Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 5.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.57.1

कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान् ।
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥ ५.५७.१ ॥

サンジャヤよ、そこに集まって、パーンダヴァのために我が息子の軍勢と戦うであろう者たちのうち、誰を見たか。

5.57.2

मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् ।
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥ ५.५७.२ ॥

そこでは、アンダカとヴリシュニの主だった者たち、来ていたクリシュナ、そしてチェキターナとサーティャキ・ユユダーナを見た。

5.57.3

पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ ।
महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥ ५.५७.३ ॥

二つのアクシャウヒニーの軍を率いて、パーンダヴァの庇護に身を寄せた二人の大戦車戦士、自らを男と任じることで名高い者たちである。

5.57.4

अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः ।
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः । ॥ ५.५७.४ ॥

続いてパーンチャーラの王が一つのアクシャウヒニーの軍を率い、十人の息子に囲まれ、サティヤジットを筆頭とする勇士たちを従え、ドリシュタデュムナを先頭に立てて現れた。

5.57.5

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः ।
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥ ५.५७.५ ॥

ドルパダは名誉を高め、シカンディンに守られて現れ、全軍の中で己の身を隠しながら来た。

5.57.6

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ॥ ५.५७.६ ॥

ヴィラータは二人の息子シャンカとウッタラと共に、スーリヤダッタらの勇士を従えて来た。マディラークシャが先頭に立った。

5.57.7

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ॥ ५.५७.७ ॥

大地の守護者は、兄弟と息子たちを伴い、一アクシャウヒニーの軍に囲まれて、パールタ(アルジュナ)のもとに身を寄せた。

5.57.8

जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् ।
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥ ५.५७.८ ॥

マガダのジャラーサンディとチェーディ王ドリシュタケートゥは、それぞれ別々に到着した。二人とも一アクシャウヒニーに囲まれていた。

5.57.9

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥ ५.५७.९ ॥

ケーカヤの五人兄弟は、皆赤い旗を掲げ、アクシャウヒニーに囲まれて、パーンダヴァの庇護を求めた。

5.57.10

एतानेतावतस्तत्र तानपश्यं समागतान् ।
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥ ५.५७.१० ॥

そこには、パーンダヴァのためにドリタラーシュトラの息子の軍と戦うであろう者たちが、これほど多く集まっているのを私は見た。

5.57.11

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः ॥ ५.५७.११ ॥

人間・神・ガンダルヴァ・アスラの陣形を知る大戦車兵ドリシュタデュムナが、そこで軍の先頭にいる。

5.57.12

भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः ।
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ॥ ५.५७.१२ ॥

王よ、シャンタヌの子ビーシュマに当たる任はシカンディンに割り当てられた。ヴィラータは勇猛なマツヤ族とともに彼に従った。

5.57.13

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली ।
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥ ५.५७.१३ ॥

パーンドゥの長男の分け前は、力強いマドラ王である。そこで何人かは、我々の見るところ二人は不釣り合いだと言った。

5.57.14

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च ।
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥ ५.५७.१४ ॥

ドゥルヨーダナは息子たちと百人の兄弟とともに、東方と南方の人々とともに、ビーマセーナの分け前とされた。

5.57.15

अर्जुनस्य तु भागेन कर्णे वैकर्तनो मतः ।
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥ ५.५७.१५ ॥

アルジュナの分け前には、ヴィカルタナの子カルナが数えられ、アシュヴァッターマン、ヴィカルナ、そしてシンドゥ王ジャヤドラタも。

5.57.16

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥ ५.५७.१६ ॥

地上で打ち負かし難く、自ら勇者を自任する者たちは皆、プリター の子アルジュナが分け前によって割り当てた。

5.57.17

महेष्वांसा राजपुत्रा भ्रातरः पञ्च केकयाः ।
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥ ५.५७.१७ ॥

五人の兄弟、偉大な弓の名手であるケーカヤの王子たちは、ケーカヤ族を自分たちの分け前として戦いに臨むだろう。

5.57.18

तेषामेव कृतो भागो मालवाः साल्वकास्तथा ।
त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति ॥ ५.५७.१८ ॥

彼らの分け前には、マーラヴァ族とサールヴァ族も組み込まれた。トリガルタの主だった二人は、サンシャプタカと呼ばれた。

5.57.19

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च ।
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥ ५.५७.१९ ॥

ドゥルヨーダナの全ての息子と、ドゥフシャーサナの息子たち。サウバドラ(アビマニユ)が彼らの分担を定め、国王ブリハドバラの分も同様であった。

5.57.20

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥ ५.५७.२० ॥

ドラウパディーの息子たち、金細工の旗を掲げる大弓の射手たちは、ドリシュタデュムナを先頭にして、バーラタよ、ドローナに向かって進むであろう。

5.57.21

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति ।
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥ ५.५७.२१ ॥

チェーキターナはソーマダッタと一騎打ちを望み、ユユダーナはボージャのクリタヴァルマンと戦うことを望む。

5.57.22

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि ।
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥ ५.५७.२२ ॥

