摩诃婆罗多 · 章 4.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.59.1
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत् ।
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ॥ ४.५९.१ ॥
帕特ha见伐伽尔塔那(迦尔纳)已被击败,便对毗罗吒之子说:“王子,在战斗中坚定不移;胜利属于我们。”
4.59.2
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम् ।
अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्। ॥ ४.५९.२ ॥
在我吹响令敌人毛骨悚然的螺号之前——保持镇定,不动声色,隐藏内心与目光。
4.59.3
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ।
तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे। ॥ ४.५९.३ ॥
快去我的老师德罗纳在战斗中所在之处,那里阿周那在战场上如嬉戏般作战。
4.59.4
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ।
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥ ४.५९.४ ॥
他的力量、勇气、光辉与敏捷都增长了;看到这奇迹,恐惧进入了乌塔拉的心中。
4.59.5
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान् ।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥ ४.५९.५ ॥
你以神兵发射锐利的箭雨,我见你的威力,心中极度迷乱。
4.59.6
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम ।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥ ४.५९.६ ॥
婆罗多中最优秀者啊,我因恐惧心已分为两半;你的甘狄拔弓之鸣,我从未见过。
4.59.7
तव बाहुबलं चैव धनुः कर्षयतो बहु ।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥ ४.५९.७ ॥
你臂膀的力量与拉弓的威力极大,你的光辉不可抵挡,如毗湿奴三步时的光辉。
4.59.8
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ ४.५९.८ ॥
乌塔罗见到冠者(阿周那)突然射出的箭与甘狄拔弓,惊讶而恐惧,在战阵之中对阿周那说:“我不能驾驭你的马。”
4.59.9
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥ ४.५९.९ ॥
持甘狄拔弓、摧毁敌人的阿周那微微一笑,对他说:“有我做你的助手,你何惧之有?前进吧,乌塔罗!鼓励马匹,驱车前行。”
4.59.10
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम् ।
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥ ४.५९.१० ॥
乌塔罗受到财主(阿周那)的安慰,立即策马前进;如因陀罗般的财主也拉开弓弦,使其发出鸣响。
4.59.11
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः ।
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ॥ ४.५९.११ ॥
勇猛的阿周那又对乌塔罗说:“亲爱的孩子,有我在你身边,你在战阵前列不必害怕。”
4.59.12
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके ।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥ ४.५९.१२ ॥
你是王子,愿你吉祥。你生于伟大的摩差国刹帝利家族,不应当沮丧。
4.59.13
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम ।
युध्यमानस्य संग्रामे राजभिः सह वाहय ॥ ४.५९.१३ ॥
王子啊,以极大的坚定,驾驶我的战车前往我将与诸王在战场上交锋之处。
4.59.14
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत् ।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥ ४.५९.१४ ॥
对他如此说后,车战者中最优秀的般度之子阿周那望着婆罗堕阁之子(德罗纳)又说道。
4.59.15
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ॥ ४.५९.१५ ॥
在那里可以看见这座金色祭坛,如火焰之舌,高高立于金杆之上,并以旗帜装饰。
4.59.16
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम् ।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥ ४.५९.१६ ॥
请载我到那里去,愿你安好。我将与善人中最优秀的德罗纳交战;我将与这位大德的老师、婆罗堕阁之子交战。
4.59.17
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः ।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥ ४.५९.१७ ॥
那些赤色的骏马闪耀着光彩,善于驾驭,套在他那辆优良的战车上,精通一切训练。
4.59.18
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः ।
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ॥ ४.५९.१८ ॥
那辆优良战车上的英雄所在之处——他是所有持械者中最优秀的,如光滑的宝石般,红眼,令人喜悦。
4.59.19
आदित्य इव तेजस्वी बलवीर्यसमन्वितः ।
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥ ४.५९.१९ ॥
