摩诃婆罗多 · 章 7.181
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.181.1
तस्मिन्हते महामाये महातेजसि राक्षसे ।
अमर्षिताः पाण्डवेयाः किमकुर्वन्महारणे ॥ ७.१८१.१ ॥
当那位大幻术、大光辉的罗刹被杀之后,愤怒的般度之子们在那场大战中做了什么?
7.181.2
मर्दिताश्च भृशं युद्धे किमकुर्वन्त सञ्जय ॥ ७.१८१.२ ॥
桑闍耶啊,他们在战斗中遭受重创,又做了什么?
7.181.3
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकं प्रहारिणः ।
सृञ्जयाः सह पाञ्चालैस्तेऽरुर्वन्किं महारणे ॥ ७.१८१.३ ॥
那些与般遮罗人一同冲向排阵之军的德罗纳并攻击他的圣者的桑遮耶人,在那场大战中做了什么?
7.181.4
सौमदत्तिवधाद्द्रोणमायत्तं सैन्धवस्य च ।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ ७.१८१.४ ॥
因索摩达提与信度(胜车)被杀,专注于德罗纳,怀着愤怒舍弃生命、冲入军中的人们——
7.181.5
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।
कथं प्रत्युद्ययुर्द्रोणमजय्यं कुरुसृञ्जयाः ॥ ७.१८१.५ ॥
如同张口打哈欠的老虎,如同张开大口的死神,库鲁人与桑遮耶人如何迎战那位不可战胜的德罗纳?
7.181.6
आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः ।
द्रौणिकर्णकृपास्तात ते ह्यकुर्वन्किमाहवे ॥ ७.१८१.६ ॥
孩子啊,以难敌为首、守护师尊的德罗尼(阿湿婆陀摩)、迦尔纳和克里帕,在战斗中做了什么?
7.181.7
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ ।
आर्च्छतां मामकान्युद्धे कथं सञ्जय शंस मे ॥ ७.१८१.७ ॥
婆罗堕阇(德罗纳)之子欲杀之时,萨维亚萨钦(阿周那)与狼腹(婆罗)如何在战中攻击我的人?桑贾亚,请告诉我。
7.181.8
सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।
अमर्षिताश्च सङ्क्रुद्धा रणं चक्रुः कथं युधि ॥ ७.१८१.८ ॥
因信度王(胜车)与迦托特迦之死而愤怒激昂,你们在战中如何作战?
7.181.9
हैडिम्बिं निहतं दृष्ट्वा विशीर्णमिव पर्वतम् ।
बभूवुः पाण्डवाः सर्वे शोकबाष्पाकुलेक्षणाः ॥ ७.१८१.९ ॥
看见希迪姆巴之子(迦托特迦)如崩裂之山般被杀,般度诸子皆悲痛,双眼被泪水与哀伤所蒙。
7.181.10
वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः ।
ननाद सिंहवन्नादं व्यथयन्निव भारत ॥ ७.१८१.१० ॥
然而婆薮提婆(黑天)因极大喜悦所充满,如狮子般吼叫,仿佛要使众人恐惧,婆罗多啊。
7.181.11
हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान् ।
विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥ ७.१८१.११ ॥
婆薮提婆(黑天)得知迦托特迦已被杀,便发出巨大的吼声,拥抱了法尔古那(阿周那)。
7.181.12
स विनद्य महानादमभीशून्सन्नियम्य च ।
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥ ७.१८१.१२ ॥
他发出巨大的吼声,勒住马缰,充满喜悦地起舞,如同被风吹动的树木。
7.181.13
ततः परिष्वज्य पुनः पार्थमास्फोट्य चासकृत् ।
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः ॥ ७.१८१.१३ ॥
随后,他再次拥抱般特,反复拍手。坐在车厢底板上的智者阿周陀再次发出吼声。
7.181.14
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः ।
अर्जुनोऽथाब्रवीद्राजन्नातिहृष्टमना इव ॥ ७.१८१.१४ ॥
大王,勇猛的阿周那知道婆苏提婆的心意欢喜,便说道,仿佛自己并不十分欢喜。
7.181.15
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।
शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु ॥ ७.१८१.१५ ॥
摩图苏陀那啊,今日你如此大喜不合时宜,因为海迪姆巴之子被杀,悲痛之时已经来临。
7.181.16
विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।
वयं च भृशमुद्विग्ना हेडिम्बेस्तु निपातनात् ॥ ७.१८१.१६ ॥
看到迦陀俱遮被杀,这里的军队已经溃退;而我们也因海迪姆巴之子的倒下而深感不安。
7.181.17
नैतत्कारणमल्पं हि भविष्यति जनार्दन ।
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ ७.१८१.१७ ॥
闍那陀那啊,此因不会微小。所以今日我问你,请如实告诉我,真诚者中的最优者。
7.181.18
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम ।
धैर्यस्य विकृतिं ब्रूहि त्वमद्य मधुसूदन ॥ ७.१८१.१८ ॥
降敌者啊,若此非你的秘密,你应当说出。摩图苏陀那啊,今日请告诉我,你的坚定发生了什么变化。
7.181.19
समुद्रस्येव संशोषं मेरोरिव विसर्पणम् ।
तथैतदद्य मन्येऽहं तव कर्म जनार्दन ॥ ७.१८१.१९ ॥
如同大海干涸、须弥山移动一般,今日我认为你的这一行为也是如此,哦,遮那陀那。
7.181.20
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय ।
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥ ७.१८१.२० ॥
Dhanañjaya啊,请听我说这份刚刚到来的极大喜悦,这是一个至高的消息,能立刻使心意大为欢喜。
7.181.21
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥ ७.१८१.२१ ॥
光辉的Dhanañjaya啊,你要知道,由于Ghaṭotkaca使这支枪落空,卡尔纳已在战场上立即被杀。
7.181.22
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे ॥ ७.१८१.२२ ॥
这个世上有谁能在战场上围绕手持长枪的卡尔纳而立,如同面对室建(Kārttikeya)一般?
7.181.23
दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः ।
दिष्ट्या सा व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे ॥ ७.१८१.२३ ॥
幸运的是他的铠甲被剥去,幸运的是他的耳环被夺走,幸运的是他那不会落空的长枪被白白耗费在Ghaṭotkaca身上。
7.181.24
यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः ।
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्रणे ॥ ७.१८१.२४ ॥
若卡尔纳仍有铠甲与耳环,他一人便能在战场上战胜三界,连同诸神在内。
7.181.25
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥ ७.१८१.२५ ॥
即使是因陀罗、俱毗罗、伐楼那、水主或阎摩,也不敢在战场上与迦尔纳对阵。
7.181.26
गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम् ।
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ ७.१८१.२६ ॥
你执甘狄拔弓,我持苏达尔沙那轮,但我们都无法在战场上战胜他,人中之雄。
7.181.27
त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः ।
विहीनकवचश्चायं कृतः परपुरञ्जयः ॥ ७.१८१.२७ ॥
为了你的利益,因陀罗以幻术夺走了他的耳环,他失去了甲胄,却成为了攻陷敌城的征服者。
7.181.28
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।
प्रादाच्छक्राय वै कर्णस्तस्माद्वैकर्तनः स्मृतः ॥ ७.१८१.२८ ॥
因为迦尔纳割下甲胄,将他明亮的耳环赠予因陀罗,所以他被称为“割甲者”(Vaikartana)。
7.181.29
आशिविष इव क्रुद्वः स्तम्भितो मन्त्रतेजसा ।
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥ ७.१८१.२९ ॥
