महाभारत · अध्याय 6.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.9.1
यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम् ।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥ ६.९.१ ॥
यह भारतवर्ष, जहाँ यह सेना एकत्र हुई है, जहाँ मेरा यह पुत्र दुर्योधन अत्यधिक लोभी है।
6.9.2
यत्र गृद्धा पाण्डुपुत्रा यत्र मे सञ्जते मनः ।
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥ ६.९.२ ॥
जहाँ पाण्डुपुत्र लोभी हैं और जहाँ मेरा मन आसक्त है, यह सत्य मुझे बताओ, क्योंकि मेरे मत में तुम बुद्धिमान हो।
6.9.3
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम ।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ ६.९.३ ॥
वहाँ पाण्डव लोभी नहीं हैं। हे राजन, मेरी बात सुनो — वहाँ लोभी दुर्योधन है, और सुबल का पुत्र शकुनि भी।
6.9.4
अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः ।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ ६.९.४ ॥
अन्य क्षत्रिय भी, जो अनेक जनपदों के स्वामी हैं, जो लोभी हैं और भारतवर्ष में एक-दूसरे को सहन नहीं करते।
6.9.5
अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् ।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ ६.९.५ ॥
यहाँ मैं तुम्हें भारतवर्ष का वर्णन करूँगा, हे भारत, वह भारत जो देवराज इन्द्र को प्रिय है और मनु वैवस्वत को भी।
6.9.6
पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ६.९.६ ॥
और राजा पृथु वैन्य का, तथा महात्मा इक्ष्वाकु का, ययाति का, अम्बरीष का, मान्धाता का और नहुष का (भी यह प्रिय था)।
6.9.7
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च ।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ६.९.७ ॥
इसी प्रकार मुचुकुन्द, उशीनर-पुत्र शिबि, ऋषभ, ऐल और राजा नृग (की भी चर्चा सुनी है)।
6.9.8
कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः ।
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥ ६.९.८ ॥
हे दुर्धर्ष, कुशिक, महात्मा गाधि, सोमक और दिलीप (की भी चर्चा सुनी है), उसी प्रकार।
6.9.9
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ ६.९.९ ॥
हे महाराज, और भी अनेक बलशाली क्षत्रियों की (चर्चा सुनी है); हे राजेन्द्र, सभी प्रिय भारत, भरतवंशी (राजाओं) की।
6.9.10
तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम ।
श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ ६.९.१० ॥
हे शत्रुदमन, मैं तुम्हें उस वर्ष (भूभाग) का यथावत वर्णन करूँगा। हे राजन, मेरे बोलते हुए सुनो, जो तुम मुझसे पूछ रहे हो।
6.9.11
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ६.९.११ ॥
महेन्द्र, मलय, सह्य, शुक्तिमान, ऋक्षवान तथा विन्ध्य और पारियात्र—ये सात कुल-पर्वत हैं।
6.9.12
तेषां सहस्रशो राजन्पर्वतास्ते समीपतः ।
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ ६.९.१२ ॥
हे राजन, उनके निकट हजारों पर्वत हैं—अविज्ञात, सारवान, विशाल और विचित्र शिखरों वाले।
6.9.13
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ ६.९.१३ ॥
फिर अन्य अपरिचित, छोटे कद के और छोटे साधनों पर जीने वाले लोग हैं, हे कौरव्य; आर्य और म्लेच्छ भी, और उनसे मिश्रित पुरुष, हे विभो।
6.9.14
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् ।
गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ ६.९.१४ ॥
वे विशाल नदियों को पीते हैं—गंगा, सिंधु, सरस्वती, गोदावरी, नर्मदा, और बाहुदा तथा महानदी को।
6.9.15
शतद्रूं चन्द्रभागां च यमुनां च महानदीम् ।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ ६.९.१५ ॥
