Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.78

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.78.1

ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः ।
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ ६.७८.१ ॥

于是国王难敌迅速恢复神志,再次以箭雨阻挡了不可动摇的毗湿摩之弟……不,是阿周那之兄怖军。

6.78.2

एकीभूतास्ततश्चैव तव पुत्रा महारथाः ।
समेत्य समरे भीमं योधयामासुरुद्यताः ॥ ६.७८.२ ॥

于是你的诸子,大车战士,合为一体,在战场上迎战怖军,欲与之交战。

6.78.3

भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।
समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ ६.७८.३ ॥

大臂的怖军在战斗中再次回到自己的战车,登上战车,便朝你儿子所在之处驶去。

6.78.4

प्रगृह्य च महावेगं परासुकरणं दृढम् ।
सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ॥ ६.७८.४ ॥

他拿起迅猛、致命而坚固的弓,上好弦,在战斗中用箭射穿了你的儿子。

6.78.5

ततो दुर्योधनो राजा भीमसेनं महाबलम् ।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ ६.७८.५ ॥

于是国王难敌用极锐利的那拉差箭,猛烈地射中大力的怖军之要害。

6.78.6

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥ ६.७८.६ ॥

那位被你儿子这位神射手重创的大弓手,双眼因愤怒而通红,迅速拉开他的弓……

6.78.7

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥ ६.७८.७ ॥

他以三支箭射中难敌的臂膀和胸膛;那位国王在那里如山中之王的峰顶般闪耀。

6.78.8

तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ ६.७८.८ ॥

他们看见那两人在战场上愤怒地相互攻击,难敌的所有弟弟,这些已舍弃生命的英雄,[便冲上前去]。

6.78.9

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥ ६.७८.९ ॥

他们回想起先前商议过的、要制止行事可怖者(怖军)的计策,下定坚决的决心,开始去阻拦他。

6.78.10

तानापतत एवाजौ भीमसेनो महाबलः ।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ ६.७८.१० ॥

当他们在战场上向他冲来时,大王啊,大力的怖军迎上前去,如同大象迎向敌象。

6.78.11

भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् ।
चित्रसेनं महाराज तव पुत्रं महायशाः ॥ ६.७८.११ ॥

大王啊,极其愤怒而光辉的大名声者怖军,用一支铁箭狠狠射中了你的儿子持军(即奇特军)。

6.78.12

तथेतरांस्तव सुतांस्ताडयामास भारत ।
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ॥ ६.७८.१२ ॥

婆罗多啊,他同样在战场上用多种箭射伤了你的其他儿子,那些箭有金色的羽毛,磨得十分锋利。

6.78.13

ततः संप्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् ।
अभिमन्युप्रभृतयस्ते द्वदश महारथाः ॥ ६.७८.१३ ॥

阿毗曼尤等十二位大战车武士见婆罗多的(您的)儿子们包围了毗摩森那,便前进了。

6.78.14

प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।
प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ॥ ६.७८.१४ ॥

由法王派遣、紧随毗摩森那足迹的(勇士),大王啊,又折返去迎击您那些强大的儿子们。

6.78.15

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ ६.७८.१५ ॥

见到那些站在战车上的勇士,光辉如太阳与火焰,皆为大弓箭手,光彩照人,为荣耀所环绕,

6.78.16

महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान् ।
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ ६.७८.१६ ॥

见他们在大战中光芒闪耀,金冠辉煌,您那些强大的儿子便在战斗中舍弃了毗摩。

6.78.17

तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ ६.७८.१७ ॥

贡蒂之子不能忍受他们活着离去,便追击并再次压迫您所有的儿子们。

6.78.18

अथाभिमन्युः समरे भीमसेनेन संगतः ।
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ॥ ६.७८.१८ ॥

随后阿毗曼尤与毗摩森那会合于战场,与补厄沙塔之子,以及所有迦伊刻亚王子和德罗波蒂之子一同前进。

6.78.19

तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः ।
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः।
भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ ६.७८.१९ ॥

