摩诃婆罗多 · 章 5.171
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.171.1
पाञ्चालराजस्य सुतो राजन्परपुरंजयः ।
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥ ५.१७१.१ ॥
毗湿摩说:大王啊,般遮罗王之子湿婆坎迪,征服敌城者,在我看来是般度之子(阿周那)最杰出的车战勇士,婆罗多的后裔啊。
5.171.2
एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितम् ।
परं यशो विप्रथयंस्तव सेनासु भारत ॥ ५.१७१.२ ॥
他将在战斗中作战,摧毁先前列阵的军队,在你的军队中传扬至高的荣誉,婆罗多的后裔啊。
5.171.3
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः ।
तेनासौ रथवंशेन महत्कर्म करिष्यति ॥ ५.१७१.३ ॥
他的军队众多,还有般遮罗人与普罗跋陀罗人;凭借那一支战车之队,他将建立伟大的功业。
5.171.4
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत ।
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥ ५.१७१.४ ॥
德里斯塔德尤姆那是所有军队的统帅,婆罗多的后裔啊;在我看来他是超级战车勇士,大王啊,德罗那的弟子,大战车勇士。
5.171.5
एष योत्स्यति संग्रामे सूदयन्वै परान्रणे ।
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये ॥ ५.१७१.५ ॥
他将在战斗中作战,在混战中杀戮敌人,如同在劫末震怒的世尊、持弓者湿婆(Pinākin)。
5.171.6
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः ।
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥ ५.१७१.६ ॥
喜好战斗的人谈论他的战车大军,因其众多而如大海,在战斗中如同诸神之军。
5.171.7
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप ।
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥ ५.१७१.७ ॥
王中之王啊,依我之见,专心于刹帝利法的半车战士是Dhṛṣṭadyumna之子;因年少,他尚未多加努力。
5.171.8
शिशुपालसुतो वीरश्चेदिराजो महारथः ।
धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह ॥ ५.१७१.८ ॥
英雄Dhṛṣṭaketu,Śiśupāla之子,车底国王,是大车战士和大弓箭手,也是般度之子的亲属。
5.171.9
एष चेदिपतिः शूरः सह पुत्रेण भारत ।
महारथानां सुकरं महत्कर्म करिष्यति ॥ ५.१७१.९ ॥
婆罗多啊,这位英勇的车底之主将与他的儿子一起完成一件伟大的功绩,即使对大车战士而言也不容易。
5.171.10
क्षत्रधर्मरतो मह्यं मतः परपुरंजयः ।
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ॥ ५.१७१.१० ॥
王中之王啊,专心于刹帝利法、征服敌城的Kṣatradeva,依我之见是般度之子中最优秀的车战士。
5.171.11
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ।
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ॥ ५.१७१.११ ॥
Jayanta、Amitaujas与大车战士Satyajit——这些高尚的大车战士都是般遮罗人中的最优秀者。
5.171.12
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ।
अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ ॥ ५.१७१.१२ ॥
孩子啊,这些人将在战场上像愤怒的大象一样战斗;阿阇与婆阇这两位勇猛的大车战士,为般度之子而战。
5.171.13
योत्स्येते बलिनौ शूरौ परं शक्त्या यतिष्यतः ।
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः ॥ ५.१७१.१३ ॥
这两位强大的英雄将奋战,竭尽全力。他们箭术迅捷,战法奇妙,技艺娴熟,勇力坚定。
5.171.14
केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः ।
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः ॥ ५.१७१.१४ ॥
帝王之主啊,凯迦耶的五位兄弟勇力坚定。他们都是高贵的车战勇士,旗帜皆为红色。
5.171.15
काशिकः सुकुमारश्च नीलो यश्चापरो नृप ।
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥ ५.१७१.१५ ॥
陛下啊,迦尸(Kāśika)、苏库马拉(Sukumāra)、尼罗(Nīla)及另一人;苏利耶达塔(Sūryadatta)、商伽(Śaṅkha)与摩提罗什瓦(Madirāśva),以名称之。
5.171.16
सर्व एव रथोदाराः सर्वे चाहवलक्षणाः ।
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥ ५.१७१.१६ ॥
他们都是高贵的车战勇士,都具备战阵的风姿。他们皆通晓一切兵器;依我看,他们都是大德之人。
5.171.17
वार्धक्षेमिर्महाराज मतो मम महारथः ।
चित्रायुघश्च नृपतिर्मतो मे रथसत्तमः ॥ ५.१७१.१७ ॥
伟大的君王啊,我认为婆尔达克谢米是大车战士。国王citrāyudha在我看来是车战勇士中的最优者。
5.171.18
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः ।
चेकितानः सत्यधृतिः पाण्डवानां महारथौ ।
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥ ५.१७१.१८ ॥
他在战场上光彩夺目,也忠于戴冠者(阿周那)。赤起丹(Cekitāna)与真坚(Satyadhṛti)是般度之子的两位大车战士。这两位人中猛虎,我认为是高贵的车战勇士。
5.171.19
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत ।
मतौ मम रथोदारौ पाण्डवानां न संशयः ॥ ५.१७१.१९ ॥
王中之王啊,婆罗多后裔啊,依我之见,虎授与月军是般度子孙慷慨的车战勇士,此无疑问。
5.171.20
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः ।
यः समो वासुदेवेन भीमसेनेन वा विभो ॥ ५.१७१.२० ॥
王中之王啊,名为军点与怒杀者,与婆苏提婆或毘摩森那相等,啊,大能者。
5.171.21
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः ।
मां च द्रोणं कृपं चैव यथा संमन्यते भवान् ॥ ५.१७१.२१ ॥
他必定在战场上勇猛地与你的士兵作战,也与我、德罗纳和克里帕作战,正如你所设想的。
5.171.22
तथा स समरश्लाघी मन्तव्यो रथसत्तमः ।
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः ॥ ५.१७१.२२ ॥
同样,他应被视为在战斗中自夸且最优秀的车战勇士;迦尸王子善用兵器,动作极其迅速,值得称赞,乃人中之杰。
5.171.23
रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः ।
अयं च युधि विक्रान्तो मन्तव्योष्टगुणो रथः ॥ ५.१७१.२३ ॥
在我看来,那辆战车只有一种长处,啊,征服敌城者;而这位在战斗中勇敢的,应被视为具有八种长处的战车。
5.171.24
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ।
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ॥ ५.१७१.२४ ॥
萨提亚吉特,战斗中自夸,德鲁帕达的年轻之子,确已达到大车战勇士之位,与德里斯塔尤姆那相等。
5.171.25
पाण्डवानां यशस्कामः परं कर्म करिष्यति ।
अनुरक्ताश्च शूरश्च रथोऽयमपरो महान् ॥ ५.१७१.२५ ॥
这位勇敢而忠诚的另一位大战车武士,渴望般度五子的荣誉,将建立最高的功绩。
5.171.26
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः ।
दृढधन्वा महेष्वासः पाण्डवानां महारथः ॥ ५.१७१.२६ ॥
潘地亚王,大有威力,是般度五子的支柱,弓法坚定,大弓箭手,般度五子的大战车武士。
5.171.27
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ।
उभावेतावतिरथौ मतौ परपुरंजयौ ॥ ५.१७१.२७ ॥
库卢之最,室利尼曼与国王婆苏陀那——这二人被视为大战车武士,征服敌城者。