しかしマードリーの息子で、戦場ではサンクランダナのように勇猛なサハデーヴァは、あなたの義兄、スバラの息子(シャクニ)のために自分の分を定めた。

5.57.23

उलूकं चैव कैतव्यं ये च सारस्वता गणाः ।
नकुलः कल्पयामास भागं माद्रवतीसुतः ॥ ५.५७.२३ ॥

ウルーカ、カイタヴャ、そしてサラスヴァタの氏族たち。彼らの分担はマードラヴァティーの息子ナクラが定めた。

5.57.24

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे ।
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥ ५.५७.२४ ॥

また、戦場で彼らに立ち向かってくる他の王たちも、王よ、パーンドゥの息子たちが挑戦によって定めた。

5.57.25

एवमेषामनीकानि प्रविभक्तानि भागशः ।
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥ ५.५७.२५ ॥

こうして彼らの軍勢は部隊ごとに分けられました。息子たちとともにあなたがなすべきことを、直ちになさい。

5.57.26

न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः ।
येषां युद्धं बलवता भीमेन रणमूर्धनि ॥ ५.५७.२६ ॥

私の息子たちは全員は残っていない。彼らは愚かで、賭博の下手な者たちだ。戦場の先頭で、強力なビーマと戦うことになるだろう。

5.57.27

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥ ५.५७.२७ ॥

時の法則に印された地上のすべての王たちは、飛んで火に入る蛾のように、ガーンディーヴァの火へ入るだろう。

5.57.28

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥ ५.५७.२८ ॥

パーンダヴァたちに戦場で散らされたその軍勢は、敵意を抱く偉大な者たちの前から逃げ去ったのだと私は思う。戦いで打ち砕かれたその軍勢を、いったい誰が追うのだろうか。

5.57.29

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।
सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ॥ ५.५७.२९ ॥

彼らはみな大戦車兵であり、英雄であり、名高く威力ある者たちだ。輝きは太陽と火に等しく、戦いの勝者である。

5.57.30

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥ ५.५७.३० ॥

その指導者はユディシュティラ、守護者はマドゥスーダナ(クリシュナ)であり、さらに二人の勇敢な戦士、パーンダヴァ、サヴィヤサーチン(アルジュナ)とヴリコーダラ(ビーマ)がいる。

5.57.31

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः ॥ ५.५७.३१ ॥

ナクラとサハデーヴァ、プリシャタの子ドリシュタデュムナ、サーティヤキ、ドルパダ、そして弟とともにいるドリシュタケトゥ。

5.57.32

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ।
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥ ५.५७.३२ ॥

般遮羅の王子ウッタマウジャス、不敗のユダーマニユ、シカンディン、クシャトラデーヴァ、そしてヴィラータの子ウッタラ。

5.57.33

काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ॥ ५.५७.३३ ॥

カーシ人、チェーディ人、マッツヤ人、すべてのスリンジャヤ人、ヴィラータの子、バブル、パンチャーラ人、プラバドラカ人。

5.57.34

येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् ।
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥ ५.५७.३४ ॥

彼らが望まなければ、インドラでさえこの大地を奪うことはできない。戦いに堅固なその英雄たちは、山さえ打ち砕くことができる。

5.57.35

तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः ।
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥ ५.५७.३५ ॥

サンジャヤよ、私が叫んでいるのに、わが不肖の息子は、あらゆる徳を備え人間を超える勇猛さを持つ彼らと戦おうとしている。

5.57.36

उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥ ५.५७.३६ ॥

双方とも我々の同族であり、ともに大地を歩む死すべき人間である。それなのに、なぜあなたはパーンダヴァにだけ勝利があると一方的に考えるのか。

5.57.37

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् ।
जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥ ५.५७.३७ ॥

祖父ビーシュマ、ドローナ、クリパ、カルナ、不敗のジャヤドラタ、ソーマダッタ、そしてアシュヴァッターマンも。

5.57.38

सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥ ५.५७.३८ ॥

輝かしい大弓手たちは、神々を伴うインドラでさえ戦いで打ち負かすことはできない。まして、父上、パーンダヴァ兄弟をやである。

5.57.39

सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान् ।
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं ॥ ५.५७.३९ ॥

父上、すべての王は私のために、パーンダヴァ兄弟を食い止める力がある。彼らは高貴で武器を手にし、勇敢である。

5.57.40

न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥ ५.५७.४० ॥

パーンダヴァ兄弟は私の者たちに目を向けることさえできない。私は勇猛で、息子たちを伴うパーンダヴァと戦場で戦える。

5.57.41

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥ ५.५७.४१ ॥

バーラタよ、私の喜ぶことをしたいと願う王たちはみな、糸で鹿を留めるように彼らを押しとどめるだろう。

5.57.42

महता रथवंशेन शरजालैश्च मामकैः ।
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥ ५.५७.४२ ॥

大きな戦車の列と私の者たちの矢の網によって、パーンチャーラ族はパーンダヴァ兄弟とともに襲撃されるだろう。

5.57.43

उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय ।
न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम् ॥ ५.५७.४३ ॥

