Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.75.1

विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ ६.७५.१ ॥

大王啊,休息之后,夜晚过去,俱卢族与般度族一起再次出发去作战。

6.75.2

ततः शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ ६.७५.२ ॥

于是,婆罗多啊,你的人与他们之间响起巨大的喧嚣:“套上主要的战车,备好象群!”

6.75.3

संनह्यतां पदातीनां हयानां चैव भारत ।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ ६.७५.३ ॥

婆罗多啊,让步兵和战马披甲备战!螺号与战鼓的喧嚣从四面八方响起。

6.75.4

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।
व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ॥ ६.७५.४ ॥

于是国王坚战对猛光说:“般遮罗啊,布成摧毁敌人的摩伽罗阵!”

6.75.5

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।
व्यादिदेश यथान्यायं रथिनो रथिनां वरः ॥ ६.७५.५ ॥

被阿周那如此吩咐之后,大车将猛光,车战之中的最优者,依法安排了车兵。

6.75.6

शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः ।
चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ ६.७५.६ ॥

这阵的头是德鲁帕达,般度之子持财(阿周那)是其一部分;萨诃提婆与大车将那库拉是它的两只眼睛。

6.75.7

तुण्डमासीन्महाराज भीमसेनो महाबलः ।
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ ६.७५.७ ॥

大王啊,大力的婆摩森那(Bhīmasena)位于那阵形的尖端,还有苏跋陀罗之子、德罗波蒂的诸子,以及罗刹迦托特迦恰(Ghaṭotkaca)。

6.75.8

सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ।
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥ ६.७५.८ ॥

萨提亚基与法王坚定地守在阵形的颈部;大王啊,军队统帅毗罗吒则在阵的后方。

6.75.9

ृष्टद्युम्नो महाराज महत्या सेनया वृतः ।
केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ॥ ६.७५.९ ॥

大王啊,德里什塔尤姆那被庞大的军队包围;甘迦耶的五位兄弟则守在左翼。

6.75.10

धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥ ६.७५.१० ॥

德里什塔克图、人中之虎切基丹那以及勇猛者占据右翼,守卫着阵形。

6.75.11

पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ ६.७५.११ ॥

大王啊,光荣的大战车武士贡提跋若阇与舍塔尼迦,被庞大的军队围绕,站在阵形的足部。

6.75.12

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ ६.७५.१२ ॥

大弓手湿婆坎迪(Śikhaṇḍī)被苏摩迦人包围,力量强大,随后伊罗梵(Irāvān)——这二人位于摩伽罗阵形的尾部。

6.75.13

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ॥ ६.७५.१३ ॥

婆罗多啊,般度之子如此布置了那大阵。大王,日出时,他们再次整装待战。

6.75.14

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥ ६.७५.१४ ॥

他们与象军、马军、车兵和步兵一同迅速向俱卢人进攻,高举旗帜与华盖,手持明亮锋利的兵器。

6.75.15

व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ ६.७५.१५ ॥

大王,见彼军列阵,你的父亲提婆跋多(毗湿摩)便以大鹤阵与之对峙。

6.75.16

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।
अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ॥ ६.७५.१६ ॥

鸟喙处闪耀着大弓手、婆罗堕遮之子(德罗纳);人主啊,它的双眼是阿湿缚他摩与克里帕。

6.75.17

कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ६.७५.१७ ॥

克里达瓦尔曼与憍萨罗(即剑浮)人和巴利迦人同在头部,是人中之最,也是所有弓手中的第一。

6.75.18

ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ ६.७५.१८ ॥

颈部有戍罗森人,以及你的儿子难敌,尊者啊,大王,被众多国王所环绕。

6.75.19

प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ ६.७५.१९ ॥

人中之雄啊,普拉格约提沙的国王与摩德罗、索维罗和克伽耶人一起,被庞大的军队包围,站在阵型的中央。

6.75.20

पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः ।
स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ ६.७५.२० ॥

后方站着两位大弓箭手阿万提人,与他们的步兵和随从在一起;普拉斯塔拉之主舍舍尔曼与自己的军队,披甲,占据左翼,坚定地站立。

6.75.21

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ॥ ६.७५.२१ ॥

图沙罗人、耶婆那人和塞迦人与珠珠普人一起,守住右翼而立;婆罗多啊,这就是阵形。

6.75.22

श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ ६.७५.२२ ॥

啊,尊主!守护者舍鲁塔尤、舍塔尤和苏摩达多之子在阵后站立,彼此守护。

6.75.23

ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।
सूर्योदये महाराज प्रावर्तत जनक्षयः ॥ ६.७५.२३ ॥

于是般度之子与俱卢人为战而相会;大王啊,日出之时,人的杀戮开始了。

6.75.24

प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः ।
हयारोहान्रथारोहा रथिनश्चापि सादिनः ॥ ६.७५.२४ ॥

战车武士向象群进发,战车武士前进;骑马者、乘车者、战车武士,还有骑兵。

6.75.25

सादिनश्च हयान्राजन्रथिनश्च महारणे ।
हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ॥ ६.७५.२५ ॥

大王啊,在大战中,骑兵与马匹一同,车兵与战车一同,象兵与象一同,骑马者与马一同,车兵和骑兵也同样前进。

6.75.26

रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ ६.७५.२६ ॥

车兵与步兵一同,骑兵也与步兵一同,大王啊,他们怒不可遏地在战斗中相互冲杀。

6.75.27

भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ ६.७५.२७ ॥

般度之军在怖军、阿周那、双子以及其他大车战士的护卫下,光彩耀人,犹如缀满星辰的夜晚。

6.75.28

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ॥ ६.७५.२८ ॥

同样,您的大军被毗湿摩、克利巴、德罗纳、沙利耶、难敌等围绕,光彩耀人,犹如被行星环绕的天空。

6.75.29

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ ६.७५.२९ ॥

然而勇猛的贡蒂之子怖军见到德罗纳,便驱策疾驰的马匹,冲向婆罗堕阇之军。

6.75.30

द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ॥ ६.७५.३० ॥

然而德罗纳在战斗中愤怒,以善战自豪而威力强大,瞄准要害,用九支铁箭射穿了怖军。

6.75.31

दृढाहतस्तो भीमो भारद्वाजस्य संयुगे ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ६.७५.३१ ॥

在战斗中,Bhīma被Bhāradvāja(Droṇa)猛烈击中,便把他的御者送往阎摩的居所。

6.75.32

स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ ६.७५.३२ ॥

那位威猛的Bhāradvāja(Droṇa)握住缰绳与马匹,冲散了般度子的军队,如同烈火焚烧一堆棉絮。

6.75.33

ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः ।
सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ॥ ६.७५.३३ ॥

被Droṇa与Bhīṣma杀戮的那些人中之杰的Sṛñjaya,以及被Bhīma和Arjuna所伤的你的军队。

6.75.34

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।
मुह्यते तत्रतत्रैव समदेव वराङ्गना ॥ ६.७५.३४ ॥

同样,被Bhīma和Arjuna所伤的你的军队也在四处慌乱迷乱,如同美好的女子陷入迷惘。

6.75.35

अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ ६.७५.३५ ॥

那时,在这些最优秀英雄的毁灭中,两个阵形都被冲破;哦,婆罗多,你的人与他们的人之间发生了可怕的混战。

6.75.36

तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥ ६.७५.३६ ॥

我们看到了那奇异的景象:你的人与敌人一起,都走向同一条道路并战斗,哦,婆罗多。

6.75.37

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥ ६.७५.३७ ॥

人主啊!他们互相抵挡对方的兵器,般度之子与俱卢之子,这些大力的勇士,展开了战斗。