Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.139.1

एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः ।
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ॥ ५.१३९.१ ॥

被如此说后,他心情沮丧,斜视着,低着头,紧锁双眉之间,什么也没有说。

5.139.2

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥ ५.१३९.२ ॥

见他沮丧,两位人中雄牛从近处互相注视,又说出了接下来的话。

5.139.3

शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् ।
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥ ५.१३९.३ ॥

我们必须与普利塔之子作战,他顺从、无嫉妒、敬重婆罗门、言语真实。还有什么比这更痛苦的呢?

5.139.4

अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये ।
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे ॥ ५.१३९.४ ॥

国王啊,我对猴旗的达南嘉耶的敬重与亲爱,与对我儿阿施瓦塔曼的一样深。

5.139.5

तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् ।
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम् ॥ ५.१३९.५ ॥

若我与比儿子更亲爱的达南嘉耶作战,那么履行刹帝利法的刹帝利生计,便当受到诅咒。

5.139.6

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥ ५.१३९.६ ॥

世上没有另一位与他相等的射手;凭我的恩惠,那位比波特苏胜过其他一切射手。

5.139.7

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः ।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥ ५.१३९.७ ॥

背叛朋友、心性邪恶、不信神明、狡诈欺骗之人,在善人之中得不到尊重;他就像未受邀请而来到祭祀中的愚人。

5.139.8

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥ ५.१३९.८ ॥

恶心之人即使被阻止作恶,仍然贪求恶;善心之人即使被恶人所驱使,仍然贪求善。

5.139.9

मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये ।
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥ ५.१३९.९ ॥

亲爱的,当这些虚伪奉承之人在场时,他们的过失只会导致祸害,婆罗多最杰出者啊。

5.139.10

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे ॥ ५.१३९.१० ॥

库鲁族的长者、我、毗杜罗和婆苏提婆都曾劝告你,你却不肯接受善言。

5.139.11

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि ।
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥ ५.१३९.११ ॥

你以为'我有力量',便贸然想渡过布满鳄鱼、鲨鱼和摩羯的恒河激流。

5.139.12

वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे ।
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥ ५.१३९.१२ ॥

如同裹着衣服便以为自己隐藏了一样,你因贪欲得到了坚战的财富,却把它当作被丢弃的花环而据为己有。

5.139.13

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् ।
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति ॥ ५.१३९.१३ ॥

虽居于林中,然与德罗波蒂同在、被持械兄弟环绕的般度之子阿周那,处于王位之上的何人能够战胜这位般度族之子?

5.139.14

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः ।
तमैलविलमासाद्य धर्मराजो व्यराजत ॥ ५.१३९.१४ ॥

到达了艾罗毗罗(俱毗罗)处,在其命令之下,诸王皆如仆役般侍立,法王因此光彩焕发。

5.139.15

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥ ५.१३९.१५ ॥

般度之子们到达俱毗罗的居所,获得宝石之后,又侵犯你们富庶的国土,希望得到王位。

5.139.16

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥ ५.१३९.१६ ॥

我们已行布施,已行祭祀,已诵读吠陀,已以财富使婆罗门满足;我们二人的寿命已经过去——请知道我们已经完成了职责。

5.139.17

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥ ५.१३९.१७ ॥

至于你,舍弃了安乐、王国、朋友与财富,又与般度之子们争斗,你将遭遇巨大的灾难。

5.139.18

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम् ॥ ५.१३९.१८ ॥

德罗波蒂女神,言语诚实,持守严酷的苦行誓愿,祈愿其胜利——你将如何战胜这位般度之子?

5.139.19

मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः ।
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम् ॥ ५.१३९.१९ ॥

你如何能战胜那位般度之子?他的谋士是Janārdana(黑天),他的兄弟是Dhanañjaya(阿周那),是所有持武器者中最优秀的。

5.139.20

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः ।
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥ ५.१३९.२० ॥

你如何能战胜那位英雄般度之子?他苦行严酷,有坚定而克制感官的婆罗门作为他的助手。

5.139.21

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता ।
सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे ॥ ५.१३९.२१ ॥

我将再次说出那位希望繁荣的好友应当做的事——当朋友们在灾难的海洋中沉没时。

5.139.22

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।
मा गमः सतुतामात्यःसमित्रश्च यमक्षयम् ॥ ५.१३९.२२ ॥

与那些英雄的战争已经足够了——为了库鲁族的繁荣,请求和。不要与你的儿子、大臣和盟友一同前往阎摩的居所。