शतद्रु, चंद्रभागा, यमुना, महानदी, दृषद्वती, विपाशा, विपापा और स्थूलबालुका को।
6.9.16
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम् ।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ ६.९.१६ ॥
वेत्रवती नदी, कृष्णवेणी, इरावती, वितस्ता, पयोष्णी और देविका को भी।
6.9.17
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम् ।
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥ ६.९.१७ ॥
वेदस्मृता, वेदवती, त्रिदिवा, इक्षुला, कृमि, करीषिणी, चित्रवाहा और चित्रसेना नदी को।
6.9.18
गोमतीं धूतपापां च वन्दनां च महानदीम् ।
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ॥ ६.९.१८ ॥
गोमती, धूतपापा, वंदना, महानदी, कौशिकी, त्रिविदा, कृत्या, निचिता और लोहितारणी को।
6.9.19
रहस्यां शतकुम्भां च सरयूं च तथैव च ।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ ६.९.१९ ॥
रहस्या, शतकुम्भा, सरयू और उसी प्रकार चर्मण्वती, वेत्रवती, तथा हस्तिसोमा दिशा (नदी) भी।
6.9.20
शरावतीं पयोष्णीं च वेणां भीमरथीमपि ।
कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥ ६.९.२० ॥
शरावती, पयोष्णी और वेणा, भीमरथी भी, कावेरी, चुलुका भी, वाणी और शतबला भी।
6.9.21
नीवारामहितां चापि सुप्रयोगां जनाधिप ।
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥ ६.९.२१ ॥
नीवारा, अहिता भी, सुप्रयोगा भी, हे जनाधिप; पवित्रा, कुण्डली, सिन्धु, राजनी और पुरमालिनी।
6.9.22
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा ।
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥ ६.९.२२ ॥
पूर्वाभिरामा, वीरा और भीमा, तथा ओघवती, पाशाशिनी, पापहरा, महेन्द्रा और पाटलावती।
6.9.23
करीषिणीमसिक्नीं च कुशचीरां महानदीम् ।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥ ६.९.२३ ॥
करीषिणी, असिक्नी और कुशचीरा महानदी, मकरी, प्रवरा, मेना, हेमा तथा घृतवती भी।
6.9.24
पुरावतीमनुष्णां च शैब्यां कापीं च भारत ।
सदानीरामधृष्यां च कुशधारां महानदीम् ॥ ६.९.२४ ॥
पुरावती, अनुष्णा और शैब्या, कापी भी, हे भारत; सदानीरा, अधृष्या और महानदी कुशधारा।
6.9.25
सदाकान्तां शिवां चैव तथा वीरवतीमपि ।
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥ ६.९.२५ ॥
सदाकान्ता, शिवा तथा वीरवती भी, वस्त्रा, सुवस्त्रा, गौरी और कम्पना, हिरण्वती सहित।
6.9.26
वरां वीरकरां चापि पञ्चमीं च महानदीम् ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ ६.९.२६ ॥
वरा, वीरकरा तथा पाँचवीं महानदी भी, रथचित्रा, ज्योतिरथा, विश्वामित्रा और कपिञ्जला।
6.9.27
उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् ।
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥ ६.९.२७ ॥
उपेन्द्रा, बहुला तथा कुवीरा, अम्बुवाहिनी, विनदी, पिञ्जला, वेणा और तुङ्गवेणा महानदी।
6.9.28
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि ।
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥ ६.९.२८ ॥
विदिशा, कृष्णवेणा, ताम्रा तथा कपिला भी, खलु, सुवामा, वेदाश्वा, हरिश्रावा और महापगा।
6.9.29
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् ।
कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ॥ ६.९.२९ ॥
शीघ्रा और पिच्छिला, भारद्वाजी और निम्नगा, कौशिकी, निम्नगा शोणा, बाहुदा तथा फिर चन्द्रमा।
6.9.30
दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् ।
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥ ६.९.३० ॥
दुर्गा, चित्रशिला तथा ब्रह्मवेध्या, बृहद्वती, यवक्षा, फिर रोही और उसी प्रकार जाम्बूनदी भी।
6.9.31
सुनसां तमसां दासीं वसामन्यां वराणसीम् ।
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥ ६.९.३१ ॥