光辉如太阳,具备力量与勇武,是一切世界中最优秀的弓箭手,受到所有世界的尊崇;在谋略上与安吉罗斯和乌until纳斯相当,是智者中的最优者。
4.59.20
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः ।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥ ४.५९.२० ॥
四部吠陀,连同其支分、附支与特征;箭术吠陀全部;梵天之箭也安立于他之中。
4.59.21
पुराणमितिहासश्च अर्थविद्या च मानवम् ।
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ॥ ४.५९.२१ ॥
往世书与史诗、政事之学、以及摩奴法典;在婆罗堕遮(Bhāradvāja)那里,这些此刻全部齐备。
4.59.22
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् ।
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥ ४.५९.२२ ॥
忍耐、克己、真实、光辉、柔和与正直——以及众多其他德性,都安立于这位再生者中的最优者之中。
4.59.23
यस्याहमिष्टः सततं मम चेष्टः सदा च सः ।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ॥ ४.५९.२३ ॥
与那位始终对我亲近、始终对我怀有善意的人,如今我将以刹帝利之法为先,必定与之交战。
4.59.24
आचार्यं प्रापयेदानीं ममोत्तर महारथम् ।
अपरं पश्य संग्राममद्भुतं मम तस्य च ॥ ४.५९.२४ ॥
如今把我的大车夫送到老师那里去吧,乌塔罗。看哪,我与他之间又将有另一场奇妙的战斗。
4.59.25
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति ।
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥ ४.५९.२५ ॥
优陀罗听后便驱马朝那个方向前进。阿周那的战车向婆罗堕阇(德罗纳)的战车驶去。
4.59.26
तमापतन्तं वेगेन पाण्डवं सरथं रणे ।
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥ ४.५९.२६ ॥
在战场上,那位带着战车疾速冲来的般度之子,德罗纳也如发情的大象一般,扑向了阿周那。
4.59.27
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम् ।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४.५९.२७ ॥
看到那位乘坐金色战车疾驰而来的老师,这位臂力强大的贡蒂之子合掌说出了这些话。
4.59.28
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ ४.५९.२८ ॥
我们在森林中生活,想要报复。在战场上永远不可战胜的您,不应对我们发怒。
4.59.29
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ ।
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥ ४.५९.२९ ॥
无罪者啊,是您先击伤了我,而我心中也想要还击您。所以,请您原谅我。
4.59.30
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् ।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥ ४.५९.३० ॥
随后他吹响海螺,伴以大鼓和小鼓的声音,整支军队如同被搅动的大海一般骚动起来。
4.59.31
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम् ।
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥ ४.५९.३१ ॥
于是德罗纳射出二十支箭。手法娴熟的般度之子在箭未至之前便将其斩断。
4.59.32
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥ ४.५९.३२ ॥
于是勇猛的德罗纳展示其迅捷的手法,以千支箭覆盖了般度之子的战车。
4.59.33
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ॥ ४.५९.३३ ॥
于是婆罗堕遮之子与戴冠者之间的战斗开始了。
4.59.34
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥ ४.५९.३४ ॥
众人见战场上赤色而疾驰的骏马与天鹅色的骏马混杂在一起,都感到惊异。
4.59.35
रथं रथेन पार्थस्य समाहत्य परंतपः ।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥ ४.५९.३५ ॥
克敌的老师德罗纳以自己的战车撞击般度之子的战车,随即欢喜地迎战这位般度族勇士。
4.59.36
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥ ४.५९.३६ ॥
看见德罗纳与般度之子的旗帜仿佛相互拥抱,婆罗多人的大军一再颤抖。
4.59.37
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च ।
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥ ४.५९.३७ ॥
于是老师与阿周那之间的那场战斗开始了;两位光辉灿烂的勇士射出猛烈的箭矢与利箭。
4.59.38
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि ।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥ ४.५९.३८ ॥
在战阵之前,看到那两位具有勇力的英雄——师徒二人,乘车的战士,施展威力、迅捷而强劲的……
4.59.39
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये ।
उभावतिरथौ लोके ह्युभौ परपुंरजयौ।
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥ ४.५९.३९ ॥
