Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.22.1

प्राप्तानाहुः सञ्जय पाण्डुपुत्रा-
नुपप्लव्ये तान्विजानीहि गत्वा।
अजातशत्रुं च सभाजयेथा ।
दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ॥ ५.२२.१ ॥

Sañjaya,据说般度之子已抵达优婆婆阳。你去打听他们的情况,并要敬重阿阇多设咄。幸运的是,你已从森林回到村落。

5.22.2

सर्वान्वदेः सञ्जय स्वस्तिमन्तः ।
कृच्छ्रं वासमतदर्हा निरुष्य।
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं ।
मिथ्यापेतानामुपकारिणां सताम् ॥ ५.२२.२ ॥

Sañjaya,你要向他们所有人问好,愿他们平安。他们本不配受这般艰苦的寄居,却仍忍受了下来。与我们和好对这些远离虚妄、施恩于人的善人来说,或许很快便能实现。

5.22.3

नाहं क्वचित्सञ्जय पाण्डवानां ।
मिथ्यावृत्तिं कांचन जात्वपश्यम्।
सर्वां श्रियं ह्यात्मवीर्येण लब्धां ।
पर्याकार्षुः पाण्डवा मह्यमेव ॥ ५.२२.३ ॥

Sañjaya,我从未见过般度之子有任何欺诈的行为。般度之子把他们凭自身勇力所得的全部财富都交还给了我。

5.22.4

दोषं ह्येषां नाध्यगच्छं परीच्छ-
न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान्।
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं ।
सुखप्रिये नानुरुध्यन्ति कामात् ॥ ५.२२.४ ॥

我仔细寻找他们身上哪怕细微的过失,好借以指责普利塔之子,却一无所获。他们始终依法度与财利行事,虽喜享乐,却不受欲望驱使。

5.22.5

धर्मं शीतं क्षुत्पिपासे तथैव ।
निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्।
धृत्या चैव प्रज्ञया चाभिभूय ।
धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥ ५.२२.५ ॥

以坚韧与智慧战胜寒冷、饥渴,以及睡眠、昏沉、愤怒、喜悦和懈怠之后,般度之子努力追求法与利的结合。

5.22.6

र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ॥ ५.२२.६ ॥

从难敌,以及比他更卑劣的迦尔纳那里。

5.22.7

पुत्रो मह्यं मृत्युवशं जगाम ।
दुर्योधनः सञ्जय रागबुद्धिः।
तेषां हीमौ हीनसुखप्रियाणां ।
महात्मनां संजनयतो हि तेजः ॥ ५.२२.७ ॥

我的儿子难敌,桑闪耶,因贪欲之心已落入死亡之手。这二人正在增添那些失去喜乐的大德者的光辉……

5.22.8

उत्थानवीर्यः सुखमेधमानो ।
दुर्योधः सुकृतं मन्यते तत्।
तेषां भागं यच्च मन्येत बालः ।
शक्यं हर्तुं जीवतां पाण्डवानाम् ॥ ५.२२.८ ॥

难敌凭借努力的力量快乐地增长,以此为善行;只要般度五子尚在,那愚者以为属于他们的份额,便可以从他们手中夺走。

5.22.9

यस्यार्जुनः पदवीं केशवश्च ।
वृकोदरः सात्यकोऽजातशत्रोः ।
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति ।
पुरा युद्धात्साधु तस्य प्रदानम् ॥ ५.२२.९ ॥

阿周那与克舍婆、狼腹、萨蒂亚基、摩德利的两个儿子以及寿耆人,都行走在那位不可战胜之敌的道路上;在战前,好好地给予他为善。

5.22.10

सह्येवैकः पृथिवीं सव्यसाची ।
गाण्डीवधन्वा प्रणुदेद्रथस्थः।
तथा जिष्णुः केशवोऽप्यप्रधृष्यो ।
लोकत्रयस्याधिपतिर्महात्मा ॥ ५.२२.१० ॥

唯独左右开弓的萨维亚萨钦能够承载大地;他立于战车之上持甘狄拔神弓,便能撼动它。胜利者克沙婆亦然,他不可战胜,是三界的至尊大士。

5.22.11

तिष्ठेत कस्तस्य मर्त्यः पुरस्ता-
द्यः सर्वलोकेषु वरेण्य एकः।
पर्जन्यघोषान्प्रवपञ्शरौघा-
न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥ ५.२२.११ ॥

