Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.61.1

द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः ।
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥ ६.६१.१ ॥

德罗纳之子、婆利舍罗婆、沙利耶、支那赛那、摩利沙,以及三摩耶摩尼之子,包围了娑菩陀罗(阿毗曼尤)。

6.61.2

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ ६.६१.२ ॥

众人看见他孤身一人,被五位极其勇猛的人中猛虎围困,好像群象围住一只狮子幼崽。

6.61.3

नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ ६.६१.३ ॥

论名望、勇武、威力、兵器或敏捷,无人能与迦尔希尼(阿周那之子)相比。

6.61.4

तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् ।
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ॥ ६.६१.४ ॥

见儿子在战场上奋勇前进,降伏敌人,已完全准备就绪,般度之子(阿周那)便发出狮子般的吼声。

6.61.5

पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते ।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ ६.६१.५ ॥

王中之王啊,人主啊!见你的孙子正在困扰那支军队,你的部下便从四面将他包围。

6.61.6

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ ६.६१.६ ॥

娑菩陀罗无所畏惧,以其威光与力量迎向持国之子们的军队,那些敌人已变得萎靡。

6.61.7

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
व्यदृश्यत महच्चापं समरे युध्यतः परैः । ॥ ६.६१.७ ॥

他在战场上与敌人交战时,那张如太阳般光辉、处于迅捷之路上的大弓显现出来。

6.61.8

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ॥ ६.६१.८ ॥

他一箭射中德罗尼之子,五箭射中沙利耶,然后以八箭斩断了桑雅玛尼的旗帜。

6.61.9

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन ।
शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ॥ ६.६१.९ ॥

那柄金柄大枪,由索摩达塔之子投出,形如毒蛇,他以锐利的羽箭将其击落。

6.61.10

शल्यस्य च महावेगानस्यतः समरे शरान् ।
धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः
जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ॥ ६.६१.१० ॥

他以宽刃箭斩断了沙利耶在战场上射出的迅疾箭矢所用之弓;阿周那的继承者以猛烈的速度,用四支箭射倒了四匹马。

6.61.11

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ॥ ६.६१.११ ॥

布利什拉瓦、沙利耶、德罗尼之子、桑雅玛尼与沙罗虽然怒火中烧,却因黑天之子双臂力量的升起而无法向前迎战。

6.61.12

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ ६.६१.१२ ॥

那时,诸王之主啊,在你的儿子驱使下,二万五千名战士——三伽多人与摩德罗人,连同迦伽耶人——向前推进。

6.61.13

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि ।
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ ६.६१.१३ ॥

精通弓箭之道的主要勇士,在战斗中敌人无法战胜,他们包围了与其子一同想要杀死戴冠者(阿周那)的人。

6.61.14

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ ।
ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ॥ ६.६१.१४ ॥

但是,王啊,降伏敌人者啊,般遮罗的统帅看见那里被包围的父子两位大车战士。

6.61.15

स वारणरथोघानां सहस्रैर्बहुभिर्वृतः ।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ ६.६१.१५ ॥

他被成千上万的象群和战车群所包围,又被数十万的马匹和步兵所围绕。

6.61.16

पारावताश्वः स रथमास्थाय परवीरहा ।
धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् ।
ययौ तं मद्रकानीकं केकयांश्च परंतप ॥ ६.६१.१६ ॥

那驾着鸽灰色马的屠杀敌方英雄者,登上战车,愤怒地拉弓,催动大军,啊,焚烧敌人者啊,向那支摩陀罗军队和迦迦耶人进发。

6.61.17

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।
संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥ ६.६१.१७ ॥

那支由这位名声显赫、弓法坚定的勇士所守护的军队,车、象、马皆被激怒,严阵以待,光彩夺目。

6.61.18

सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः ।
त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ॥ ६.६१.१८ ॥

那增益般遮罗家族者,走在阿周那前面,用三支箭射中了沙罗陀瓦特之子(克里帕)的锁骨处。

6.61.19

ततः स मद्रकान्हत्वा दशैव दशभिः शरैः ।
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥ ६.६१.१९ ॥

随后他以每人十箭射杀十名摩陀罗人,又迅速以一支薄刃箭射中了克里达跋尔曼的后卫。

6.61.20

दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विमलाग्नेण नाराचेन परंतपः ॥ ६.६१.२० ॥

这位焚烧敌人者也以一支锋刃洁净的那罗迦箭射杀了伟大的波罗婆之侄达摩那。

6.61.21

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ ६.६१.२१ ॥

于是赛亚曼尼之子以三十支箭射穿了好战自负的潘遮罗,又以十支箭射穿了他的御者。

6.61.22

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ ६.६१.२२ ॥

这位大弓箭手身受重伤,舔着嘴角,以极锋利的薄刃箭斩断了他的弓。

6.61.23

अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ ६.६१.२३ ॥

随后他迅速以二十五支箭射穿了他,又,国王啊,杀死了他的马匹和两名后方御者。

6.61.24

स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ ६.६१.२४ ॥

婆罗多族的雄牛啊,马匹已被杀死,赛亚曼尼之子站在战车上,看见了伟大的般遮罗之子。

6.61.25

स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ॥ ६.६१.२५ ॥

这位人中雄牛手持一把极其可怕的上等铁剑,徒步迅速冲向战车。

6.61.26

तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ ६.६१.२६ ॥

他如大水般奔来,如从洞穴中坠落的蛇,手持旋转的盾与剑,如时间所放出的死神安塔卡。

6.61.27

दीप्यमानमिवादित्यं मत्तवारणविक्रमम् ।
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ ६.६१.२७ ॥

他光芒耀目如太阳,有如发狂大象的勇力,般度诸子与普利沙塔之子德里什塔仲在那里看见了他。

6.61.28

तस्य पाञ्चालदायादः प्रतीपमभिधावतः ।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ ६.६१.२८ ॥

当他冲向前来、手持利剑、持盾而来时,那位般遮罗的亲族迎上前去与他对敌。

6.61.29

बाणवेगमतीतस्य तथाभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ ६.६१.२९ ॥

他已超过箭的速度,如此逼近,那位愤怒的统帅急忙用铁锤将他的头颅击碎。

6.61.30

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ ६.६१.३० ॥

君王啊,他的剑与闪亮的盾,从被杀者的手中滑落,猛然坠落在地上。

6.61.31

तं निहत्य गदाग्रेण स लेभे परमां मुदम् ।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ ६.६१.३१ ॥

他用锤棒的尖端击杀了对方,获得了至高的喜悦。他是般遮罗王的伟大之子,勇猛可怕。

6.61.32

तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ ६.६१.३२ ॥

当那位伟大的弓箭手、大车战士、沙利耶之子被杀时,你的军中响起了巨大的哀号,尊者啊。

6.61.33

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ ६.६१.३३ ॥

于是,三摩尼之子见爱子被杀,愤怒地迅速冲向那嗜战狂怒的般遮罗王子。

6.61.34

तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ ६.६१.३४ ॥

在那场战斗中,这两位嗜战的英雄面对面相遇;所有国王、俱卢族和般度族都注视着他们。

6.61.35

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।
आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ ६.६१.३५ ॥

于是愤怒的三摩尼之子,这位击杀敌方英雄的人,以三箭射中了波利舍塔之子,犹如用刺棒刺打一头大象。

6.61.36

तथैव पार्षतं शूरं शल्यः समितिशोभनः ।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ६.६१.३६ ॥

同样,在战斗中光彩照人的沙利耶愤怒地击中了勇敢的波利舍塔之子的胸膛,于是战斗展开了。