摩诃婆罗多 · 章 5.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.14.1
अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः ।
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥ ५.१४.१ ॥
于是容貌美丽、贞洁的优帕首鲁提走到她面前。看见这位青春美貌、站在面前的女神——
5.14.2
इन्द्राणी संप्रहृष्टात्मा संपूज्यैनामथाब्रवीत् ।
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥ ५.१४.२ ॥
因陀罗尼心中欢喜,恭敬地招待她,然后说道:“美面者啊,我想认识你。你是谁?请告诉我。”
5.14.3
उपश्रुतिरहं देवि तवान्तिकमुपागता ।
दर्शनं चैव संप्राप्ता तव सत्येन भामिनि ॥ ५.१४.३ ॥
优帕首鲁提说:“女神啊,我是优帕首鲁提。我已来到你身边。光彩照人的女士,凭借你的真实,我得以见到你。”
5.14.4
पतिव्रता च युक्ता च यमेन नियमेन च ।
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ॥ ५.१४.४ ॥
“我对丈夫忠贞,并以克制与持戒自律。我将为你显现杀死弗栗多的天神释迦。”
5.14.5
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ।
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ॥ ५.१४.५ ॥
“快跟我来,愿你吉祥。你将见到诸神中最优秀的那位。”于是因陀罗尼跟随那位动身的女神前行。
5.14.6
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥ ५.१४.६ ॥
越过神圣的森林与众多山峦,又越过喜马拉雅,她们来到了北方一侧。
5.14.7
समुद्रं च समासाद्य बहुयोजनविस्तृतम् ।
आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥ ५.१४.७ ॥
她到达绵延许多由旬的大海,又来到一座被各种树木藤蔓覆盖的大岛。
5.14.8
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् ।
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥ ५.१४.८ ॥
她在那里看见一座神圣的湖泊,周围环绕着各种鸟类,宽一百由旬,长度相同,吉祥美好。
5.14.9
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥ ५.१४.९ ॥
婆罗多啊,那里有五色的神圣莲花,蜜蜂为之歌唱,成千上万地盛开着。
5.14.10
सरसस्तस्य मध्ये तु पद्मिनी महती शुभा ।
गौरेणोन्नतनालेन पद्मेन महता वृता ॥ ५.१४.१० ॥
湖中央有一株巨大吉祥的莲花丛,周围环绕着一朵高茎的巨大白莲。
5.14.11
पद्मस्य भित्त्वा नालं च विवेश सहिता तया ।
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥ ५.१४.११ ॥
她刺穿莲茎,与之一同进入;进入莲丝之中,她在那里看见了百祭(因陀罗)。
5.14.12
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् ।
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ॥ ५.१४.१२ ॥
她看见那位主宰以极其微妙的形态站立,于是这位化为微妙形体的女神便成为了优帕伊鲁提。
5.14.13
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः ।
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः ॥ ५.१४.१३ ॥
因陀罗尼以her著名的往昔功业赞颂因陀罗。受赞的天神补兰陀罗于是对舍只说道。
5.14.14
किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् ।
ततः सा कथयामास नहुषस्य विचेष्टितम् ॥ ५.१४.१४ ॥
“你为何而来,我又是如何被认出的?”于是她讲述了那伽娑的所作所为。
5.14.15
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः ।
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ॥ ५.१४.१५ ॥
“他已在三界获得因陀罗之位,有了威力,被傲慢所占据,心怀邪恶,对我说道:‘噫,百祭!’”
5.14.16
उपतिष्ठेति स क्रूरः कालं च कृतवान्मम ।
यदि न त्रास्यसि विभो करिष्यति स मां वशे ॥ ५.१४.१६ ॥
“来到我这里吧”,那残暴者如此说,并为我定下了期限。噫,大能者!你若不救我,他便会使我落入他的掌控。
5.14.17
एतेन चाहं संप्राप्ता द्रुतं शक्र तवान्तिकम् ।
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥ ५.१४.१७ ॥
因此我迅速来到你的面前。噫,帝释,大臂者啊,请杀掉那可怖的、心怀恶念的那伽娑。
5.14.18
प्रकाशयस्व चात्मानं दैत्यदानवसूदन ।
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥ ५.१४.१८ ॥
显现你自己吧,诛灭提迭与檀那婆者!噫,大能者,获得光辉,统治诸天的王国吧。