他的御者。
4.58.19
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन ।
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ॥ ४.५८.१९ ॥
此时他被婆罗多族雄牛的箭射穿,那箭穿透了他的铠甲,他在战场上毙命倒下,大王啊,如同被风折断的大树从山巅坠落。
4.58.20
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ ४.५८.२० ॥
那些车将中的雄牛英雄,被那位更为英勇的车将中雄牛在战场上击溃,他们颤抖起来,如同大森林在时节到来时被风力摇撼。
4.58.21
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः ।
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ॥ ४.५८.२१ ॥
被帕尔塔所杀的年轻英雄,人中之最,衣着华美,施予财富,勇力与因陀罗相等,在战场上被因陀罗之子击败,倒卧在地,身披金、铁、铜的铠甲,如同在喜马拉雅山中长大的大象。
4.58.22
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः ।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ ४.५८.२२ ॥
于是,持甘狄拔弓的人中英雄,在战场上杀戮敌人,驰行于四方与隅方,如同夏末之火焚烧森林。
4.58.23
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे ।
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ ४.५८.२३ ॥
如同春天抖落枯萎的落叶,将尘土驱向天空,那戴冠者也散开敌人,乘其战车在战场上驰骋,乃大战车武士。
4.58.24
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः ।
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ ४.५८.२४ ॥
杀死了驾驭赤马者的马匹,那位维卡尔塔那之兄、心志不屈、战场获胜的戴冠戴花者,以一箭斩下了他的头颅。
4.58.25
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी ।
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ॥ ४.५८.२५ ॥
当那位兄弟被杀后,御者之子维卡尔塔那,因勇力之傲而威猛,大力士,如象王高举象牙,又如狮子,前来了。
4.58.26
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् ।
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ॥ ४.५८.२६ ॥
他以十二支箭射中般度之子帕尔沙。毗迦尔塔那(迦尔纳)射穿了他的肢体,也射穿了所有马匹,并以箭射倒了毗罗吒之子。
4.58.27
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः ।
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ॥ ४.५८.२७ ॥
在战斗中冲向他的毗迦尔塔那被光辉充盈的基利陀(阿周那)遮蔽;那位大弓箭手英雄也阻挡了敌军的各队。
4.58.28
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् ।
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ॥ ४.५८.२८ ॥
杀死了迦尔纳的前卫与后卫之后,无量的基利陀(阿周那)走近了他,正如金翅鸟张开双翼飞向毒蛇。
4.58.29
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ॥ ४.५८.२९ ॥
那两位是所有弓箭手中的最优者、大力士,也是征服一切敌手者——迦尔纳与帕尔沙。听闻此事后,俱卢族人站立不动,渴望在战场上看见他们。
4.58.30
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात् ।
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ॥ ४.५८.३० ॥
般度之子怒火升腾,愤怒地注视着明显犯了过错的迦尔纳,转瞬之间便使他连同马匹、战车与御者一并消失,如同乌云因大雨而散去。
4.58.31
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् ।
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ॥ ४.५८.३१ ॥
于是婆罗多族的雄牛般的战士们,连同战车、马匹和象兵,以毗湿摩为首,看见戴冠者以箭遮蔽了迦尔纳的战车,便高声呐喊。
4.58.32
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् ।
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ॥ ४.५८.३२ ॥
那位伟大的迦尔纳也以箭雨迅速挡住了阿周那手臂射出的那些箭,手持弓箭,犹如迸射火星的烈火般闪耀。
4.58.33
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु ।
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ॥ ४.५८.३३ ॥
随后响起了手掌拍击声,混杂着海螺、大鼓与小鼓的声音;尊崇维卡尔坦那(迦尔纳)的俱卢族人,以狮吼、跳跃与拍击高声欢呼。
4.58.34
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम् ।
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥ ४.५८.३४ ॥
迦尔纳站在俱卢族最好的战车上,大旗飘扬,他看见戴冠者以甘提婆弓发出的弦声,便高声怒吼。
4.58.35
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम् ।
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥ ४.५८.३५ ॥
阿周那也使维卡尔坦那(迦尔纳)及其马匹、旗帜、战车与御者都受到了压制,便因喜悦而突然高声怒吼;见到祖父(毗湿摩)、德罗纳与克里帕,戴冠者便大声吼叫。
4.58.36
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः ।
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ॥ ४.५८.३६ ॥
在战斗中,韦迦尔塔那(迦尔纳)以许多迅疾的箭雨浇淋普利塔之子(阿周那)。而冠饰者(阿周那)也以锐利的箭流遮蔽了韦迦尔塔那。
4.58.37
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः ।