サンジャヤよ、我が息子は狂人のように嘆いている。法王ユディシュティラを打ち負かすことは、ラーマにさえできないのだ。

5.57.44

जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम् ।
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥ ५.५७.४४ ॥

ビーシュマは、名高いパーンダヴァたちが強大であり、息子たちを伴い、法を知る偉大な魂であることをよく知っている。

5.57.45

यतो नारोचयदयं विग्रहं तैर्महात्मभिः ।
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥ ५.५७.४५ ॥

彼はあの偉大な魂の人々との戦いを承認しなかったのだから、サンジャヤよ、彼らの行動をもう一度私に語ってくれ。

5.57.46

कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान् ।
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥ ५.५७.४६ ॥

供物で火を燃え上がらせるように、あの迅速で輝かしい大弓手たちパーンダヴァを、いったい誰が再び燃え立たせているのか。

5.57.47

धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत ।
युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः ॥ ५.५७.४७ ॥

バーラタの子孫よ、ドリシュタデュムナは常にこの者たちを煽り立てている。『戦え、戦を恐れるな』と、バラタの最良の者たちよ。

5.57.48

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः ।
युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले ॥ ५.५७.४८ ॥

ドリタラーシュトラの息子の周りに集まっているあの王たちは、武器にあふれたあの騒然たる戦いで相まみえるであろう。

5.57.49

तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् ।
अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात् ॥ ५.५७.४९ ॥

戦いで怒り、従者とともに集まった彼らすべてに、私ひとりで立ち向かおう。水から魚をすくい上げるように。

5.57.50

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥ ५.५७.५० ॥

ビーシュマ、ドローナ、クリパ、カルナ、ドローナの子、シャリヤ、そしてスヨーダナ——この者たちをも、海を岸が堰き止めるように、私は食い止めよう。

5.57.51

तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः ।
तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह ॥ ५.५७.५१ ॥

そう語る者に、法の人なる王ユディシュティラは言った。汝の忍耐と勇気、そしてパーンチャーラがパーンダヴァたちと共に(ある)。

5.57.52

सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ।
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ॥ ५.५७.५२ ॥

我らは皆すっかり取り囲まれている。戦いから我らを救い上げよ。おお大腕の者よ、汝がクシャトリヤの法に堅く立っていることを私は知っている。

5.57.53

समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे ।
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ॥ ५.५७.५३ ॥

前に進み出て戦いを望むクルの者たちを抑えるのに、汝ひとりで十分であり、それだけの力がある。

5.57.54

भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप ।
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ॥ ५.५७.५४ ॥

敵を焼く者よ、汝がなすべきことこそ我らにとって最善である——戦場から退き、打ち砕かれ、庇護を求める我らにとって。

5.57.55

पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ।
क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम् ॥ ५.५७.५५ ॥

勇武を示して前に立つ勇士は千金で買うべきだ——これが策略に通じた者の考えである。

5.57.56

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।
भयार्तानां परित्राता संयुगेषु न संशयः ॥ ५.५७.५६ ॥

あなたは勇士であり、戦士であり、武勇の人、人中の雄牛です。戦場で恐怖に怯える者を守る方です。疑いはありません。

5.57.57

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे ।
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् ।
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ॥ ५.५७.५७ ॥

正法の人、クンティーの子ユディシュティラがそう言うと、ドリシュタデュムナは恐れのない言葉で私に言った。「御者よ、あらゆる国にいるドゥルヨーダナの戦士たちに告げよ——

5.57.58

सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ।
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ॥ ५.५७.५८ ॥

バーリカ族とともにいるクル族に、プラーティペーヤ族とシャラドヴァットに告げよ。御者の子(カルナ)に、息子とともにいるドローナに、そしてジャヤドラタにも告げよ。

5.57.59

दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ।
भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम् ॥ ५.५७.५९ ॥

ドゥフシャーサナ、ヴィカルナ、王ドゥルヨーダナ、そしてビーシュマにも告げよ。急いで行け、遅れるな。

5.57.60

युधिष्ठिरः साधुनैवाभ्युपेयो ।
मा वोऽवधीदर्जुनो देवगुप्तः।
राज्यं दद्ध्वं धर्मराजस्य तूर्णं ।
याचध्वं वै पाण्डवं लोकवीरम् ॥ ५.५७.६० ॥

ユディシュティラには正しい道によってのみ近づくべきだ。神々に守られたアルジュナが、あなたがたを殺しませんように。法の王に速やかに王国を返せ。世界の英雄であるパーンダヴァに乞い求めよ。

5.57.61

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन ।
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ॥ ५.५७.६१ ॥

大地の上に、真の勇武を備えたパーンドゥの子サヴィヤサーチン(アルジュナ)のような戦士はいない。

5.57.62

देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।
न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि ॥ ५.५७.६२ ॥

ガーンディーヴァ弓の持ち主の神車は神々が整えたもので、人間は乗ることもできない。ゆえに戦いで心を乱してはならない。