在他面前,谁能站立?他是一切世界中唯一最优秀者,如雷鸣般吼叫,如蝗群般迅疾,倾泻出箭矢的洪流。

5.22.12

दिशं ह्युदीचीमपि चोत्तरान्कुरून् ।
गाण्डीवधन्वैकरथो जिगाय।
धनं चैपामाहरत्सव्यसाची ।
सेनानुगान्द्रविडांश्चैव चक्रे ॥ ५.२२.१२ ॥

手持甘狄拔神弓,单乘一车,他征服了北方与北方的俱卢人;左右开弓的萨维亚萨钦带回了他们的财富,并使德拉维达人连同其军队臣服。

5.22.13

यश्चैव देवान्खाण्डवे सव्यसाची ।
गाण्डीवधन्वा प्रजिगाय सेन्द्रान्।
उपाहरत्पाण्डवो जातवेदसे ।
यशो मानं वर्धयन्पाण्डवानाम् ॥ ५.२२.१३ ॥

在卡姆达瓦林中,他手持甘狄拔神弓,与因陀罗一同战胜诸神;般度之子将其献给火神,增益般度五子的荣耀与声望。

5.22.14

गदाभृतां नास्ति समोऽत्र भीमा-
द्धस्त्यारोहो नास्ति समश्च तस्य।
रथेऽर्जुनादाहुरहीनमेनं ।
बाह्वोर्वलेनायुतनागवीर्यम् ॥ ५.२२.१४ ॥

在此持杖的勇士中,无人能与毗摩相比;骑象之术上,也无人能与他匹敌。据说在战车上他也不逊于阿周那;凭借双臂之力,他拥有万头象的威力。

5.22.15

सुशिक्षितः कृतवैरस्तरस्वी ।
दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् ।
सदाऽत्यमर्षी न वलात्स शक्यो ।
युद्धे जेतुं वासवेनापि साक्षात् ॥ ५.२२.१५ ॥

他训练有素,怀有敌意,且勇猛刚烈。他会以力量焚毁卑微的持国之子。他永远不能容忍侮辱;在战斗中,即便因陀罗亲自出马,也无法以力量战胜他。

5.22.16

सुतेजसौ वलिनौ शीघ्रहस्तौ ।
सुशिक्षितौ भ्रातरौ फाल्गुनेन।
श्येनौ यथा पक्षिपूगान्रुजन्तौ ।
माद्रीपुत्रौ शेपयेतां न शत्रून् ॥ ५.२२.१६ ॥

这两位兄弟光辉卓著、强壮且手法迅捷,由法尔古那(阿周那)精心训练。如同鹰隼击碎鸟群,玛德里的两个儿子将碾碎敌人,不留一个。

5.22.17

एतद्बलं पूर्णमस्माकमेवं ।
यत्सत्यं तान्प्राप्य नास्तीति मन्ये।
तेषां मध्ये वर्तमानस्तरस्वी ।
धृष्टद्युम्नः पाण्डवानामिहैकः ॥ ५.२२.१७ ॥

我认为我们这支军队是完整的;但说实话,与他们相遇时,它便如同虚无。那位在他们之中的勇猛者持首,在般度诸子中,此处只有他一人。

5.22.18

सहामात्यः सोमकानां प्रबर्हः ।
सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे।
अजातशत्रुं प्रसहेत कोऽन्यो ।
येषां स स्यादग्रणीर्वृष्णिसिंह ॥ ५.२२.१८ ॥

与他的大臣们一起,这位索摩迦中的翘楚,为了般度诸子甘愿舍弃自己的性命——我听说如此。除了他,还有谁能抵挡无敌者(坚战)?那些以他为首领的人,以及作为其首领的瓦尔什尼之狮(黑天)。

5.22.19

सहोषितश्चरितार्थो वयस्थो ।
मात्स्येयानामधिपो वै विराटः।
स वै सपुत्रः पाण्डवार्थे च शश्व-
द्युधिष्ठिरे भक्त इति श्रुतं मे ॥ ५.२२.१९ ॥

摩差的国王毗罗吒,曾与他们共同生活,志愿已成,年事已高,正是此人。据我所闻,他与诸子一道,为般度五子之故,始终忠于坚战。

5.22.20

अवरुद्धा रथिनः केकयेभ्यो ।
महेष्वासा भ्रातरः पञ्च सन्ति।
केकयेभ्यो राज्यमाकाङ्क्षमाणा ।
युद्धार्थिनश्रानुवसन्ति पार्थान् ॥ ५.२२.२० ॥