सुनसा, तमसा, दासी, वसा, अन्य वाराणसी, नीला, धृतवती तथा पर्णाशा और महानदी।
6.9.32
मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम् ।
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥ ६.९.३२ ॥
मानवी, वृषभा तथा ब्रह्ममेध्या, बृहद्ध्वनी, ये और अन्य बहुत सी महानदियाँ, हे जनाधिप।
6.9.33
सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥ ६.९.३३ ॥
सदानीरा, कृष्णा, मन्दगा, मन्दवाहिनी, ब्राह्मणी तथा महागौरी, और दुर्गा भी, हे भारत।
6.9.34
चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा ।
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥ ६.९.३४ ॥
चित्रोपला, चित्ररथा, मञ्चुला, वाहिनी तथा मन्दाकिनी, वैतरणी, और कोषा नामक महानदी भी।
6.9.35
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥ ६.९.३५ ॥
शुक्तिमती, अनङ्गा तथा वृषसाह्वया, लोहित्या और करतोया, तथा वृषकाह्वया भी।
6.9.36
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् ।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥ ६.९.३६ ॥
कुमारी, ऋषिकुल्या, मारिषा तथा सरस्वती, मन्दाकिनी, अति पुण्या, और सब गङ्गा भी, हे भारत।
6.9.37
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः ।
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः ॥ ६.९.३७ ॥
वे सभी विश्व की माताएँ हैं और सभी महाफल देने वाली हैं। इसी प्रकार सैकड़ों और हज़ारों अन्य नदियाँ भी हैं, जो अप्रकट हैं।
6.9.38
इत्येताः सरितो राजन्समाख्याता यथास्मृति ।
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥ ६.९.३८ ॥
हे राजन्, इस प्रकार ये नदियाँ स्मृति के अनुसार बताई गई हैं। अब आगे देशों के विषय में मेरे कहने को सुनिए।
6.9.39
तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥ ६.९.३९ ॥
वहाँ ये हैं: कुरु, पांचाल, शाल्व, माद्रेय, जांगल, शूरसेन, पुलिन्द, बोध और माल।
6.9.40
मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः ।
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥ ६.९.४० ॥
मत्स्य, कुशल्य, सौशल्य, कुंति, कांतिकोसल, चेदि, मत्स्य, करूष, भोज, सिन्धु और पुलिन्दक।
6.9.41
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥ ६.९.४१ ॥
उत्तम और दशार्ण, मेकल तथा उत्कलों के साथ पांचाल और कोसल, तथा नैकपृष्ठ और धुरन्धर।
6.9.42
गोधा मद्रकलिङ्गाश्छ काशयोऽपरकाशयः ।
जठराः कुकुराश्चैव सदशार्णाश्च भारत ॥ ६.९.४२ ॥
गोध, मद्र और कलिंग, काशी तथा अपर काशी, जठर और कुकुर, और दशार्णों के साथ, हे भारत।
6.9.43
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ।
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥ ६.९.४३ ॥
कुन्ति, अवन्ति तथा अपर कुन्ति, गोमन्त, मन्दक, सण्ड, विदर्भ और रूपवाहिक।
6.9.44
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः ।
अधिराज्यकुशाद्यश्च मल्लराष्ट्रं च केवलम् ॥ ६.९.४४ ॥
अश्मक, पाण्डुराष्ट्र और गोपराष्ट्र, करीति, अधिराज्य और कुशाद्य, तथा केवल मल्लराष्ट्र।
6.9.45
वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः ।
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥ ६.९.४५ ॥
वारवास्य और आयवाह, चक्र और चक्रातिगण, शक, विदेह, मगध, स्वक्ष, मलज तथा विजय भी।
6.9.46
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ।
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥ ६.९.४६ ॥
अंग, वंग और कलिंग, यकृल्लोमान, मल्ल, सुदेष्ण, प्रह्लाद, माहिक तथा शशिक भी।
6.9.47
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः ।
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥ ६.९.४७ ॥
