Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.107.1

बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् ।
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥ ७.१०७.१ ॥

那时,见坚毅勇猛的克迦耶王子布利哈特克沙特拉来到,大王啊,克谢玛度尔提以箭射穿了他的胸膛。

7.107.2

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् ।
आजघ्ने त्वरितो राजन्द्रोणानीकबिभित्सया ॥ ७.१०७.२ ॥

于是国王布利哈特克沙特拉,想要冲破德罗纳的军队,迅速以九十支弯曲节部的箭射向他。

7.107.3

क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः ।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन ह ॥ ७.१०७.३ ॥

然而愤怒的克谢玛度尔提用一支黄色锋利的婆罗箭斩断了那位高尚克迦耶的弓。

7.107.4

अथैनं छिन्नधन्वानं शरेणानतपर्वणा ।
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम् ॥ ७.१०७.४ ॥

接着,在他的弓被斩断之后,他在战场上迅速以一支弯曲节部的箭射穿了他,此人是一切弓箭手中的最优者。

7.107.5

अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव ।
व्यश्वसूतरथं चक्रे क्षमदूर्तिं महारथम् ॥ ७.१०७.५ ॥

然后布利哈特克沙特拉拿起另一张弓,仿佛含笑一般,使大战车手克谢玛度尔提的战车失去了马匹和御者。

7.107.6

ततोऽपरेण भल्लेन पीतेन निशितेन च ।
जहार नृपतेः कायाच्छिरोऽज्वलितकुण्डलम् ॥ ७.१०७.६ ॥

接着,他又用一支黄色锋利的婆罗箭,从国王的身体上斩下了那颗戴着闪耀耳环的头颅。

7.107.7

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् ।
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥ ७.१०७.७ ॥

他被斩断的头颅,带着卷曲的发丝和王冠,突然落到地上,像从天空坠落的光一样闪耀。

7.107.8

तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः ।
सहसाऽभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥ ७.१०७.८ ॥

Bṛhatkṣatra这位大车战士在战场上杀死了他,欢欣鼓舞,为了般度之子(阿周那)的缘故,突然冲向你的军队。

7.107.9

धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी ।
वीरधन्वा महेष्वासो वारयामास भारत ॥ ७.१०७.९ ॥

勇猛的大弓箭手毗罗檀婆也阻挡了为德罗纳而来的德里斯塔刻都,婆罗多的后裔啊。

7.107.10

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ ।
शरैरनेकसाहस्रेरन्योन्यमभिजघ्नतुः ॥ ७.१०७.१० ॥

这两位以箭为獠牙的敏捷勇士相遇,以成千上万支箭彼此攻击。

7.107.11

तावुभौ नरशार्दूलौ युयुधाते परस्परम् ।
महावने तीव्रमदौ वारणाविव यूथपौ ॥ ७.१०७.११ ॥

这两位人中之虎彼此争斗,如同大森林中两头发情狂暴的象王。

7.107.12

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ ।
युयुधाते महावीर्यौ परस्परजिघांसया ॥ ७.१०७.१२ ॥

如同两只愤怒的老虎来到山洞,两位大力英雄以彼此杀戮的欲望而战斗。

7.107.13

तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशाम्पते ।
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ॥ ७.१०७.१३ ॥

众生之主啊,那场战斗惨烈而可观,对悉陀与遮罗那的众群而言,那是令人惊叹的奇观。

7.107.14

वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् ।
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥ ७.१०७.१४ ॥

于是愤怒的毗罗陀婉那以一支钵罗箭将持律王的弓斩为两段,仿佛在笑着,婆罗多啊。

7.107.15

तदुत्सृज्य धनुच्छिन्नं चेदिराजो महारथः ।
शक्तिं जग्राह विपुलां हेमदण्डामयस्मयीम् ॥ ७.१०७.१५ ॥

这位大车将,即恰底王,抛下断弓,握住一支巨大的标枪,枪杆是金的,枪头是铁的。

7.107.16

तां तु शक्तिं महावीर्यां दोर्भ्यामायस्य भारत ।
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥ ७.१०७.१६ ॥

婆罗多啊,恰底王以双臂挥动那威力巨大的标枪,全神贯注,突然朝毗罗陀婉那的车掷去。

7.107.17

तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशम् ।
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥ ७.१०७.१७ ॥

他被那杀英雄的标枪猛烈击中,心口被刺穿,很快便从车上坠落于地。

7.107.18

तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे ।
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥ ७.१०७.१८ ॥

三摩多国的那位大车将英雄被杀之后,主啊,你的军队便被般度之子从四面八方击溃。

7.107.19

सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् ।
ननाद च महानादं तर्जयन्पाण्डवं रणे ॥ ७.१०७.१९ ॥

