Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 5.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.94.1

तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा ।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ॥ ५.९४.१ ॥

賢い二人がこのように語り合っているうちに、星々に満ちた吉祥の夜は過ぎていった。

5.94.2

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः ।
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥ ५.९४.२ ॥

彼は、法・利・欲に満ち、意味豊かな言葉と音節からなる、偉大な魂ヴィドゥラの様々な言葉を聞いていた。

5.94.3

कथाभिरनुरूपाभी रक्तस्यामिततेजसः ।
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ॥ ५.९४.३ ॥

限りない光輝を持ち、無欲なるクリシュナと、ふさわしい物語を語り合ううちに、その夜は過ぎていった。

5.94.4

ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।
शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन् ॥ ५.९४.४ ॥

そのとき、美声の多くのスータとマーガダたちが、法螺貝と太鼓の響きでケーシャヴァを目覚めさせた。

5.94.5

तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् ।
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः ॥ ५.९४.५ ॥

そのとき、ダーシャールハの雄牛、すべてのサートヴァタの第一人者ジャナールダナは起き上がり、朝に必要なすべての務めを果たした。

5.94.6

कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः ।
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ॥ ५.९४.६ ॥

水の供養を行い、ジャパを唱え、火に供物を捧げ、身を飾ったのち、マーダヴァは昇る太陽を礼拝した。

5.94.7

अथ दुर्योधनः कृष्मं शकुनिश्चापि सौबलः ।
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥ ५.९४.७ ॥

そこでドゥリヨーダナとスバラの子シャクニも、夕暮れに立つ無敵のダーシャールハ、クリシュナのもとへ近づいた。

5.94.8

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् ।
कुरूश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥ ५.९४.८ ॥

二人はクリシュナに、集会に来たドリタラーシュトラと、ビーシュマを筆頭とするクル族、そして地上のすべての王たちについて語った。

5.94.9

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥ ५.९४.९ ॥

「ゴーヴィンダよ、天で神々がインドラに願うように、彼らはあなたに願っている」。ゴーヴィンダは、この上なく穏やかな言葉で二人を迎えた。

5.94.10

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ।
ददौ हिरण्यं वासांसि गाश्चाश्चांश्च परन्तपः ॥ ५.९४.१० ॥

それから澄んだ日の出に、ジャナールダナはバラモンたちに金、衣服、牛、馬を与えた。敵を焼く者よ。

5.94.11

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् ।
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥ ५.९४.११ ॥

宝石を施して立っている無敵のダーシャールハのもとへ近づき、御者はそのとき彼に礼をした。

5.94.12

तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः ।
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥ ५.९४.१२ ॥

彼のために繋がれた優れた戦車は世界に名高く、シャイブヤ、スグリーヴァ、メーガプシュパ、バラーハカという馬たちで輝いた。

5.94.13

शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः ।
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः ॥ ५.९४.१३ ॥

シャイビヤは鸚鵡の羽のよう、スグリーヴァは金鈴花の輝き。メーガプシュパは雲色、淡白のバラーハカは白い。

5.94.14

दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत् ।
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ ॥ ५.९४.१४ ॥

シャイビヤは右を、スグリーヴァは左を引いた。車の後ろの二頭はメーガプシュパとバラーハカであった。

5.94.15

विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता ।
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत ॥ ५.९४.१५ ॥

ヴィシュヴァカルマンの作で宝玉の網に飾られた頂飾りがその車に据えられ、旗竿が輝いた。

5.94.16

वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन् ।
तस्य सत्ववतः केतौ भुजगारिरशोभत ॥ ५.९४.१६ ॥

ヴィナターの子ガルダがその上に座し、太陽に触れるかのようであった。その力ある者の旗には蛇の敵が輝いた。

5.94.17

तस्य कीर्तिमतस्तेन भास्वरेण विराजता ।
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना ॥ ५.९४.१७ ॥

その名高き者の最上の車は、輝くその鳥の王(ガルダ)の旗によって輝いた。

5.94.18

रश्मिजालैः पताकाभिः सौवर्णेन च केतुना ।
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः ॥ ५.९४.१८ ॥

光の網、旗、黄金の旗印によって、その最上の車は昇った時の太陽のようになった。

5.94.19

पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः ।
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा ॥ ५.९४.१९ ॥

鳥の旗の天蓋と、金網で飾られた中庭と、棒の道の区分があり、いずれもヴィシュヴァカルマンが見事に造ったものである。

5.94.20

प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः ।
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः ॥ ५.९४.२० ॥

珊瑚と宝石に輝き、真珠と猫目石に映え、何百もの小鈴の房があり、内部はヤクの尾の網で作られている。

5.94.21

कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः ।
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः ॥ ५.९४.२१ ॥

その最上の戦車は、金でできた蓮池と精錬された金の木々で飾られ、輝いていた。

5.94.22

व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः ।
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः ॥ ५.९४.२२ ॥