二人皆以事迹闻名,为争胜而皆已疲惫;二人皆是世上的大车将,皆能征服敌军勇士,射出箭网之时,迷惑便进入了刹帝利们之中。
4.59.40
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे ।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥ ४.५९.४० ॥
德罗纳与阿周那相遇之时,众人皆感惊叹;只听见人们说话的声音——那巨大的喧嚷。
4.59.41
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात् ।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ॥ ४.५९.४१ ॥
战场上,除了阿周那,还有谁配与德罗纳交战?这刹帝利之法何等残酷,竟使人与老师交战。
4.59.42
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥ ४.५९.४२ ॥
站在战阵前的人们这样说道;他们看见那两位大车将,怒气冲冲,已然逼近……
4.59.43
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ ।
संयुगे संचकाशेतां कालसूर्याविवोदितौ ॥ ४.५९.४३ ॥
两位不可战胜的勇士以箭雨互相遮蔽,在战场上闪耀如两轮升起的毁灭之日。
4.59.44
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥ ४.५९.४४ ॥
此时愤怒的德罗纳拉开那张饰有金背、难以靠近的大弓,与法尔古那交战。
4.59.45
स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥ ४.५९.४५ ॥
他向阿周那的战车布下箭的罗网,并以在石上磨利的明亮箭矢遮蔽了四方。
4.59.46
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः ।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥ ४.५९.४६ ॥
于是阿周那这位大车手以数百支迅疾之箭射穿德罗纳,如暴雨之流冲击山峦。
4.59.47
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥ ४.५९.४७ ॥
如同盛夏之末,毁灭之黑云倾泻而下,法尔古那也倾下箭雨。
4.59.48
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः ।
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥ ४.५९.४८ ॥
婆罗堕阁之子德罗纳以自弓射出的金制斑斓箭矢,遮蔽了阿周那最上乘的战车。
4.59.49
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः ।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥ ४.५९.४९ ॥
同样,阿周那拉开神弓甘狄拔,射出迅捷的殊胜箭矢,能歼灭敌人,完成重大任务。
4.59.50
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः ।
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥ ४.५९.५० ॥
大臂阿周那挥舞甘狄拔弓,射出许多镶嵌黄金的奇妙箭矢,光彩照人。
4.59.51
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति ।
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥ ४.५९.५१ ॥
无量心的阿周那,用自己的箭遮蔽了从德罗纳弓射向婆罗堕遮(德罗纳)战车的箭,并将其阻挡。
4.59.52
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ॥ ४.५९.५२ ॥
普利塔之子阿周那,这位值得瞩目的大车战士,在战车上驰骋,同时向四方、各个方向放出兵器。
4.59.53
आददानं शरान्घोरान्संदधानं च पाण्डवम् ।
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ॥ ४.५९.५३ ॥
当般度之子拿起可怖的箭矢、搭上弦并射出时,无人能看清这位昆提之子的敏捷。
4.59.54
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥ ४.५९.५४ ॥
他以箭矢使四周的天空仿佛成为一片阴影;此时德罗纳不可见了,犹如被薄雾遮蔽的山峰。
4.59.55
मरीचिविकचस्येव राजन्भानुमतो वपुः ।
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥ ४.५९.५५ ॥
大王啊,普利塔之子的伟大身躯被数百支箭装饰着,宛如光芒绽放的灿烂太阳。
4.59.56
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः ।
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः ।
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥ ४.५९.५६ ॥
当那位伟大心灵的昆蒂之子射出箭网时,战胜于战场的德罗纳抖落那些可怕的箭,像驱散黑暗的太阳一样在天空中闪耀。
4.59.57
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे ।
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् ।
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥ ४.५९.५७ ॥
战场上,他如火轮般可怖,将大弓拉成圆形,伴随雷云般的轰鸣反复射出箭矢,被俱卢族人所见。
4.59.58
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा ।
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः ।
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥ ४.५९.५८ ॥
