摩诃婆罗多 · 章 5.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.70.1
चक्षुष्मतां वै स्पृहयामि सञ्जय ।
द्रक्ष्यन्ति ये वासुदेवं समीपे।
विभ्राजमानं वपुषा परेण ।
प्रकाशयन्तं प्रदिशो दिशश्च ॥ ५.७०.१ ॥
桑耶,我羡慕那些有眼睛的人,因为他们将近前看见瓦苏提婆,他以至高的身体光辉耀目,照亮四方与四隅。
5.70.2
ईरयन्तं भारतीं भारताना-
मभ्यर्चनीयां शङ्करीं सृञ्जयानाम्।
बुभूषद्भिर्गर्हणीयामनिन्द्यां ।
परासूनामग्रहणीयरूपाम् ॥ ५.७०.२ ॥
他宣说婆罗多人的言辞,为婆罗多人所当崇拜,为苏兰遮人带来吉祥;被欲求富足者所责难,却无过失,其形体为死者所不能把握。
5.70.3
समुद्यन्तं सात्वतमेकवीरं ।
प्रणेतारमृषभं यादवानाम्।
निहन्तारं क्षोभणं शात्रवाणां ।
मुञ्चन्तं च द्विषतां वै यशांसि ॥ ५.७०.३ ॥
崛起的萨特瓦塔,唯一的英雄,耶达瓦人的领袖与公牛;杀害敌人、扰乱敌人、夺取仇敌之名声者。
5.70.4
द्रष्टारो हि कुरवस्तं समेता ।
महात्मानं शब्रुहणं वरेण्यम् ।
ब्रुवन्तं वाचमनृशंसरूपां ।
वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥ ५.७०.४ ॥
诸位库鲁人聚集在那里,必将见到他:这位大德,灭敌者,至上之人,以温和之形说话,为韦须尼中的最优者,迷惑我的族人。
5.70.5
ऋषिं सनातनतभं विपश्चितं ।
वाचःसमुद्रं कलशं यतीनाम्।
अरिष्टनेमिं गरुडं सुपर्णं ।
हरिं प्रजानां भुवनस्य धाम ॥ ५.७०.५ ॥
仙人,最古老者,智者,言语之海,苦行者之瓶;阿利什塔奈弥、迦楼罗、美翼者、诃梨,万物与世界的居所。
5.70.6
सहस्रशीर्षं पुरुषं पुराण-
मनादिमध्यान्तमनन्तकीर्तिम्।
शुक्रस्य धातारमजं च नित्यं ।
परं परेषां शरणं प्रपद्ये ॥ ५.७०.६ ॥
我皈依那千头的古老补卢沙,无始无中无终,名声无穷;持守Śukra者,不生而永恒,在诸至上者中至上。
5.70.7
त्रैलोक्यनिर्माणकरं जनित्रं ।
देवासुराणामथ नागरक्षसाम्।
नराधिपानां विदुषां प्रधान-
मिन्द्रानुजं तं शरणं प्रपद्ये ॥ ५.७०.७ ॥
我皈依那创造三界、生育万物者,在天神与阿修罗、龙与罗刹、诸王与智者之中居首,乃因陀罗的幼弟。