Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 5.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.86.1

उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः ।
वृकस्थले निवसति स च प्रातरिहैष्यति ॥ ५.८६.१ ॥

ヴィドゥラよ、ジャナールダナはウパプラヴィヤからここへ来ている。彼はヴリカスタラに滞在しており、朝にはここへ来るであろう。

5.86.2

आहुकानामधिपतिः पुरोगः सर्वसात्वताम् ।
महामना महावीर्यो महासत्वो जनार्दनः ॥ ५.८६.२ ॥

ジャナールダナはアーフカ族の主であり、すべてのサートヴァタの筆頭である。大いなる心、大いなる勇力、大いなる精神を持つ。

5.86.3

स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥ ५.८६.३ ॥

マーダヴァは繁栄するヴリシュニ国の支え手であり守り手である。三界の尊き主、曽祖父である。

5.86.4

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते ।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥ ५.८६.४ ॥

ヴリシュニとアンダカは好意をもって彼の智慧に仕える。あたかもアーディティヤ、ヴァス、ルドラがブリハスパティの智恵に仕えるように。

5.86.5

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु ॥ ५.८६.५ ॥

その偉大なる心の持ち主ダーシャールハに、私は敬意を捧げよう。ダルマを知る者よ、私の言うことを聞け。お前はそれを自分の目で見るだろう。

5.86.6

एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः ।
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥ ५.८६.६ ॥

私は彼に、バーリカ国に生まれた、同じ毛色で四肢の整った優れた馬四頭に引かれる黄金の戦車を十六両与えよう。

5.86.7

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः ।
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ॥ ५.८६.७ ॥

常に発情し、槍のような牙を持ち、戦う象。それぞれに八人の従者を付けて、そのような八組を私は与えよう、クル族の者よ。

5.86.8

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावताम् ॥ ५.८६.८ ॥

金色の輝きを持つ、未婚で美しい侍女を百人、彼に与えよう。同じ数の男の召使いも。

5.86.9

आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च ॥ ५.८६.९ ॥

山の民が持ち寄った、触れて心地よい毛織物。それも彼に与えよう、一万八千。

5.86.10

अजिनानां सहस्राणि चीनदेशोद्भवानि च ।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥ ५.८६.१० ॥

中国の地で作られた数千の獣皮。それも彼に与えよう、ケーシャヴァに相応しいだけ。

5.86.11

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ॥ ५.८६.११ ॥

昼も夜も輝く、極めて眩い清らかな宝玉。それも彼に与えよう。まことにケーシャヴァにこそふさわしい。

5.86.12

एकेनाभिपतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥ ५.८६.१२ ॥

ラバに繋がれ、一日で十四ヨージャナを行く乗り物。それも彼に与えよう。

5.86.13

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥ ५.८६.१३ ॥

彼にどれほど多くの乗り物と従者があろうとも、その八倍の食物を私は常に彼に与えよう。

5.86.14

मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते ।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ॥ ५.८६.१४ ॥

ドゥルヨーダナを除く私の息子や孫たちは皆、磨かれ見事に飾られた戦車に乗ってダーシャールハ(クリシュナ)を出迎えるだろう。

5.86.15

स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः ।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥ ५.८६.१५ ॥

見事に装った何千人もの美しい女性、主だった遊女たちが、徒歩で大いなる幸運のケーシャヴァ(クリシュナ)を出迎えるだろう。

5.86.16

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥ ५.८६.१६ ॥

町からも、ジャナールダナを見に行くいくらかの美しい乙女たちは、ベールもつけずに出かけるだろう。

5.86.17

सस्त्रीपुरुषबालं च नगरं मधुसूदनम् ।
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ॥ ५.८६.१७ ॥

女性、男性、子供を含む町全体が、人々が輝く太陽を仰ぐように、偉大なマドゥスーダナを仰ぎ見よ。

5.86.18

महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः ।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥ ५.८६.१८ ॥

四方に大きな旗や幟を立て、彼の道を水で打ち水して塵のないものにせよ、と命じた。

5.86.19

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ॥ ५.८६.१९ ॥

ドゥッシャーサナの館はドゥルヨーダナの館より立派である。今日のうちに速やかに念入りに清め、飾りつけよ。

5.86.20

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥ ५.८६.२० ॥

これは美しい形の宮殿で飾られ、吉祥で麗しく、あらゆる季節に非常に豊かである。

5.86.21

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च ।
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ॥ ५.८६.२१ ॥

この家のすべての宝は私とドゥルヨーダナのものである。ヴァールシュネーヤ(クリシュナ)にふさわしいものは、すべて疑いなく与えられるべきだ。