你的大车将们见他们在战场上愤怒,由难敌领头,张弓举箭,驱策疾驰的马匹,奔向他们的战车所在之处。

6.78.20

अपराह्णे महाराज प्रावर्तत महारणः ।
तावकानां च बलिनां परेषां चैव भारत ॥ ६.७८.२० ॥

大王啊,婆罗多后裔,午后,你那些勇猛的战士与敌人之间,那场大战开始了。

6.78.21

अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ६.७८.२१ ॥

在大战中,阿毗曼尤杀死了毗迦尔纳的马;随后,他被二十五名小部族的战士围攻。

6.78.22

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
योधयामास समरे तदद्भुतमिवाभवत् ॥ ६.७८.२२ ॥

毗迦尔纳弃掉马匹已死的战车,大车将啊,婆罗多后裔,登上了奇特拉色那的战车,在战场上奋战;那情景仿佛奇迹一般。

6.78.23

स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ ।
आर्जिनिः शरजालेन च्छादयामास भारत ॥ ६.७८.२३ ॥

那两位兄弟,光大家族者,同立一辆战车上。婆罗多后裔啊,阿周那之子以箭网将他们遮蔽。

6.78.24

चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ॥ ६.७८.२४ ॥

奇特拉色那与毗迦尔纳以五支铁箭射中了那位黑天之子,然而黑天之子如须弥山般屹立,毫不动摇。

6.78.25

दुःशासनस्तु समरे केकयान्पञ्च मारिप ।
योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ ६.७८.२५ ॥

在战斗中,難敵的弟弟難降与五位甘迦王子交战,主啊;此事竟如奇迹一般,王中之王啊。

6.78.26

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।
शरैराशीविषाकारैः पुत्रं तव विशांपते ॥ ६.७८.२६ ॥

在战斗中,愤怒的德劳巴蒂之子们阻挡了难敌;主啊,他们以如毒蛇般的箭矢,阻拦了您的儿子。

6.78.27

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ ६.७८.२७ ॥

您的儿子也是难以抵挡的;大王,在战斗中,他以锋利的箭一个一个地射伤了德劳巴蒂的儿子们。

6.78.28

तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः ।
गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥ ६.७८.२८ ॥

他被他们射伤,浑身沾满鲜血,犹如山峰上混杂着赤土等颜色的溪流,闪闪发光。

6.78.29

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।
कालयामास बलवान्पालः पशुगणानिव ॥ ६.७८.२९ ॥

大王啊,毗湿摩也在战场上威猛地摧毁了般度子的军队,犹如牧人驱赶牛群。

6.78.30

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते ।
दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ॥ ६.७८.३० ॥

然后,民之主啊,军队右翼响起了帕尔塔的甘狄拔弓的轰鸣,他正在击杀敌人。

6.78.31

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः ।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥ ६.७८.३१ ॥

婆罗多的后裔啊,在那场战斗中,俱卢与般度的军队之中到处都站起了无头的躯干。

6.78.32

शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् ।
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ ६.७८.३२ ॥

那片军队之海有血河、箭涡、象岛与马浪,人中之虎以战车为舟渡过了它。

6.78.33

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥ ६.७८.३३ ॥

那里可见成百上千的人中俊杰倒下,手被斩断,无甲无身。

6.78.34

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ ६.७८.३४ ॥

婆罗多中最优秀的人啊,大地闪耀着,仿佛布满了山峦——被杀的发狂象群,浸泡在血流之中。

6.78.35

तत्राद्भुतमपश्याम तव तेषां च भारत ।
न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥ ६.७८.३५ ॥

婆罗多的后裔啊,我们在那里看到了一件奇事,无论你方还是他方:那里没有一个男人不渴望战斗。

6.78.36

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः ।
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥ ६.७८.३६ ॥

英雄们如此作战,追求伟大的荣誉:你的部下与般度之子们作战,渴望战场上的胜利。