बाह्लीक, वाटधान, आभीर, कालतोयक, अपरान्त और परान्त तथा पांचाल और चर्ममण्डल।
6.9.48
अटवीशिखराश्चैव मेरुभूताश्च मारिष ।
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥ ६.९.४८ ॥
अटवीशिखर और मेरुभूत भी, हे मारिष; उपावृत्त, अनुपावृत्त, स्वराष्ट्र और केकय भी।
6.9.49
कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः ।
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥ ६.९.४९ ॥
कुन्दापरान्त, माहेय, कक्ष, समुद्रतट के निवासी, और बहुत से अन्ध्र, हे राजन्, तथा पर्वतों के भीतर बसे लोग भी।
6.9.50
बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः ।
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥ ६.९.५० ॥
पर्वतों के बाहर अंग-मल से उत्पन्न, मगध, मानवर्जक, समन्तर, प्रावृषेय और भार्गव, हे जनाधिप।
6.9.51
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा ।
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥ ६.९.५१ ॥
पुण्ड्र, भर्ग, किरात, सुदृष्ट, यामुन, शक, निषाद, निषध तथा आनर्त और नैर्ऋत।
6.9.52
दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा ।
तीरग्रहाः शूरसेना ईजिकाः कन्यका गुणाः ॥ ६.९.५२ ॥
दुर्गाल, प्रतिमत्स्य, कुन्तल, कोसल, तीरग्रह, शूरसेन, ईजिक, कन्यक और गुण।
6.9.53
तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः ।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ ६.९.५३ ॥
तिलभार, मसीर, मधुमन्त और कुन्दकों सहित, काश्मीर, सिन्धु-सौवीर, गान्धार तथा दर्शक भी।
6.9.54
अभीसारा उलूताश्च शैवला बाह्लिकास्तथा ।
दार्वी च वानवा दर्वा वातजामरथोरगाः ॥ ६.९.५४ ॥
अभीसार, उलूत, शैवल, बाह्लिक तथा दार्वी, वानव, दर्व, वातजाम, रथ और उरग।
6.9.55
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ।
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥ ६.९.५५ ॥
हे कौरव्य, बहुवाद्य, सुदामान, सुमल्लिक, वध्र, करीषक तथा कुलिन्द और उपत्यक भी (उस सेना में थे)।
6.9.56
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः ।
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥ ६.९.५६ ॥
वनायु, दशपार्श्व और रोमाण, कुशबिन्दु, कच्छ, गोपालकक्ष और जाङ्गल तथा कुरुवर्णक (भी उस सेना में थे)।
6.9.57
किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः ।
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥ ६.९.५७ ॥
किरात, बर्बर, सिद्ध, वैदेह, ताम्रलिप्तक, ओण्ड्र, म्लेच्छ, सैसिरिध्र तथा पर्वतीय, और हे मारिष (ये भी थे)।
6.9.58
अथापरे जनपदा दक्षिणा भरतर्षभ ।
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥ ६.९.५८ ॥
और हे भरतर्षभ, दक्षिण के अन्य जनपद भी: द्रविड़, केरल, प्राच्य, भूषिक और वनवासी।
6.9.59
कर्णाटका महिषका विकल्पा मूषकास्तथा ।
झिल्लिकाः कुन्तलाश्चैव सौहृदानभकाननाः ॥ ६.९.५९ ॥
कर्णाटक, महिषक, विकल्प, मूषक तथा झिल्लिक, कुन्तल और सौहृद, आनभ एवं कानन (जनपद)।
6.9.60
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः ।
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥ ६.९.६० ॥
कौकुट्टक तथा चोल, कोङ्कण, मालव जन, समङ्ग और करक तथा कुकुर, अङ्गार एवं मारिष (जनपद)।
6.9.61
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः ।
व्यूकाः कोकबकाः प्रोष्ठाः समवेगवशास्तथा ॥ ६.९.६१ ॥
ध्वजिनी, उत्सव और संकेत नामक जातियाँ, त्रिगर्त और शाल्व की सेनाएँ, व्यूक, कोकबक, प्रोष्ठ तथा समवेगवश भी।
6.9.62
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह ।
मालवा बल्लवाश्चैव तथैवापरबल्लवाः ॥ ६.९.६२ ॥
उसी प्रकार विन्ध्यचूलिका, वल्कलधारियों सहित पुलिन्द, मालव, बल्लव तथा अपर बल्लव भी।
6.9.63
