摩诃婆罗多 · 章 7.113
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.113.1
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया ।
धर्मराजो महाराज स्वेनानीकेन संवृतः।
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः ॥ ७.११३.१ ॥
大王,当你的军队怀着与尤尤陀那作战的意愿前进时,法王被自己的部队环绕,想要从尤尤陀那的后方到达德罗纳的战车,于是向前进发。
7.113.2
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः ।
प्रयाते माधवे राजन्निदं वचनमब्रवीत् ॥ ७.११३.२ ॥
此时,般遮罗王之子沉醉于战斗之狂,待摩陀婆离去后,大王啊,说出了这番话。
7.113.3
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ।
आगच्छत प्रहरत द्रुतं विपरिधावत ॥ ७.११३.३ ॥
在般度军中,国王婆苏陀那大声呼喊:来!打!快跑,四面冲杀!
7.113.4
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ।
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये ॥ ७.११३.४ ॥
使好战而陶醉的萨蒂亚基能顺利前行,因为众多大车战士将努力击败他。
7.113.5
सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः ।
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः ॥ ७.११३.५ ॥
般度之子听到统帅的话,大王啊,从四面八方向你的军队冲去。
7.113.6
जहि प्रहर गृह्णीहि विध्य विद्रव चाद्रव ।
इति ब्रुवन्तौ वेगेन निपेतुस्ते महारथाः ॥ ७.११३.६ ॥
他们高呼:“杀!打!抓!刺!驱散!冲!”那些大车战士便迅猛地扑了上去。
7.113.7
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ।
बाणशङ्खरवान्कृत्वा विमिश्रान्वाद्यनिस्वनैः ॥ ७.११३.७ ॥
我们渴望反过来战胜他们,便冲向他们,把箭声和螺号声与乐器的轰鸣混在一起。
7.113.8
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः ।
ततः शब्दो महानासीद्युयुधानरथं प्रति ॥ ७.११३.८ ॥
看见优优陀那的战车,你的战士们便冲向它;随后,朝向优优陀那战车升起一片巨大的喧嚣。
7.113.9
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी ।
सात्वतेन महाराज शतधाऽभिव्यशीर्यत ॥ ७.११३.९ ॥
大王啊,你儿子的大军四散奔逃,被萨特瓦塔(萨提亚奇)撕裂成百块。
7.113.10
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः ।
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत् ॥ ७.११३.१० ॥
当那支军队被撕裂之时,希尼之子那位大车战士在前列碾碎了七位大弓箭手英雄。
7.113.11
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान् ।
शरैरनलसङ्काशैर्निन्ये वीरान्यमक्षयम् ॥ ७.११३.११ ॥
然后,王中之王啊,他以如火的箭矢把其他各国之主的英雄送往阎摩的住所。
7.113.12
शतमेकेन विव्याध शतेनैकं च पत्रिणाम् ।
द्विपारोहान्द्विपांश्चैव हयारोहान्हयांस्तथा।
रथिनः साश्वसूतांश्च जघानेशः पशूनिव ॥ ७.११३.१२ ॥
他以百箭射一人,以一箭射百人。那位主帅击倒象骑兵与象、马骑兵与马,以及连同马匹和御者的车战士,如同宰杀牲畜一般。
7.113.13
तं तथाऽद्भुतकर्माणं शरसम्पातवर्षिणम् ।
न केचनाभ्यधावन्वै सात्यकिं तव सैनिकाः ॥ ७.११३.१३ ॥
面对那位行事非凡、箭如雨下的英雄,你的士兵中没有一人冲向萨谛奇。
7.113.14
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना ।
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम् ॥ ७.११३.१४ ॥
那些英雄们惊恐不安、被长臂者击溃打倒,看到那位极度傲慢的人,便弃了战场。
7.113.15
तमेकं बहुधा पश्यन्मोहितास्तस्य तेजसा ॥ ७.११३.१५ ॥
他本是一人,却在他们眼中显现为多种形象,他们因其光辉而迷惑。
7.113.16
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष ।
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः ॥ ७.११३.१६ ॥
尊贵的君主啊,被摧毁的战车、座位破碎的车、被压碎的车轮、伞盖和被打倒的旗帜遍布战场。
7.113.17
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः ।
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते ॥ ७.११३.१७ ॥
还有皮带、旗帜、金色头盔、涂满檀香的手臂和臂环,哦人民之主,战场被填满了。
7.113.18
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः ।
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप ॥ ७.११३.१८ ॥
以如象鼻、如蛇盘的大腿,人间的大地被覆盖了,哦人主。
7.113.19
शशाङ्कुसन्निभैश्चैव वदनैश्चारुकुण्डलैः ।
पतितैर्ऋषभाक्षाणां बभौ भारत मेदिनी ॥ ७.११३.१९ ॥
月亮般的面容、精美耳环的牛眼勇士倒伏于地,婆罗多啊,大地因此而闪耀。
7.113.20
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ।
