Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.74.1

ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः ।
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ॥ ४.७४.१ ॥

その翌日、五人の兄弟パーンダヴァたちは沐浴し、白い衣をまとい、皆よく誓戒を守る者であった。

4.74.2

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः ।
अभिपन्ना महाभागा भ्राजमाना महारथाः ॥ ४.७४.२ ॥

ユディシュティラを先頭に、あらゆる装飾で飾られ、大いなる幸運に恵まれ、輝く大戦士たちが近づいた。

4.74.3

विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ॥ ४.७४.३ ॥

ヴィラータの集会所に着くと、彼らは王の座に坐した。祭祀の祭壇に座す火のように輝きながら。

4.74.4

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः ।
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ॥ ४.७४.४ ॥

彼らがそこに座していると、その夜が明け、朝の務めを終えて、大地の主ヴィラータ王がやって来た。

4.74.5

गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
आजगाम सभां राजा उत्तरेण सह प्रभो ॥ ४.७४.५ ॥

規定どおりバラモンたちに牛や金などを施し、主よ、王はウッタラを伴って集会所へやって来た。

4.74.6

स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव ।
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्। ॥ ४.७४.६ ॥

燃え盛る火のような大いなる力の持ち主たちが王の装いをしているのを見て、その王は驚いた。

4.74.7

किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः ।
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ॥ ४.७४.७ ॥

これは何か。どのような掟か。恐れに苦しむかのように王は、人中の最良の者たちを見て憂いに沈んだ。

4.74.8

अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ ४.७४.८ ॥

そこでマツヤの王はカンカに語りかけた。彼はマルトの群れに囲まれた神々の王インドラのように座っていた。

4.74.9

स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः ।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥ ४.७४.९ ॥

お前を骰子の監督と議場の主に任じたのは私だ。それなのに、なぜ飾りを着けて王座に座っているのか。

4.74.10

परिहासेच्छया राज्ञो विराटस्य निशम्य तत् ।
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥ ४.७४.१० ॥

ヴィラータ王が冗談の気持ちで言ったその言葉を聞き、敵の英雄を倒すアルジュナは微笑みながらこう言った。

4.74.11

इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति ।
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ॥ ४.७४.११ ॥

王よ、この人はインドラの半座に座るにふさわしい。婆羅門を敬い、学識があり、施しを行い、すべての世界に崇められている。

4.74.12

एष विग्रहवान्धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याधिको लोके तपसां च परायणम् ॥ ४.७४.१२ ॥

この人は形をとったダルマであり、勇者の中で最も優れた者である。世間で知恵において勝り、苦行の至上の拠り所である。

4.74.13

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ॥ ४.७४.१३ ॥

彼は三界において、動くものと動かないものの中で、種々の武器を知っている。他の人間は知らず、いつまでも知ることはないだろう。

4.74.14

न देवा नासुराः केचिन्न मनुष्या न राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ४.७४.१४ ॥

神々でもなく、阿修羅でもなく、人間でもなく、羅刹でもない。ガンダルヴァやヤクシャの中の最勝者も、キンナラや大蛇も(彼に並ぶ者はいない)。

4.74.15

दीर्घदर्शी महातेजाः पारैजानपदप्रियः ।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥ ४.७४.१५ ॥

先見の明があり、大いなる光輝を持ち、国の民に愛される。パーンダヴァの中の大戦車兵、祭祀と法に専念し、己を制する者。

4.74.16

महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ॥ ४.७४.१६ ॥

大聖者のようで、王仙として諸世界に名高い。力強く、忍耐強く、巧みで、真実を語り、感覚を制する者。

4.74.17

धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेव महातेजाः प्रजानुग्रहकारकः ॥ ४.७४.१७ ॥

富と蓄えにおいてインドラとヴァイシュラヴァナ(クベーラ)に等しい。偉大な光輝のマヌが諸世界を守ったように、この大いなる光輝の人もまた臣民に恵みを施す者である。

4.74.18

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ ४.७४.१८ ॥

この人こそクル族の雄牛、クンティーの子ユディシュティラである。その名声は、昇る太陽の輝きのように世に確立している。

4.74.19

संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ॥ ४.७४.१९ ॥

彼の栄光の光線は、昇る太陽の光のように、あらゆる方角へ広がっていた。

4.74.20

एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ ४.७४.२० ॥

王よ、彼がクル族の間に住んでいた間、三万頭の力強い象が後ろに従った。

4.74.21

त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम् ।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ॥ ४.७४.२१ ॥

三万の最上の戦車と車上の戦士たちが、優れた馬を備えて、そのとき彼の後ろに従った。

4.74.22

वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च ।
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः।
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ ४.७४.२२ ॥

王よ、数十万、数万の馬、磨かれた宝玉の耳飾りをつけた八百人の御者の吟遊詩人が、マーガダの吟遊詩人たちとともに、昔の聖仙たちがインドラを讃えたように彼を讃えた。

4.74.23

इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा ।
सर्वे च नृप राजानं धनेश्वरमिवामराः ॥ ४.७४.२३ ॥

そのとき、クル族の召使いたちは皆、常に彼に仕えて立っていた。王よ、神々が財宝の主クベーラに仕えるように、皆がこの王に仕えたのである。

4.74.24

एष सर्वान्महीपालान्करमाहारयत्तदा ।
वैश्यानिव महाराज विवशान्स्ववशानपि ॥ ४.७४.२४ ॥

偉大な王よ、彼はそのとき、商人から税を取るように、従属する者も独立した者も含め、すべての王に貢納を運ばせた。

4.74.25

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् ।
उपजीवन्ति राजानमेनं सुचरितव्रताः ॥ ४.७४.२५ ॥

立派に誓戒を守る八万八千の大いなる魂のスナータカたちは、この王によって生きている。

4.74.26

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ॥ ४.७४.२६ ॥

彼は老人、孤児、身体障害者、足の不自由な者、小人を息子のように守り、王の義務に従って臣民を治めた。

4.74.27

एष धर्मे दमे चैव दाने सत्ये रतः सदा ।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ ४.७४.२७ ॥

この王は常に法、自制、布施、真実に専心している。彼は大いに慈悲深く、バラモンを敬い、真実を語る。

4.74.28

श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
रगणः सह कर्णेन सौबलेन च वीर्यवान् ॥ ४.७४.२८ ॥

その輝かしい繁栄の力によって、勇猛なカウラヴァ軍はカルナ、サウバラ(シャクニ)とともに悩まされている。

4.74.29

गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर ।
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ॥ ४.७४.२९ ॥

人の王よ、彼の徳は数え尽くせない。彼は常に法に専心し、慈悲深く、品行が良い。

4.74.30

एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ ४.७४.३० ॥

大王よ、このような徳を備えた、人の中の牡牛である、大地の主のパーンドゥの子が、王にふさわしい座にどうしてふさわしくないことがあろうか。