摩诃婆罗多 · 章 7.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.108.1
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्व्वा पुनर्विव्याध सप्तभिः ॥ ७.१०८.१ ॥
名声远扬的索摩达塔之子以五支箭射中德劳帕蒂的每一位大弓箭手,随后又以七支箭再次射中他们。
7.108.2
ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥ ७.१०८.२ ॥
主公啊,他们被那凶猛的战士突然重创,陷入困惑,在战斗中完全不知该如何是好。
7.108.3
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्व्वाऽनदद्वृष्टः शराभ्यां शत्रुकर्शनः ॥ ७.१०८.३ ॥
那罗之子沙塔尼迦,敌人的克星,以两支箭射中人中之牛、索摩达塔之子,并发出吼声。
7.108.4
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥ ७.१०८.४ ॥
其余诸人同样备战于战场,各以三支直飞的箭,迅速射中了那位不肯退让的索摩达塔之子。
7.108.5
स तान्प्रति महाराज पञ्च चिक्षेप सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥ ७.१०८.५ ॥
大王啊,他向他们射出五支箭,这位名声远扬的人以每人一支箭射中其心脏。
7.108.6
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥ ७.१०८.६ ॥
那五位兄弟被这位大德者的箭所伤,便在战场上将英雄团团围住,以箭猛烈地射击他。
7.108.7
अर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥ ७.१०८.७ ॥
阿周那愤怒地以四支锐利的箭,将他的马送往阎摩的住所。
7.108.8
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ ७.१०८.८ ॥
毗摩先那之子斩断了大心的苏摩达蒂之弓,猛烈地吼叫,并以锐利的箭射穿了他。
7.108.9
यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत् ।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत् ॥ ७.१०८.९ ॥
坚战之子斩断他的旗帜,使其坠落于地;随后无种之子将御者从车座上拖走。
7.108.10
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥ ७.१०८.१० ॥
偕天之子知道他已被诸兄所挫,王啊,以刀刃箭斩下了这位大心者的头颅。
7.108.11
तच्छिरो न्यपतद्भूतौ तपनीयविभूषितम् ।
अभासयद्रुणोद्देशं बालसूर्यसमप्रभम् ॥ ७.१०८.११ ॥
那颗饰以黄金的头颅坠落于地,照亮了战场,犹如初升的太阳。
7.108.12
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥ ७.१०८.१२ ॥
王啊,看见大心的苏摩达蒂之头坠落,你的士兵惊惧不已,四散奔逃。
7.108.13
अलम्बुसस्तु समरे भीमसेनं महाबलम् ।
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥ ७.१०८.१३ ॥
在战斗中,愤怒的阿兰布沙与大力的毗摩森那交战,犹如罗波尼与罗希曼那交战一般。
7.108.14
सम्प्रयुद्धौ रमे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम् ॥ ७.१०८.१४ ॥
见此二人——一为人、一为罗刹——相互激战,一切众生皆感惊异,并生起极大的恐惧。
7.108.15
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥ ७.१०८.१५ ॥
于是,大王,毗摩含笑以九支锐利的箭射穿了愤怒的罗刹王阿尔希耶什林吉。
7.108.16
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥ ७.१०८.१६ ॥
那被箭射中的罗刹发出令人恐惧的吼声,冲向毗摩;他的随从也同样冲上前去。
7.108.17
स भीमं पञ्छभिर्विद्व्वा शरैः सन्नतपर्वभिः ।
भैमान्परिजघानाशु रथांस्त्रिशतमाहवे।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥ ७.१०८.१७ ॥
他以五支箭射中毗摩,迅速在战斗中摧毁了毗摩的三百辆战车;随后又杀死四百辆,以一箭再次射中毗摩。
7.108.18
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः ।
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः ॥ ७.१०८.१८ ॥
大力的毗摩被罗刹如此重创,为昏迷所笼罩,坐倒在战车的座位上。
7.108.19
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः ।
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥ ७.१०८.१९ ॥
随后恢复知觉、被愤怒所困的风之子拉开那张可怕而卓越的弓,以利箭从四面八方攻击阿兰布沙。
7.108.20
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः ॥ ७.१०८.२० ॥
身中许多箭矢,他宛如一堆蓝色的黛膏;大王啊,他四面闪耀,犹如盛开的金雀花树。
7.108.21
स वध्यमानः समरे भीमचापच्युतैः शरैः ।
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना।
घोरं रूपमथो कृत्वा भीमसेनमभाषत ॥ ७.१०८.२१ ॥
在战斗中被毗摩之弓射出的箭所伤,又想起伟大的般度之子杀死了自己的兄弟,他便现出可怕的形象,对毗摩森那说道。