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥ ७.११३.२० ॥
被斩成多段、如山般横卧的大象,使大地异常耀眼,仿佛散布着零落的山峦。
7.113.21
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः ।
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः।
गतसत्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥ ७.११३.२१ ॥
马匹披着金制的挽具,饰有珍珠网和色彩斑斓的胸甲,闪闪发光;失去生命,被长臂者击倒,它们已倒在地上。
7.113.22
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः ।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ ७.११३.२२ ॥
杀尽你的各类军队之后,萨特瓦塔(萨提亚奇)进入了你的军中,将这支部队彻底击溃。
7.113.23
ततस्तेनैव मार्गेण येन यातो धनञ्जयः ।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ ७.११३.२३ ॥
于是萨提亚奇想沿着达那达耶走过的那条路前进,但德罗纳阻止了他。
7.113.24
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः ।
न न्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ॥ ७.११३.२४ ॥
萨提亚奇(尤尤陀那)接近婆罗堕惹(德罗纳),怒气冲冲,却没有转身,正如水库不会离开它的岸边。
7.113.25
निवार्य तु रणे द्रोणो युयुधानं महारथम् ।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥ ७.११३.२५ ॥
在战场上,德罗纳拦住了大车将尤尤陀那,并以五支锐利的箭射穿了他的要害。
7.113.26
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः ।
हेमपुङ्घैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ ७.११३.२६ ॥
大王,在战场上,萨提亚基以七支箭射中德罗纳,箭羽为金色,经过磨石打磨,并饰以鹤羽与孔雀羽。
7.113.27
षं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् ।
स तं न ममृषे द्रोणं युयुधानो महारथः ॥ ७.११३.२७ ॥
……德罗纳以六支箭连同马匹伤害了御者;大车将尤尤陀那无法忍受。
7.113.28
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः ।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥ ७.११३.२८ ॥
于是萨提亚基发出狮子般的吼声,以十支箭射中德罗纳,又以另外的六支与八支箭射之。
7.113.29
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः ।
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्।
ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥ ७.११३.२९ ॥
尤尤陀那再次以十支箭射中德罗纳;一支射中他的御者,四支射中四匹马,一支箭射中旗帜——哦尊者,他在战斗中如此行事。
7.113.30
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः ।
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥ ७.११३.३० ॥
德罗纳迅速以疾箭遮蔽了那位御者、马匹与车旗,犹如蝗群遮蔽大地。
7.113.31
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ।
प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः ॥ ७.११३.३१ ॥
同样,尤尤陀那毫不慌乱、疾速前进,以众多迅捷的箭矢遮蔽了德罗纳,这位大车战士。
7.113.32
द्रोणस्तु परमक्रुद्धः सात्यकिं परवीरहा ।
अवाक्रिच्छितैर्बाणैर्वासुदेवपराक्रमम् ॥ ७.११३.३२ ॥
德罗纳极其愤怒,这位斩杀敌方英雄者,向瓦苏提瓦的勇猛追随者萨提亚基倾泻下五彩的箭矢。
7.113.33
तं तथा शरजालेन प्रच्छाद्य महता पुनः ।
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत् ॥ ७.११३.३३ ॥
德罗纳再次以大量箭网将他遮蔽,然后笑着对尸尼之后裔萨提亚基说出了这番话。
7.113.34
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा ।
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत ॥ ७.११३.३४ ॥
你的师父放弃战斗,像懦夫一样离去;他丢下正在奋战的我,绕行而去。
7.113.35
त्वं हि मे युध्यतो नाद्य जीवन्यास्यसि माधव ।
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ ७.११३.३५ ॥
摩陀婆啊!你若不像师父那样快快离去,丢下正在与你作战的我,今日你将无法活着离开。
7.113.36
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् ।
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ ७.११३.३६ ॥
奉法王之命,我沿着达那闍耶的道路前行。婆罗门啊,愿你平安;愿我不致耽误时间。
7.113.37
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा ।
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः ॥ ७.११३.३७ ॥
老师所走的道路,弟子总是跟随;因此我迅速沿着我的老师所走的路前行。
7.113.38
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ।