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ॥ ४.५८.३७ ॥
当这两位精通武器的人发射不虚的箭流时,发生了大规模的冲撞。片刻之后,众人看见他们仿佛被罗睺释放的月与日。
4.58.38
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः ।
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ॥ ४.५८.३८ ॥
被普利塔之子杀死的车战勇士年轻人,发丝美丽,身着金铁铠甲,倒卧在地上,如同喜马拉雅山中被砍倒的树木。
4.58.39
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान् ।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ ४.५८.३९ ॥
如此,手持甘狄拔弓者在战斗中杀死敌人,击倒了对手。在战阵中,他遍行四方与隅方,如同夏末之火焚烧森林。
4.58.40
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् ।
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ ४.५८.४० ॥
如同春风吹落枯黄的叶子和衰弱的叶片,冠饰者驱散了对手,在战斗中驾着战车如大战车手一般驰骋。
4.58.41
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम् ।
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ॥ ४.५८.४१ ॥
如因陀罗在战场上,戴冠的阿周那驱散那群车战勇士,以上好的箭矢覆盖了众多敌军。
4.58.42
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ॥ ४.५८.४२ ॥
此时,戴冠的英雄、众俱卢中最杰出者阿周那大声吼叫,对迦尔纳说道。
4.58.43
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे ।
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ॥ ४.५८.४३ ॥
迦尔纳啊,你在大会之中说了狂妄之言:“战场上没有人与我相等。”如今这已摆在你面前了。
4.58.44
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम् ।
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया। ॥ ४.५८.४४ ॥
你在大会上夸耀勇力,又完全舍弃了法,我认为你想要做的事对你来说是困难的。
4.58.45
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि ।
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ॥ ४.५८.४५ ॥
你先前所说的“没有人与我相等”,请在俱卢之中与我一起使它成为真的,啊,罗陀之子。
4.58.46
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया ।
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ॥ ४.५८.४६ ॥
那时在大会上,我亲眼看见你折磨般遭受苦难的般遮利(德劳波蒂);今天请你完全尝尝那果报吧。
4.58.47
धर्मपाशनिबद्धेन यन्मया मर्षितं तव ।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ॥ ४.५८.४७ ॥
我受法之绳缚束,忍受了你所为;राधेय,恶念之人,现在就领受那罪过的果报吧。
4.58.48
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम् ।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ॥ ४.५८.४८ ॥
来吧,迦尔纳,与我同在此处,今日便行屠戮;让俱卢族与你所有的士兵都作旁观者。
4.58.49
इदानीमेव तावत्त्वमपयातो रणान्मम ।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ॥ ४.५८.४९ ॥
方才你在我面前逃离战场;你的幼弟已被杀,राधेय,你为何还活着?
4.58.50
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ ४.५८.५० ॥
除你之外,哪个人会在善人之中站立如此言说:他使兄弟倒下,又离弃了战场?
4.58.51
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर ।
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ॥ ४.५८.५१ ॥
你口中所说的,请以行动完成,普利塔之子啊;你在大地上,言与行皆无与伦比。
4.58.52
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ॥ ४.५८.५२ ॥
你先前所忍受的,我们便当作是无能者的忍受;普利塔之子啊,我们并未见到你的威力。
4.58.53
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा ।
तथैव बद्धमात्मानमबद्ध इति मन्यसे ॥ ४.५८.५३ ॥
你曾被法之绳索所缚,所忍受的,如今虽仍被缚,你却自以为未被束缚。
4.58.54
न हि तावद्वने वासो यथोक्तं चरितस्त्वया ।
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ॥ ४.५८.५४ ॥
你没有如约定那样在林中生活;为贪图财富所困,你想要毁弃誓约。
4.58.55
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात् ।
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ ४.५८.५५ ॥
帕尔塔啊,即便因你的缘故因陀罗亲自参战,施展勇力的我也不会有任何痛苦。
4.58.56
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः ।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ॥ ४.५८.५६ ॥
贡蒂之子啊,你的这个愿望不久便已来临:你将在此与我交战,我要在此看到你的力量。
4.58.57
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम् ।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ ४.५८.५७ ॥
卡尔纳一边说着,一边向不败的毗跋苏(阿周那)冲去,射出能穿透身甲的箭矢。
4.58.58
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ॥ ४.५८.५८ ॥