虎と獅子と猪があり、牛と鹿と鳥があり、星々と太陽もあり、黄金の象もある。

5.94.23

वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु ।
समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः ॥ ५.९४.२३ ॥

雷霆と象鉤の印のある車体、轅のまわりに巻かれた継ぎ目、高く突き出た大きな轂、雷鳴のような大音響がある。

5.94.24

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ॥ ५.९४.२४ ॥

そこでダーラカは、鈴の音を響かせる白く大きな戦車を、最上の馬に繋いで素早く近くに寄せた。

5.94.25

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥ ५.९४.२५ ॥

大いなる心の持ち主は、そばに立つ神聖な戦車に気づいた。その轟きは大雲の雷鳴のようで、あらゆる宝玉で飾られていた。

5.94.26

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः ।
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन् ॥ ५.९४.२६ ॥

ジャナールダナは聖火を右回りに巡り、バラモンたちをも敬った。そしてカウストゥバ宝珠を身に着け、至上の輝きに燃え立った。

5.94.27

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ ५.९४.२७ ॥

クル族に囲まれ、ヴリシュニ族に守られたクリシュナ——シューラの末裔、すべてのヤーダヴァの喜び——は戦車に登った。

5.94.28

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् ।
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ॥ ५.९४.२८ ॥

一切のダルマに通じたヴィドゥラは、ダーシャールハ(クリシュナ)の後に乗った。彼は一切の生きものの中で最も優れ、一切の賢者の中で最上であった。

5.94.29

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ॥ ५.९४.२९ ॥

そこでドゥルヨーダナとスバラの子シャクニも、第二の戦車で敵を焼く者クリシュナの後を追った。

5.94.30

सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः ।
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि ॥ ५.९४.३० ॥

サーティヤキとクリタヴァルマン、そしてヴリシュニ族の他の戦車も、象、馬、戦車とともに後方からクリシュナに従った。

5.94.31

तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः ।
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे ॥ ५.९४.३१ ॥

金の飾りをつけ、優れた馬に繋がれた、轟く美しい戦車が、王よ、進んでいくとき輝いた。

5.94.32

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥ ५.९४.३२ ॥

塵を掃き水を打たれ、王仙たちが歩んだその大道に、賢者クリシュナは時を得て、光輝に燃えて進み入った。

5.94.33

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः ।
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥ ५.९४.३३ ॥

そしてダシャールハが出発すると、そこで一面太鼓が打たれ、法螺貝が吹き鳴らされ、そこにあった他の楽器も鳴らされた。

5.94.34

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः ।
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ॥ ५.९४.३४ ॥

全世界の勇士、獅子の勇猛さを持つ若者たち、敵を苦しめる者たちが、シューラの子の戦車を取り囲んで進んだ。

5.94.35

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥ ५.९४.३५ ॥

さらに、奇妙で見事な衣をまとい、剣・槍その他の武器を執った幾千もの者たちが、クリシュナの前に進んだ。

5.94.36

गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः ।
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥ ५.९४.३६ ॥

そこには五百頭の象と幾千もの戦車があり、出発する不敗の英雄ダシャールハに従った。

5.94.37

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ॥ ५.९४.३७ ॥

クル族の都は、ジャナールダナを見たいという思いに満ち、子供も老人も女たちも通りに出てきていた、敵を征服する者よ。

5.94.38

वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः ।
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥ ५.९४.३८ ॥

壇に登った女たちで各所が溢れた多くの家々は、重みに揺れているかのようであった。

5.94.39

स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः ।
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥ ५.९४.३९ ॥

クル族に敬われ、甘い言葉を聞き、相応しく敬意を返し、あたりを眺めながら、彼はゆっくりと進んだ。

5.94.40

ततः सभां समासाद्य केशवस्यानुयायिनः ।
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥ ५.९४.४० ॥

やがて集会所に着くと、ケーシャヴァの従者たちは法螺貝と笛の音で全方位を鳴り響かせた。

5.94.41

ततः सा समितिः सर्वा राज्ञाममिततेजसाम् ।
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥ ५.९४.४१ ॥

そのとき、無限の威光をもつ王たちの集会全体が、クリシュナの到来を待ち望み、喜びに震えた。

5.94.42

ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः ।
श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥ ५.९४.४२ ॥

クリシュナが近づくと、雨雲の雷鳴のようなその戦車の轟きを聞いて、王たちは大いに喜んだ。

5.94.43

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥ ५.९४.४३ ॥

会議場の門に着くと、すべてのサートヴァタの雄牛シャウリは、カイラーサの峰のような戦車から降りた。

5.94.44

नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ ५.९४.४४ ॥

そして彼は、新しい雲のようで、輝きに燃え立ち、偉大なインドラの館に似たその会議場に入った。

5.94.45

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः ।
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया ॥ ५.९४.४५ ॥