7.108.22
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ।
बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली। ॥ ७.१०८.२२ ॥
普利塔之子啊,现在就站在战场上吧,今日看看我的勇力。愚蠢之人啊,我是名叫跋迦的、最强大的罗刹之首。
7.108.23
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया ॥ ७.१०८.२३ ॥
你杀死我兄弟的那件事,并非发生在我的眼前。
7.108.24
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा ।
महता शरवर्षेण भृशं तं समवाकिरत् ॥ ७.१०८.२४ ॥
说完这些,他便从毗摩面前隐身消失,随即以大量箭雨将他完全遮蔽。
7.108.25
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥ ७.१०८.२५ ॥
大王啊,那时在战斗中,毗摩用节尖弯曲的箭充满天空,射向那看不见的罗刹。
7.108.26
स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥ ७.१०८.२६ ॥
他被毗摩击中,瞬间登上战车走向大地;那卑劣的罗刹随即忽然升入天空。
7.108.27
उच्चावचानि रूपाणि चकार सुबहूनि च ।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥ ७.१०८.२७ ॥
他变幻出许多形态,或高或低:时而微小,时而巨大,接着又庞大如山,宛如云团发出轰鸣。
7.108.28
निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः ।
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः ॥ ७.१०८.२८ ॥
天空中坠下成千上万道箭雨,还有长矛、棍棒、短枪、戟、三叉戟、剑和投枪。
7.108.29
शतघ्न्यः परिघाश्चैव भिण्डिपालाः परश्वथाः ।
शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह ॥ ७.१०८.२९ ॥
百杀器、铁杵、投石索、战斧、石块、剑、棍棒、长矛和金刚杵也纷纷落下。
7.108.30
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा ।
जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि ॥ ७.१०८.३० ॥
罗刹降下的这场极其可怖的兵器暴雨,在战阵前列击杀了般度之子的士兵。
7.108.31
उच्चावचास्तथा वाचो व्याजहार समन्ततः ।
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः ॥ ७.१०८.३१ ॥
他从四面八方发出各种各样的呼声,因此般度之子军中的象群在战场上被杀。
7.108.32
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥ ७.१०८.३२ ॥
大王啊,许多马匹和步兵,以及从战车上的车战士,被他的箭射中而倒下。
7.108.33
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥ ७.१०८.३३ ॥
血流成河,战车如漩涡,满是象群般的鳄鱼,伞盖如天鹅,泥泞不堪,遍布臂膀化作的蛇。
7.108.34
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥ ७.१०८.३४ ॥
他使一条充满罗刹大军的河流奔涌而出,大王啊,它以种种方式冲走了车底、般遮罗与苏陵阇。
7.108.35
तं तथा समरे राजन्विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥ ७.१०८.३५ ॥
大王啊,般度之子们见他在战场上无所畏惧地穿梭,甚为惊惶,并目睹了他的勇武。
7.108.36
तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः ॥ ७.१०८.३६ ॥
您的军中生起欢喜,乐器发出巨大、猛烈、令人毛骨悚然的鸣响。
7.108.37
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ ७.१०८.३७ ॥
般度之子听到你军那可怕的吼声,无法忍受,正如大象不能忍受拍掌的声音。
7.108.38
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥ ७.१०८.३८ ॥
于是,他怒目通红,犹如焚烧一切的火焰,将特瓦什特里之箭搭上弓弦;他自己就如同特瓦什特里,如同风之子。
7.108.39
ततः शरसहस्राणि प्रादुरासन्समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥ ७.१०८.३९ ॥
于是四面八方出现了成千上万的箭,你军因这些箭而大乱溃散。
7.108.40
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥ ७.१०८.४० ॥
那件由毗摩森那在战斗中发出的武器,摧毁了罗刹的大幻术,并折磨了这罗刹。
7.108.41
स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥ ७.१०८.४१ ॥
那罗刹被毗摩森那多方打击,便在战斗中舍弃毗摩,逃向德罗纳的军队。
7.108.42
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम् ॥ ७.१०८.४२ ॥
大王啊,当那位罗刹王被这位伟大的英雄战胜后,般度之子们以狮吼之声震响四方。
7.108.43
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।
प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः ॥ ७.१०८.४३ ॥
他们欢欣鼓舞地也礼敬了大力的风子(毗摩),正如阿修罗敬仰普拉赫拉达,摩录多众敬仰因陀罗。