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥ ७.११३.३८ ॥
说完这番话,舍尼耶离开了老师,突然出发;大王啊,他对御者说了这些话。
7.113.39
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ।
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥ ७.११३.३९ ॥
德罗纳会竭尽全力阻拦我。御者啊,小心地驶入战场,并听这句至高之言。
7.113.40
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् ।
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम् ॥ ७.११३.४० ॥
这里可见阿槃提人的大光辉之军;紧接其后的是这南方的大军。
7.113.41
तदनन्तरमेतच्च बाह्लिकानां महद्बलम् ।
बाह्लिकाभ्याशतो युक्तं कर्णस्य च महद्बलम् ॥ ७.११३.४१ ॥
其次是这巴赫利卡人的大军;在巴赫利卡人附近,还有相连的迦尔纳大军。
7.113.42
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे ।
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥ ७.११३.४२ ॥
御者啊,这些军队看似彼此分散,但彼此依靠,他们不会离开战场。
7.113.43
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् ।
मध्यमं जवमास्थाय वह मामत्र सारथे ॥ ७.११३.४३ ॥
到达此间隙,像欢喜一样驱策马匹;采取中等速度,御者啊,把我带到这里。
7.113.44
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः ।
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥ ७.११३.४४ ॥
在那里可以看到手持各种兵器的巴赫利迦人,以及许多南方人,由御者之子(迦尔纳)率领。
7.113.45
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते ।
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥ ७.११३.४५ ॥
所见的那支军队,挤满了象、马和战车,并由来自各地的步兵所守卫。
7.113.46
ततः शक्यो महाव्यूहो भेत्तुं स सहसा रणे ।
तं देशं त्वरिता यामो मृद्ग्रन्तो युधि शात्रवान् ॥ ७.११३.४६ ॥
那时,便可在战斗中突然冲破那大阵。让我们急速赶往那个地方,在战斗中碾碎敌人。
7.113.47
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः ॥ ७.११३.४७ ॥
那里的这些人因极为欢喜,不想与我们交战。
7.113.48
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम् ।
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम् ॥ ७.११३.४८ ॥
不与众人交战,遇到一个极弱的人,在所有弓箭手注视之下,我碾碎那支军队前进。
7.113.49
मध्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम् ।
यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः।
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम् ॥ ७.११३.४९ ॥
从中间前行,去往迦尔纳那强大而凶猛的大军之处,那里是这些极度愤怒的南方大战车武士。在战斗中击败他们之后,我们再去找达难阇耶。
7.113.50
युयुधानवचः श्रुत्वा युयुधानस्य सारथिः ।
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे ॥ ७.११३.५० ॥
国王啊,尤尤丹那的车夫听了尤尤丹那的话,便照所说的去了,在战斗中避开德罗纳。
7.113.51
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् ।
युयुधानं महाभागं गच्छन्तमनिवर्तिनम् ॥ ७.११३.५१ ॥
德罗纳愤怒地追赶他,一路射出许多箭,追赶大福的尤尤丹那,他前进而不回头。
7.113.52
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत् ।
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः ॥ ७.११३.५२ ॥
他刺穿了大军,也刺穿了那南方的军队,并以锐利的箭击溃了迦尔纳极大的军队,然后前进。
7.113.53
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ।
सात्यको हि ततः सैन्यं द्रावयन्स समन्ततः ॥ ७.११३.५३ ॥
萨提亚基进入了无边的婆罗多大军;然后萨提亚基从四面八方驱散军队,继续前进。
7.113.54
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ।
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥ ७.११३.५४ ॥
尤尤丹那进入,士兵逃散,但愤怒的克里塔瓦尔曼包围了萨提亚基。
7.113.55
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः ।
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥ ७.११३.५५ ॥
勇猛的萨提奇以六支箭射中冲来的敌人,随即用四支箭迅速射杀了他的四匹马。
7.113.56
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ।
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥ ७.११३.५६ ॥
随后萨提奇又以十六支带弯曲节的疾箭,射穿了克里塔瓦尔曼的胸膛中央。
7.113.57
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ।
सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ ७.११३.५७ ॥
大王啊,被萨特瓦塔萨提奇那许多锐利的箭所射中,克里塔瓦尔曼无法忍受。
7.113.58
स वत्सन्दतं सन्धाय तिग्मांश्वनलसप्रभम् ।
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥ ७.११३.५८ ॥
大王啊,他搭上一支“犊牙”箭,将一支如火般闪耀的利箭拉至耳边,射中了萨提奇的胸膛。
7.113.59
स तस्य देहावरणं भित्त्वा देहं च सायकः ।
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः ॥ ७.११३.५९ ॥
那支箭穿透了他的护甲,又刺入身体,连同箭杆与羽翎,沾满鲜血,没入了大地。
7.113.60
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् ।
स मार्गणगणं राजन्कृतवर्मा शरासनम् ॥ ७.११३.६० ॥
大王啊,于是精通至上神兵的克里塔瓦尔曼以许多箭斩断了他的弓。
7.113.61
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् ।
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥ ७.११३.६१ ॥
大王啊,他在战斗中怒火中烧,以十支利箭射穿了真勇的萨提亚基的胸膛。
7.113.62
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः ।
जघान दक्षिणं बहुं सात्यकिः कृतवर्मणः ॥ ७.११३.६२ ॥
此时他的弓被折断,强者中的至尊萨提亚基以长矛击中了克里塔瓦尔曼的右臂。
7.113.63
ततोऽन्यत्सुदृढं चापं पूर्णमायम्य सात्यकिः ।
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥ ७.११३.६३ ॥
于是萨提亚基拉满另一张极其坚固的弓,迅速射出了成百上千支箭。
7.113.64
सरथं कृतवर्माणं समन्तात्पर्यवारयत् ।
छादयित्वा रणे राजन्हार्दिक्यं स तु सात्यकिः।
अथास्य भल्लेन शिरः सारथेः समकृन्तत ॥ ७.११३.६४ ॥
他从各个方向包围了连同战车的克里塔瓦尔曼。大王啊,他在战斗中以箭雨遮蔽了希尔迪卡之子,随后用一支婆罗箭齐齐斩断了其御者的头颅。
7.113.65
स पपात हतः सूतो हार्दिक्यस्य महारथात् ।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम् ॥ ७.११३.६५ ॥
御者被杀,从希尔迪卡之子的大战车上坠落。随后,失去御者的那些马狂奔而逃。
7.113.66
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगामन्स्वयम् ।
तस्थौ वीरो धनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥ ७.११३.६६ ॥
随后,波遮惊慌,亲自勒住了马匹,手持弓箭站立,那位英雄受到了双方军队的敬重。
7.113.67
स मुहूर्तमिवाश्वास्य सदश्वान्समनोदयत् ।
व्यपेत भीरमित्राणामावहत्सुमहद्भयम् ॥ ७.११३.६७ ॥
他稍事喘息之后,便驱策良马,使怯懦的盟友们充满巨大的恐惧。
7.113.68
सात्यकिश्चात्यगात्तस्मात्स तु भीममुपाद्रवत् ॥ ७.११३.६८ ॥
萨提吉越过那里,冲向婆罗多族的毗摩。
7.113.69
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः ।
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम् ॥ ७.११३.६९ ॥
王中之王啊,尤尤陀那也从波阇军中冲出,迅速奔向甘波遮人的庞大军队。
7.113.70
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः ।
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥ ७.११३.७० ॥
王啊,他在那里被众多英勇的大车战士包围,但真正勇武的萨提吉当时并未动摇。
7.113.71
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च ।
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया ॥ ७.११३.७१ ॥
德罗纳布好军阵,将重任托付给波阇人,然后怀着求战之心,准备就绪,冲向尤尤陀那。
7.113.72
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः ।
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये ब्रृहत्तमाः।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ॥ ७.११३.७२ ॥
就这样,他从后面追赶尤尤陀那,而欢欣鼓舞的般度军大车战士们并没有阻拦他。随后他们靠近了车手中最杰出的心地之子(光明黛)的战车。
7.113.73
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ।
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥ ७.११३.७३ ॥
大王啊,以怖军为首的般遮罗人失去了锐气,被英雄流寿所阻拦。
7.113.74
यतमानांश्च तान्सर्वानीषद्विगतचेतसः ।
अभितस्ताञ्शरौघेण क्लान्तवाहानकारयत् ॥ ७.११३.७४ ॥
对于所有奋力而战、心神略乱的人,他从四面以箭雨使他们的马匹疲惫不堪。
7.113.75
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे ।
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः।
हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम् ॥ ७.११३.७५ ॥
被波阇所阻,想要冲向波阇军队的勇士们在战场上如高贵者般屹立,渴望大名;虽在战斗中奋力,却无法正视希尔迪基亚。