王よ、大いなる名声のクリシュナは、ヴィドゥラとサーティャキの手を取り、太陽のような輝きで、その威光をもってクルたちを覆い尽くした。

5.94.46

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।
कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः ॥ ५.९४.४६ ॥

ヴァーサデーヴァの前にはカルナとドゥルヨーダナの両者がおり、クリタヴァルマンもクリシュナの後ろにいた。

5.94.47

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ ५.९४.४७ ॥

ドリタラーシュトラを先頭に立てて、ビーシュマ、ドローナらは皆席から立ち上がり、ジャナールダナを敬った。

5.94.48

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर ।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ ५.९४.४८ ॥

ダーシャールハが近づくと、王よ、智慧の眼を持つ者(ドリタラーシュトラ)は、偉大な名声のドローナとビーシュマと共に立ち上がった。

5.94.49

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ ५.९४.४९ ॥

人の主なる偉大な王ドリタラーシュトラが立ち上がると、数千の王たちが四方から一斉に立ち上がった。

5.94.50

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥ ५.९४.५० ॥

そこで、ドリタラーシュトラの命により、クリシュナのために、ジャンブーナダ金で飾られたサルヴァトーバドラの座が用意された。

5.94.51

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ ५.९४.५१ ॥

義にかなった心のマーダヴァは微笑みながら、王に、ビーシュマとドローナに、そして他の王たちに、年齢に応じて語りかけた。

5.94.52

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् ।
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥ ५.९४.५२ ॥

そこで、集会に正しく到着したケーシャヴァ(クリシュナ)を、地上のすべての王と クル族が敬って迎えた。

5.94.53

तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः ।
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः। ॥ ५.९४.५३ ॥

そこで、諸王の中に立つダーシャールハ(クリシュナ)は、敵を焼く者、敵の都を征服する者として、空中に立つ聖仙たちを見た。

5.94.54

ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः । ॥ ५.९४.५४ ॥

そこで、ナーラダを筆頭とする聖仙たちを見て、ダーシャールハはシャンタヌの子ビーシュマに静かに語りかけた。

5.94.55

पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा । ॥ ५.९४.५५ ॥

王よ、王の集会を見るために聖仙たちが来られました。座席を用意し、丁重にもてなして招き入れなさい。

5.94.56

नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् । ॥ ५.९४.५६ ॥

この方々が座られないうちは、誰も座ることはできない。清らかな心の聖仙たちに速やかに供養を捧げなさい。

5.94.57

ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् ।
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् । ॥ ५.९४.५७ ॥

集会所の入口に立つ聖仙たちを見て、シャーンタヌの子は急いで従者たちに「座席を持って来い」と命じた。

5.94.58

आसनान्यथ मृष्टानि महान्ति विपुलानि च ।
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः । ॥ ५.९४.५८ ॥

そして、磨かれた大きく広い、宝石と金で彩られた座席が、あちこちから集められて運ばれてきた。

5.94.59

तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ।
निषसादासने कृष्णो राजानश्च यथासनम् । ॥ ५.९४.५९ ॥

バラタの子孫よ、彼らがそこに座り、アルギャを受けると、クリシュナも座につき、王たちもそれぞれの座に着いた。

5.94.60

दुःशासनः सात्यकये ददावासनमुत्तमम् ।
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे । ॥ ५.९४.६० ॥

ドゥフシャーサナはサーティヤキに上等の座席を与え、ヴィヴィンシャティはクリタヴァルマンに金の腰掛けを与えた。

5.94.61

अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ।
एकासने महात्मानौ निषीदतुरमर्षणौ । ॥ ५.९४.६१ ॥

クリシュナのすぐ近くで、カルナとドゥルヨーダナという、ともに度量が大きく我慢しない二人が、同じ座に座った。

5.94.62

गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।
निषसादासने राजा सहपुत्रो विशांपते । ॥ ५.९४.६२ ॥

ガーンダーラ王シャクニは、ガーンダーラ人に守られ、息子とともに座に座った。人の主よ。

5.94.63

विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्। ॥ ५.९४.६३ ॥

賢明なヴィドゥラは、白く柔らかい鹿皮を敷いた宝石の座に、シャウリ(クリシュナ)の座に触れながら座った。

5.94.64

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ।
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्। ॥ ५.९४.६४ ॥

長い間ぶりにダーシャールハ(クリシュナ)を見て、王たちは皆、甘露のようなジャナールダナを見つめても満足しなかった。

5.94.65

अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ।
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥ ५.९४.६५ ॥

亜麻の花のような色で黄色い衣をまとったジャナールダナは、集会の真ん中で金に嵌め込まれた宝石のように輝いた。

5.94.66

ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।
न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित् ॥ ५.९४.६६ ॥

すると一同は静まり返り、心はすべてゴーヴィンダに向けられた。そこで誰一人として、何も口にしなかった。