于是,难敌之弟难降(Durmukha)向偕天(Sahadeva)射出六十支箭,并在战场上恐吓般威的人(Pāṇḍava),发出巨大的吼声。

7.107.20

माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः ।
भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव ॥ ७.१०७.२० ॥

于是,愤怒的玛德丽之子用锋利的箭射中难降;兄弟相向而进,他仿佛含笑般将其射穿。

7.107.21

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् ।
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥ ७.१०७.२१ ॥

婆罗多啊,难降见偕天在战场上勇猛暴怒,便用九支箭射击这位大力者。

7.107.22

दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः ।
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ ७.१०७.२२ ॥

然而那位大力者以一支月牙箭斩断难降的旗帜,又以四支利箭射倒他的四匹马。

7.107.23

अथापरेण भल्लेन पीतेन निशितेन ह ।
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ॥ ७.१०७.२३ ॥

随后,他又以一支金色锋利的月牙箭,从御者的身体上斩下了戴着闪耀耳环的头颅。

7.107.24

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः ।
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥ ७.१०७.२४ ॥

偕天以一支锋利的剃刀箭,在战场上斩断了俱卢族人的大弓,又用五支箭射中了他。

7.107.25

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा ।
आरुरोह रथं राजन्निरमित्रस्य भारत ॥ ७.१०७.२५ ॥

杜尔穆卡马匹已死,便弃了自己的战车,心情沮丧,登上了尼尔米特拉的战车,哦国王,哦婆罗多。

7.107.26

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे ।
जघान पृथुधारेण भल्लेन परवीरहा ॥ ७.१०७.२६ ॥

于是愤怒的萨哈德瓦在那场大战中,以宽刃的婆罗箭射杀了尼尔米特拉,他是敌方英雄的杀手。

7.107.27

स पपात रथोपस्थान्निरमित्रो जनेश्वरः ।
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥ ७.१०७.२७ ॥

他,尼尔米特拉,人主,三呾底王之子,从战车平台上坠落,使你的军队苦恼。

7.107.28

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत ।
यथा दाशरथी रामः खरं हत्वा महाबलम् ॥ ७.१०७.२८ ॥

杀了他之后,臂力强大的萨哈德瓦光彩照人,犹如十车王之子罗摩杀了大力的哈罗之后光彩照人。

7.107.29

हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर ।
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम् ॥ ७.१०७.२९ ॥

人主啊,三呾底人之中升起了巨大的哀号,看到王子、大车手尼尔米特拉被杀。

7.107.30

नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् ।
मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत् ॥ ७.१०७.३० ॥

国王啊,那拉库拉在片刻之间战胜了你的儿子大眼的毗迦尔纳,这在世间看来如同奇迹。

7.107.31

सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः ।
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥ ७.१०७.३१ ॥

毗耶瘠多陀以弯曲节端的箭,使萨谛奇连同马匹、御者和旗帜在军阵之中隐而不见。

7.107.32

तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् ।
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥ ७.१०७.३२ ॥

英雄勝尼(萨谛奇)挡开那些箭,以熟练的手以箭将毗耶瘠多陀连同马匹、御者和旗帜一并射落。

7.107.33

कुमारे निहते तस्मिन्मागधस्य सुते प्रभो ।
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥ ७.१०७.३३ ॥

主君啊,摩揭陀王之子那位王子被杀后,摩揭陀战士四面八方准备就绪,向尤优陀那(萨谛奇)冲去。

7.107.34

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः ।
मिण्डिपालांस्तथा प्रासान्मुद्रान्मुसलानपि
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् ॥ ७.१०७.३४ ॥

英雄们在战场上投掷数以千计的箭、长矛、投枪、长戟、铁锤与棍棒,与沉醉于战斗的萨特瓦塔(萨谛奇)交战。

7.107.35

तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः ।
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः ॥ ७.१०७.३५ ॥

勇猛而在战斗中豪情万丈的萨谛奇,人中雄牛,虽略感疲惫,却不费大力便把他们全部击败。

7.107.36

मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः ।
बलं तेऽभज्यत विभो युयुधानशरार्दितम् ॥ ७.१०७.३६ ॥

主君啊,见摩揭陀人从四面八方逃散、那些未被杀尽的人在奔逃,您的军队在尤优陀那的箭下受挫,终于溃散。

7.107.37

नाशयित्वा रणे सैन्यं त्वदीयं तु समन्ततः ।
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥ ७.१०७.३७ ॥

在战场上四面歼灭了你们的军队,挥舞着上好的弓,这位大名的英雄光芒四射。

7.107.38

भज्यमानं बलं राजन्सात्वतेन महात्मना ।
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥ ७.१०७.३८ ॥

大王啊,那支军队被大德的萨特瓦塔所击溃,被长臂者惊吓,不再向战场前进。

7.107.39

ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी ।
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥ ७.१०७.३९ ॥

于是德罗纳极为愤怒,骤然转动双眼,亲自朝着行事真实的萨提亚吉冲去。