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा ।
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः ॥ ६.९.६३ ॥
कुलिन्द, कालद, कुण्डल तथा करट भी; मूषक, तनबाल, सनीप और घटसृञ्जय।
6.9.64
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा ।
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥ ६.९.६४ ॥
अठिद, पाशिवाट, तनय तथा सुनय भी; ऋषिक, विदर्भ, काक, तङ्गण और परतङ्गण।
6.9.65
उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम ।
यवनाश्चीनकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६.९.६५ ॥
हे भरतश्रेष्ठ! उत्तर के तथा अन्य क्रूर म्लेच्छ, यवन, चीन, कम्बोज तथा भयंकर म्लेच्छ जातियाँ।
6.9.66
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह ।
तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥ ६.९.६६ ॥
सकृद्ग्रह, कुलत्थ तथा पारसिकों सहित हूण; उसी प्रकार रमण, चीन तथा दशमालिक भी।
6.9.67
क्षत्रिकयोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ ६.९.६७ ॥
क्षत्रियों की बस्तियाँ और वैश्य-शूद्र कुल, शूद्र, आभीर, दरद और काश्मीर, पशुओं सहित।
6.9.68
खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः ।
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥ ६.९.६८ ॥
खाशीर, अन्तचार, पह्लव, पर्वत-गुफाओं के निवासी, आत्रेय, भरद्वाज सहित, और उसी प्रकार स्तनपोषिक।
6.9.69
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः ।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ ६.९.६९ ॥
प्रोषक, कलिंग, किरातों की जातियाँ, मारे जाते हुए तोमर, और उसी प्रकार करभंजक।
6.9.70
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।
उद्देशमात्रेण मया देशाः संकीर्तिता विभो ॥ ६.९.७० ॥
ये और अन्य जनपद, पूर्व और उत्तर के भी, हे प्रभो, मेरे द्वारा केवल संकेत मात्र से देश वर्णित किए गए हैं।
6.9.71
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।
दुह्याद्धेनुः कामधुक्क भूमिः सम्यगनुष्ठिता ॥ ६.९.७१ ॥
गुण और बल के अनुसार, त्रिवर्ग का महाफल भी देती है; जैसे कामधेनु दूध देती है, वैसे ही भली प्रकार सेवित भूमि भी फल देती है।
6.9.72
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थक्रोविदाः ।
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥ ६.९.७२ ॥
उसके लिए शूर राजा, जो धर्म और अर्थ के ज्ञाता हैं, लालायित होते हैं; वे धन के लोभी और पराक्रमी युद्ध में अपने प्राण त्याग देते हैं।
6.9.73
देवमानुषकायानां कामं भूमिः परायणम् ।
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥ ६.९.७३ ॥
देवों और मनुष्यों के शरीरों की भाँति, पृथ्वी ही कामना का लक्ष्य है; जैसे कुत्ते मांस के लिए एक-दूसरे से छीनते हैं, वैसे ही वे एक-दूसरे से (भूमि) छीनते हैं।
6.9.74
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ।
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥ ६.९.७४ ॥
हे भरतश्रेष्ठ, पृथ्वी का भोग करने की कामना रखने वाले राजा (ही) हैं; आज भी किसी की भी कामनाओं में तृप्ति नहीं मिलती।
6.9.75
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।
साम्ना भेदेन दानेन दण्डेनैव च भारत ॥ ६.९.७५ ॥
इसलिए पृथ्वी को अपने अधिकार में लेने के लिए कौरव और पाण्डव प्रयत्न कर रहे हैं — हे भारत, साम से, भेद से, दान से और दण्ड से ही।
6.9.76
पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव ।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥ ६.९.७६ ॥
हे नरश्रेष्ठ, पिता, भाई और पुत्र, आकाश और स्वर्ग — पृथ्वी ही प्राणियों के लिए सम्पूर्ण रूप से निर्विवाद (आश्रय) दिखाई देती है।