Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.92.1

ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ ६.९२.१ ॥

于是诸王之主在战场上承受了那场连达婆也难以忍受的箭雨,如大象承受雨水一般。

6.92.2

ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ ६.९२.२ ॥

于是充满愤怒、如蛇般喘息的你的儿子陷入了极大的危险,婆罗多族的雄牛啊。

6.92.3

मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् ।
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ ६.९२.३ ॥

他射出二十五支锋利尖锐的铁杆箭,它们忽然落在那位罗刹之最身上,大王。

6.92.4

आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ।
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ॥ ६.९२.४ ॥

被那些箭射中,如同乾陀摩陀山上发怒的毒蛇,他流着血,宛如发情的象。

6.92.5

दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।
जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥ ६.९२.५ ॥

那食肉者决意毁灭国王,并抓起能劈开群山的大力标枪。

6.92.6

संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव ।
तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥ ६.९२.६ ॥

那大力者手持如大流星、又如燃烧的雷电般炽亮的标枪,欲杀害你的儿子,向前迈进。

6.92.7

तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥ ६.९२.७ ॥

他看见那长矛已被举起,便急速驱使如山一般的大象朝罗刹冲去。

6.92.8

स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ॥ ६.९२.८ ॥

他以最优秀、强大、疾行的大象,在战斗中阻挡了杜尔约达纳战车所在的道路。

6.92.9

पन्थानं वारयामास कुञ्जरेण सुतस्य ते ।
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥ ६.९२.९ ॥

看见您的儿子之路被象所阻,聪慧的甕伽王便封锁了道路。

6.92.10

घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ॥ ६.९२.१० ॥

大王!瞿陀迦的双眼因愤怒而通红,他将那高举的大神矛投向了那头象。

6.92.11

स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया ।
संजातरुधिरोत्पीडः पपात च ममार च ॥ ६.९२.११ ॥

大王啊,那头象被他手臂掷出的长矛击中,血流如注,倒下死去了。

6.92.12

पतत्यथ गजे चापि वङ्गानामीश्वरो बली ।
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ ६.९२.१२ ॥

象倒下之际,强大的甕伽之主急速跃下,落到了地面。

6.92.13

दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ ६.९२.१३ ॥

难敌见到良象倒地、军队溃散,也陷入了极大的痛苦。

6.92.14

अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम् ।
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम्।
प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ॥ ६.९२.१४ ॥

看到他的威力,自知无法抵挡,但心中以刹帝利之责为先,并念及自己的尊严,国王在该撤退之时仍如山岳般屹立不动。

6.92.15

राधान च शितं बाणं कालाग्निसमतेजसम् ।
सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ ६.९२.१५ ॥

苏尤陀那满怀正义之怒,向那可怖的夜行者射出一支锐利的箭,其光辉如死亡之火。

6.92.16

तमापतन्तं संप्रेक्ष्य वणिमिन्द्राशनिप्रभम् ।
लाघवान्मोचयामास महात्मा वै घटोत्कचः ॥ ६.९२.१६ ॥

大智慧的迦托迦见那支如因陀罗雷霆般闪耀的箭向自己飞来,便凭借敏捷迅速避开了它。

6.92.17

भूयश्च निननादोषं क्रोधसंरक्तलोचनः ।
त्रासयामास रौन्यानि युगन्ते जलदो यथा ॥ ६.९२.१७ ॥

他双眼因愤怒而通红,再次高声咆哮,像末劫时的乌云一般,使考拉瓦军队惊恐。

6.92.18

तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः ।
आचार्यमुसंगम्य भीष्मः शान्तनवोऽब्रवीत् ॥ ६.९२.१८ ॥

闻听那可怖的罗刹之怒吼,珊塔努之子毗湿摩走近师尊,开口说道。

6.92.19

यथैव निनन्दो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ॥ ६.९२.१९ ॥

正如听到罗刹发出的可怕的尼南达吼声,海迪姆巴无疑正在与国王难敌交战。

6.92.20

नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ॥ ६.९२.२० ॥

他在战场上绝非任何生灵所能战胜。愿你们平安;前往那里保护国王吧。

6.92.21

अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम् ।
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥ ६.९२.२१ ॥