于是,四面八方的人们听到德罗纳弓弦的巨响,如闪电雷鸣,啊,婆罗多族之雄牛,它令诸军惊异。
4.59.59
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः ।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ ४.५९.५९ ॥
他以熔金制成、如火般炽烈的箭,灵魂无量的他遮蔽了四方,甚至遮蔽了太阳的光芒。
4.59.60
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम् ।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥ ४.५९.६० ॥
于是,带着金羽和弯曲节的箭矢在天空中飞行,看上去如同成群的鸟群。
4.59.61
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः ।
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ ४.५९.६१ ॥
从德罗纳的弓中射出箭矢;那些大箭看起来连成一条长线,在天空中如同天鹅的行列。
4.59.62
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून् ।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ ४.५९.६२ ॥
二位英雄如此发射许多饰金之箭,遮蔽了天空,仿佛用流星充满了天空。
4.59.63
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ ४.५९.६३ ॥
二人的箭,以白鹭和孔雀的羽毛装饰,闪耀着,宛如秋天天空中一行行醉酒的鹤。
4.59.64
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत् ।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥ ४.५९.६४ ॥
这两位愤怒的战士之间的战斗变得极其可怕、极其奇异、难以想象,犹如弗栗多与婆薮之战。
4.59.65
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ४.५९.६५ ॥
犹如两头大象靠近,以象牙尖互相撞击,二人以满弓射出的箭互相攻击。
4.59.66
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥ ४.५९.६६ ॥
于是胜利者中的最优者阿周那,以自己锐利的箭遏止了师长中的首领所射的、在石上磨利的箭。
4.59.67
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः ।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्। ॥ ४.५९.६७ ॥
他显示出如因陀罗般的凶猛形象,以勇猛的威力迅速用许多箭遮蔽了天空。
4.59.68
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् ।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥ ४.५९.६८ ॥
德罗纳用锋利的、带弯曲节的箭射穿了阿周那,这位人中之虎欲杀敌而令人望而生畏。
4.59.69
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् ।
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥ ४.५९.६९ ॥
精于战斗、威力强大的德罗纳十分欢喜,与阿周那平等相搏,仿佛游戏一般,用带弯曲节的箭作战。
4.59.70
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥ ४.५९.७० ॥
这两位披甲、在战场上闪耀的英雄彼此冲破对方的阵列,轮流发出从梵天之箭开始的神圣武器。
4.59.71
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः ।
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥ ४.५९.७१ ॥
然而英雄般的普利塔之子在战场上展示自己的威力,以大神兵与箭矢遮蔽了大德德罗纳。
4.59.72
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥ ४.५९.७२ ॥
以神兵抵挡神兵,普利塔之子阻止了德罗纳。
4.59.73
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥ ४.५९.७३ ॥
那两位愤怒、彼此无法容忍的人中雄狮在战场上爆发了激烈的交锋,如同婆利与婆婆之间的那一场。
4.59.74
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ॥ ४.५९.७४ ॥
在战场上,婆罗堕遮(德罗纳)与阿周那展示了他们的大神兵。
4.59.75
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ॥ ४.५९.७५ ॥
般度之子以因陀罗、风、火之神兵,一次又一次以神兵拦截德罗纳弓中射出的每一支神箭。
4.59.76
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान् ।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥ ४.५९.७६ ॥
两位英雄大弓手如此射出磨砺于石上的箭,以箭雨使天空化为一片阴影。
4.59.77
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु ।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ ४.५९.७७ ॥
此时阿周那所射之箭与落下之箭的声响,如同雷霆击打山峰一般传来。
4.59.78
ततो नागा रथाश्वाश्च सादिनश्च विशांपते ।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥ ४.५९.७८ ॥
人主啊!此时象、车、马与骑士都浸染鲜血,看去如同盛开的金翅木(欽舒迦)树。
4.59.79
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः ।
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ ४.५९.७९ ॥
