摩诃婆罗多 · 章 6.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.24.1
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय ।
उदग्रमनसः के वा के वा दीना विचेतसः ॥ ६.२४.१ ॥
桑闍耶啊,那前方有哪些战士欢欣地作战?哪些人意志高昂,哪些人悲苦而心神迷乱?
6.24.2
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।
मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ॥ ६.२४.२ ॥
桑闍耶啊,在那令人心惊胆颤的战斗中,最先出手的是谁?是我方之人,还是般度之子?请告诉我。
6.24.3
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः ।
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ॥ ६.२४.३ ॥
在谁的大军之中,有从花环散发出的香气?向着咆哮的战士,吹来一阵向右的吉祥之风,那是谁的军队?
6.24.4
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा ।
स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ॥ ६.२४.४ ॥
那时,两军的战士在那里欢欣,芳香的花环在两边同样地出现。
6.24.5
संहतानामनीकानां व्यूढानां भरतर्षभ ।
संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ॥ ६.२४.५ ॥
婆罗多族的雄牛啊,从集结并布成阵列的大军相互冲撞之中,产生了极大的冲击与混乱。
6.24.6
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः ।
शूराणां रणशूराणां गर्जतामितरेतरम् ॥ ६.२४.६ ॥
螺号与鼓混杂的乐器声轰然大作,战场上的勇士们彼此高声咆哮。
6.24.7
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत् ।
अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ।
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ ६.२४.७ ॥
大王啊,两军之间发生了巨大的混乱。婆罗多族的雄牛啊,这混乱蔓延于相互注视的战士之中,吼叫的象群之中,以及欢欣鼓舞的军队之中。