冲向被罗刹折磨的大臂者,这实为我们所有人的至高职责,啊,焚烧敌人者们。

6.92.22

पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ ६.९२.२२ ॥

大车战士们听了祖父的话,急忙以最快速度前往那位俱卢之王所在之处。

6.92.23

द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः ।
कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥ ६.९२.२३ ॥

德罗纳、索摩达多、跋利迦,然后是胜车、慈悲、广闻、沙利耶、阿文提人以及那位大力者。

6.92.24

अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः ।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ ६.९२.२४ ॥

马嘶、毗迦尔纳、奇特色那、毗毗尚提,以及追随他们的数以千计的战车。

6.92.25

अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ।
तदनीकमनाधृष्यं पालितं तु महारथैः ॥ ६.९२.२५ ॥

见你的儿子难敌遭到攻击,那支不可战胜的军队想要保护他,由大战车武士们守护着。

6.92.26

पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
…कम्पत महाबाहुर्मैनाक इव पर्वतःक ॥ ६.९२.२६ ॥

见他扑来攻击,罗刹中的最优者、大臂者……如同摩纳迦山般颤抖。

6.92.27

प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ ६.९२.२७ ॥

手持大弓,被亲族环绕,手中持着长矛与战棍,还有各种兵器。

6.92.28

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ ६.९२.२८ ॥

于是,罗刹与难敌军队的首领之间爆发了一场喧嚣而令人毛骨悚然的激战。

6.92.29

धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे ।
अश्रूयत महाराज वंशानां दह्यतामिव ॥ ६.९२.२९ ॥

大王啊,战场上四面八方传来弓弦嗡鸣的喧嚣之声,犹如燃烧的竹子在噼啪作响。

6.92.30

शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् ।
शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ॥ ६.९२.३० ॥

大王啊,兵器击打在铠甲上的声音响起,犹如群山崩裂。

6.92.31

वीरबाहुविसृष्टानां तोमराणां विशांपते ।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥ ६.९२.३१ ॥

人主啊,英雄们手臂射出的标枪在空中的形貌,如同在空中游动的蛇。

6.92.32

ततः परमसंक्रुद्धो विष्फार्य सुमहद्धनुः ।
राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ॥ ६.९२.३२ ॥

于是,极度愤怒的大臂罗刹王拉开他巨大的弓,发出可怖的吼声。

6.92.33

आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥ ६.९२.३३ ॥

他愤怒地用半月形箭斩断了老师(德罗纳)的弓,又以阔刃箭折断了索摩达塔的旗帜,并发出吼声。

6.92.34

बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ ६.९२.३४ ॥

他以三支箭射中跋利迦的胸口正中,以一支箭射伤克利巴,又以三支箭射穿citrasena。

6.92.35

पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ ६.९२.३५ ॥

他以完全拉开、瞄准精准射出的箭,靠近维卡尔纳,击中他的锁骨部位。

6.92.36

न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः ।
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ॥ ६.९२.३६ ॥

他浑身沾满鲜血,坐倒在自己战车的底板上。随后,这位精神无量的勇士又射出了十五支铁箭。

6.92.37

भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥ ६.९२.३७ ॥

他对婆利室罗瓦怒不可遏,婆罗多族的雄牛啊,他射出箭矢;箭穿透他的铠甲,迅速没入大地。

6.92.38

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ ६.९२.३८ ॥

他击中了毗毗姆莎提和德罗纳之子的御者,二人松开马缰,倒在战车的车板上。

6.92.39

सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ ६.९२.३९ ॥

大王啊,他以半月箭击落了信度王镶金的野猪旗,又以第二支箭射断了他的弓。

6.92.40

चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ ६.९२.४० ॥

随后,他怒目通红,以四支铁箭射杀了大德阿文提王的四匹马。

6.92.41

पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ ६.९२.४१ ॥

大王啊,他以满弓射出的黄色锋利箭,射穿了王子大力。

6.92.42

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥ ६.९२.४२ ॥

他受了深重的伤,痛苦地坐在车板上;而那罗刹之主,怒火充盈,仍站在战车中。

6.92.43

चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान् ।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ ६.९२.४३ ॥

他射出锋利的箭矢,如同毒蛇一般;大王啊,它们刺穿了精通战阵的沙利耶。