帕尔塔(阿周那)大战车武士心中欢喜,接下了那些箭矢。
4.58.59
शरवर्षेण महता पर्जन्य इव वृष्टिमान् ।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ॥ ४.५८.५९ ॥
如降雨的云,以大量箭雨,毗跋蹉(阿周那)挥舞甘底拔弓向前逼近。
4.58.60
जिघांसुः समरे कर्णं विससर्ज शरान्बहून् ।
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ॥ ४.५८.६० ॥
他想在战场上杀死迦尔纳,射出了许多箭;迦尔纳承受它们,如山岳承受风之疾速。
4.58.61
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान् ।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ॥ ४.५८.६१ ॥
二人的交锋激烈如天神与阿修罗之战;他们撒下箭网,毫无间隙地遮蔽了整个天空。
4.58.62
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः ।
ववर्ष च रजो भौमं कर्णपार्थसमागमे ॥ ४.५८.६२ ॥
可怖形状的云团从四面升起,在迦尔纳与普利塔之子相遇时,大地的尘土如雨洒落。
4.58.63
न स्म सूर्यः प्रतपति न च वाति समीरणः ।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ॥ ४.५८.६३ ॥
太阳不再照耀,风也不再吹拂;被箭矢遮蔽的天空仿佛成了一片阴影。
4.58.64
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा ।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ ४.५८.६४ ॥
甘底拔弓的轰鸣与迦尔纳之弓的轰鸣都极为可怖,如同燃烧的竹子噼啪作响。
4.58.65
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन् ।
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ॥ ४.५८.६५ ॥
然而阿周那击倒马匹、象群与战车,使那支军队陷入混乱,并一再射伤迦尔纳。
4.58.66
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् ।
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ॥ ४.५८.६६ ॥
于是臂力强大的般度之子斩断了迦尔纳的弓。弓断之后,迅猛的迦尔纳投出一支长矛;般度之子在战斗中以利箭将那长矛斩断。
4.58.67
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ ४.५८.६७ ॥
于是罗陀之子迦尔纳的许多步兵随从纷纷倒下;阿周那以从甘狄拔弓射出的箭,将他们送往阎摩的住所。
4.58.68
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः ।
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ॥ ४.५८.६८ ॥
在般度之子箭矢所经之路上被杀的大象,覆盖了整片大地,身披金色的鞍带,被箭网装点得斑驳,宛如缠于火网之中的山岳。
4.58.69
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि ।
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ॥ ४.५८.६९ ॥
维迦尔坦那(毗迦尔坦之子)迦尔纳无法忍受他那摧毁敌军肢体的非凡之举,便迅速把攻击指向般度之子,仿佛指向一个靶子。
4.58.70
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य ।
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ॥ ४.५८.७० ॥
于是迦尔纳牵引四匹马,射中了达难闍耶的马;以六箭射中御者,以十箭射马,以六十箭射向般度子,以三箭射其旗帜。
4.58.71
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः ।
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ॥ ४.५८.७१ ॥
迸射火星,轰然作响,以愤怒为薪,以旗帜为焰,以箭矢为光,被兵器的可怖狂风所驱,迦尔纳之火闪耀起来,仿佛要焚烧般度子的丛林。
4.58.72
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत् ।
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार ॥ ४.५८.७२ ॥
般度子之云,以车轮与法螺之声轰然作响,以飘扬旗帜的可怖闪电生辉,倾泻兵器与箭矢的洪流,熄灭了迦尔纳之火。
4.58.73
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः ।
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ॥ ४.५८.७३ ॥
在战斗中被他重创的冠者醒来,如沉睡的狮子被唤醒;手持甘提拔弓的胜利者、俱卢中的最优者,急速前进,欲杀迦尔纳。
4.58.74
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा ।
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ॥ ४.५८.७४ ॥
这位勇力与功业奇异的冠者,在战斗中显现了梵天之箭;以箭的洪流灼烧迦尔纳的战车,如光芒环绕的太阳炙烤这些世界。
4.58.75
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् ।
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ ४.५८.७५ ॥
他如同被另一头象撞击的象王,从箭袋中取出锋利的婆罗箭,将弓拉至耳边,用箭射穿了御者之子。
4.58.76
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च ।
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ॥ ४.५८.७६ ॥
于是普利塔之子在战斗中刺穿了迦尔纳的双臂、头颅、额头、颈项、胸膛以及肩与臂之间的部位,如同尊贵的因陀罗以金刚杵击穿山岳。
4.58.77
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी ।
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ॥ ४.५८.७७ ॥
他无法承受普利塔之子所射的箭,这位敏捷而有力的英雄,如同一象被另一象所败,离开了战阵前线而退却;被普利塔之子的箭所灼伤的伐卡尔塔那(迦尔纳)便是如此。