那五位兄弟,皆为大弓手与车战勇士,被迦叶族诸王所阻,如今却在般度之子身边。他们渴望从迦叶族夺回王国,寻求战斗,侍奉于普利塔之子左右。

5.22.21

सर्वांश्च वीरान्पृथिवीपतीनां ।
समागतान्पाण्डवार्थे निविष्टान्।
शूरानहं भक्तिमतः शृणोमि ।
प्रीत्या युक्तान्संश्रितान्धर्मराजन् ॥ ५.२२.२१ ॥

我听说,为般度五子而聚集、立于其侧的诸地上之王的所有勇士,那些忠诚的英雄,皆与之相连。法王啊,他们以爱相系,依托于他。

5.22.22

गिर्याश्रया दुर्गनिवासिनश्च ।
योधाः पृथिव्यां कुलजातिशुद्धाः।
म्लेच्छाश्च नानायुधवीर्यवन्तः ।
समागताः पाण्डवार्थे निविष्टाः ॥ ५.२२.२२ ॥

住于山中与堡垒之中的战士,在大地上出身清白的勇士,以及精通多种兵器、威力强大的蛮族,都为般度五子之故聚集于此,安居在那里。

5.22.23

पाण्ड्यश्च राजा समितीन्द्रकल्पो ।
योधप्रवीरैर्बहुभिः समेतः।
समागतः पाण्डवार्थे महात्मा ।
लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥ ५.२२.२३ ॥

潘地亚王如集会中的因陀罗,为般度之子而来,伴随众多英勇战士。这位大丈夫,世间英雄,威力与光辉无与伦比。

5.22.24

अस्त्रं द्रोणादर्जुनाद्वासुदेवा-
त्कृपाद्भीष्माद्येन कृतं शृणोमि।
यं तं कार्ष्णिप्रतिममाहुरेकं ।
स सात्यकिः पाण्डवार्थे निविष्टः ॥ ५.२२.२४ ॥

我听说,从德罗纳、阿周那、婆苏提婆、克里帕和毗湿摩处学得武器的人,被称为克里希纳之子的唯一匹敌者,那位萨提亚基已为般度之子而立于阵前。

5.22.25

उपाश्रिताश्चेदिकरूशकाश्च ।
सर्वोद्योगैर्भूमिपालाः समेताः।
तेषां मध्ये सूर्यमिवातपन्तं ।
श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥ ५.२२.२५ ॥

车底和迦卢沙诸王以全部努力前来投靠而聚集。在他们之中,有如太阳般灼灼、被光荣环绕、光芒四射的车底王。

5.22.26

अस्तम्भनीयं युधि मन्यमान्यो ।
ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् ।
सर्वोत्साहं क्षत्रियाणां निहत्य ।
प्रसह्य कृष्णस्तरसा संममर्द ॥ ५.२२.२६ ॥

在战场上被视为不可阻挡的克里希纳,是大地上拉弓者中最优秀的,他摧毁了刹帝利的全部斗志,以力量和迅猛之势将他们碾碎。

5.22.27

यशोमानौ वर्धयन्पाण्डवानां ।
पुराऽभिनच्छिशुपालं समीक्ष्य।
यस्य सर्वे वर्धयन्ति स्म मानं ।
करूशराजप्रमुखा नरेन्द्राः ॥ ५.२२.२७ ॥

增益般度诸子之荣誉者,昔日望见失舞波罗而击杀之者;众王,以迦卢沙王为首,皆增益其荣誉。

5.22.28

तमसह्यं केशवं तत्र मत्वा ।
सुग्रीवयुक्तेन रथेन कृष्णम्।
संप्राद्रवंश्चेदिपतिं विहाय ।
सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥ ५.२२.२८ ॥

彼等以刻舍婆为不可抵挡,见克里希那乘须羯哩婆所驾之车,遂舍弃遮提王而奔逃,如小鹿见狮子。

5.22.29

यस्तं प्रतीपस्तरसा प्रत्युदीया-
दाशंसमानो द्वैरथे वासुदेवम् ।
सोऽशेत कृष्णेन हतः परासु-
र्वातेनेवोन्मथितः कर्णिकारः ॥ ५.२२.२९ ॥

彼迅速迎上前来,希望在单挑中战胜婆苏提婆,却为克里希那所杀,无命地躺卧,如被风吹倒的卡尔尼迦罗树。

5.22.30

पराक्रमं मे यदवेदयन्त ।
तेषामर्थे सञ्जय केशवस्य।
अनुस्मरंस्तस्य कर्माणि विष्णो-
र्गावल्गणे नाधिगच्छामि शान्तिम् ॥ ५.२२.३० ॥