带着臂钏的断臂,被斩断的大车战士,镶饰金饰的斑斓铠甲,以及倒伏的旌旗,散落一地。
4.59.80
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः ।
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ॥ ४.५९.८० ॥
在德罗纳与阿周那相遇之时,军队因被般度之子的箭射中而死去的战士,陷入极度混乱。
4.59.81
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने ।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥ ४.५९.८१ ॥
那两位英雄挥舞着能承受重担的弓,渴望将对方焚毁,以上乘的箭矢彼此遮蔽。
4.59.82
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ ४.५९.८२ ॥
那时天空中响起赞颂德罗纳的声音:德罗纳做了一件艰难之事,因为他与阿周那交战。
4.59.83
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् ।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥ ४.५९.८३ ॥
他是摧敌者,大勇者,握拳坚定,难以接近,征服了一切达extya,也是众人中的大车战士。
4.59.84
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥ ४.५९.८४ ॥
德罗纳见到般度之子在战斗中的百发百中、训练有素、手法敏捷与远射之能,也感到惊异。
4.59.85
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः ।
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ॥ ४.५९.८५ ॥
这两位大德之间的可怕战斗持续了很久,极其恐怖,使世界为之震动。
4.59.86
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥ ४.५९.८६ ॥
于是,婆罗多族的雄牛、怒不可遏的普利塔之子举起神弓甘狄拔,在战场上用双臂将其拉开。
4.59.87
तस्य बाणमयं वर्षे शलभानामिवाभवत् ।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥ ४.५९.८७ ॥
他的箭雨变得如同蝗虫群,甚至风也无法穿过他的箭隙。
4.59.88
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा ।
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ॥ ४.५९.८८ ॥
普利塔之子不断搭箭射出,同时进攻,却看不出他有丝毫空隙。
4.59.89
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे ।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥ ४.५९.८९ ॥
然而,在那场激烈的战斗中,快速的兵器正在使用之时,普利塔之子射出了比迅捷更迅捷的其他箭矢。
4.59.90
ततः शरसहस्राणि शराणां नतपर्वणाम् ।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ ४.५९.९० ॥
于是,成千上万支带有弯曲箭羽的箭,同时从近处落在德罗纳的战车上。
4.59.91
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ।
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ ४.५९.९१ ॥
当德罗纳被持甘狄拔弓者的箭雨覆盖时,军队中升起巨大的哀嚎之声,婆罗多族的雄牛啊。
4.59.92
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत् ।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ ४.५९.९२ ॥
因陀罗赞美了般度之子的迅捷神箭,聚集在那里的乾闼婆与阿普萨拉斯也同样赞叹。
4.59.93
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् ।
ततो वृन्देन महता रथिनां रथियूथपः ।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥ ४.५९.९३ ॥
德罗纳陷入战争之海,勇猛的儿子见状,便率大批车兵,这位导师之子、车阵统帅,以箭矢阻挡般度之子。
4.59.94
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः ।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥ ४.५९.९४ ॥
马嘶之子心中赞赏那位大丈夫的此举,但与此同时,他对普利塔之子也生出了怒火。
4.59.95
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ ४.५९.९५ ॥
他被愤怒所控制,在战斗中冲向普利塔之子,如满载雨水的云团般洒下千万支箭。
4.59.96
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत् ।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ ४.५९.९६ ॥
大臂者包围了对方,朝德罗纳所在之处而去;普利塔之子则为德罗纳留出了撤退的空隙。
4.59.97
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः ।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥ ४.५९.९७ ॥
他抓住机会,乘着迅捷的马匹迅速逃走,他的铠甲和旗帜战车已被上等箭矢射得粉碎。
4.59.98
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः ।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ४.५९.९८ ॥
德罗纳战败之后,德罗纳之子上前,红着双眼,如手持杖的死神一般,立于战场之中。