桑闍耶啊,念及有人向我报告的彼等勇武,以及毗湿奴即刻舍婆的那些事迹,嗟乎迦伐岚纳之子,我不得安宁。

5.22.31

न जातु ताञ्छत्रुरन्यः सहेत ।
येषां स स्यादग्रणीर्वृष्णिसिंहः ।
प्रवेपते मे हृदयं भयेन ।
श्रुत्वा कृष्णावेकरथे समेतौ ॥ ५.२२.३१ ॥

其他敌人绝不能抵挡他们,其首领乃那位吠瑞尼之狮。听闻两位克里希那同乘一车,我心因恐惧而颤抖。

5.22.32

न चेद्गच्छेत्सङ्गरं मन्दबुद्धि-
स्ताभ्यां लभेच्छर्म तदा सुतो मे।
नो चेत्कुरून्सञ्जय निर्दहेता-
मिन्द्राविष्णू दैत्यसेनां यथैव ॥ ५.२२.३२ ॥

若那愚人不去作战,我儿便可从二人那里得到庇护。否则,桑外啊,二人将焚毁俱卢族,正如因陀罗与毗湿奴焚毁檀那婆之军。

5.22.33

मते हि मे शक्रसमो धनञ्जयः ।
सनातनो वृष्णिवीरश्च विष्णुः।
धर्मारामो ह्रीनिषेवस्तरस्वी ।
कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ॥ ५.२२.३३ ॥

依我看,檀那阇耶与帝释天相等,永恒的毗湿奴即是雉尼英雄。俱ンティ之子般度族的阿阇多设特鲁,乐于法,守持羞耻之心,迅捷而强大。

5.22.34

दुर्योधनेन निकृतो मनस्वी ।
नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ।
नाहं तथा ह्यर्जुनाद्वासुदेवा-
द्भीमाद्वाऽहं यमयोर्वा बिभेमि ॥ ५.२२.३४ ॥

若那被难敌所辱的高尚之人,不在愤怒中焚毁持国之子,我便不那么害怕。因为我并不那么惧怕阿周那、婆苏提婆、毗湿摩,或阎摩的两个儿子。

5.22.35

यथा राज्ञः क्रोधदीप्तस्य सूत ।
मन्योरहं भीततरः सदैव ।
महातपा ब्रह्मचर्येण युक्तः ।
सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥ ५.२२.३५ ॥

御者啊,我总是比起那因愤怒而燃烧的国王之怒更加畏惧。愿这位修持大苦行、守持梵行的人的这一心中所定之志得以成就。

5.22.36

तस्य क्रोधं सञ्जयाहं समीक्ष्य ।
स्थाने जानन्भृशमस्म्यद्य भीतः।
स गच्छ शीघ्रं प्रहितो रथेन ।
पाञ्चालराजस्य चमूनिवेशनम् ॥ ५.२२.३६ ॥

桑闍耶,我见他的愤怒,正确地知道,今日我甚为恐惧。你乘车快去,被派往般遮罗王的军营。

5.22.37

अजातशत्रुं कुशलं स्म पृच्छेः ।
पुनः पुनः प्रीतियुक्तं वदेस्त्वम्।
जनार्दनं चापि समेत्य तात ।
महामात्रं वीर्यवतामुदारम् ॥ ५.२२.३७ ॥

务必问候阿阇多设咤的安好,一再以爱意相言。亲爱的,也与生主相会,见那勇士中的高尚大臣。

5.22.38

अनामयं मद्वचनेन पृच्छे-
र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ।
न तस्य किंचिद्वचनं न कुर्यात् ।
कुन्तीपुत्रो वासुदेवस्य सूत ॥ ५.२२.३८ ॥

以我的话问候他们的安好;般度诸子的和平,是持国王所愿。不应照他的话去做,御者啊,关于般度之子与婆苏提婆。

5.22.39

प्रियश्चैषामात्मसमश्च कृष्णो ।
विद्वांश्चैषां कर्मणि नित्ययुक्तः ।
समानीतान्पाण्डवान्सृञ्जयांश्च ।
जनार्दनं युयुधानं विराटम् ॥ ५.२२.३९ ॥

克里希那于他们亲爱,如同自身,有智慧,常常参与他们的事务。他聚集了般度诸子、悉伽耶诸王、生主、尤尤丹那与毗罗吒。

5.22.40

न मूर्च्छयेद्यन्न च युद्धहेतुः ॥ ५.२२.४० ॥

不应激起,亦不成为战争之因的。