如同被咒语之力制住的愤怒毒蛇,今日我看迦尔纳,犹如火焰已熄的烈火。
7.181.30
यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना ।
वासवेन महाबाहो क्षिप्ता याऽसौ घटत्कचे ॥ ७.१८१.३० ॥
大臂者啊,自从大德的因陀罗把那支长矛赐给迦尔纳,他便将其投向了乔托迦查。
7.181.31
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ ७.१८१.३१ ॥
失去了耳环和神圣的铠甲,得到了那支枪之后,公牛(迦尔纳)一直认为你已在战场上被杀。
7.181.32
एवं गतोऽपि शक्योऽयं हतुं नान्येन केनचित् ।
ऋते त्वां पुरुषव्याघ्र शपे सत्येन चानघ ॥ ७.१८१.३२ ॥
即便如此,除你之外无人能杀他,人中猛虎。无罪者啊,我以真理发誓。
7.181.33
ब्रह्मण्यः सत्यवादी च सपस्वी नियतव्रतः ।
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥ ७.१८१.३३ ॥
敬奉婆罗门,说话诚实,苦修,持戒坚定,即便对敌人也有慈悲。因此迦尔纳被称为“公牛”(vṛṣā)。
7.181.34
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः ।
केसरीव वने नर्दन्मत्तमातङ्गयूथपान्।
विमर्दन्रथशार्दूलान्राजते रणमूर्धनि… ॥ ७.१८१.३४ ॥
精通战斗,臂力强大,常持弓在手,如林中怒吼的狮子,碾压发狂的象群与虎将般的车战勇士,在战场前列光辉耀眼……
7.181.35
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् ।
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्सभिः ॥ ७.१८१.३५ ॥
他如同正午的太阳,连你的主要勇士也无法直视,人中猛虎啊,在那些盛大的集会之中。
7.181.36
शरजालसहस्रांशुः शरदीव दि… ॥ ७.१८१.३६ ॥
如秋日千光之太阳——他的光芒是千万张箭网,恰如秋天……
7.181.37
तपान्ते जलदो यद्वच्छरधाराः क्षरन्मुहुः ।
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ॥ ७.१८१.३७ ॥
如同夏末的云层一再倾泻水流,迦尔纳——神兵之云,如降雨的帕尔贾尼亚——倾泻着箭的洪流。
7.181.38
त्रिदशैरपि चास्यद्भिः शरवर्षं समन्ततः ।
अशक्यस्तदयं जेतुं स्रवद्भिर्मांसशोणितम् ॥ ७.१८१.३८ ॥
即使诸神从四面八方射下箭雨,也无法战胜他;这是一场流淌着血肉的战斗。
7.181.39
कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव ।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥ ७.१८१.३९ ॥
般度之子啊,他失去了铠甲与耳环,如今已回到人的状态,摆脱了因陀罗所赐之物。
7.181.40
एको हि योगोऽस्य भवेद्वधाय ।
च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्।
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने ।
हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥ ७.१८१.४० ॥
杀他只有一个办法:当他疏忽、露出破绽、战车轮陷入泥中而陷于危难之时。你应先观察他的失神,然后才可杀他。
7.181.41
न ह्युद्यतास्त्रं युधि हन्यादजय्य… ।
मप्येकवीरो बलभित्सवज्रः ॥ ७.१८१.४१ ॥
在战斗中,无人会杀死已举起兵器之人,因为他不可战胜——即便独一英雄、伐罗之因陀罗持金刚杵,也不能(杀他)。
7.181.42
जरासन्धश्चेदिराजो महात्मा ।
महाबाहुश्चैकलव्यो निषादः।
एकैकशो निहताः सर्व एते ।
योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥ ७.१८१.४२ ॥
伽罗桑陀、车底国的伟大之王、大臂的尼沙陀人伊迦罗婆——这些人都被一一杀死。为了你的利益,我正是用种种计谋亲自将他们击倒。
7.181.43
अथापरे निहता राक्षसेन्द्रा ।
हिडिम्बकिर्मीरबकप्रधानाः।
अलायुधः परचक्रावमर्दी ।
घटोत्कचश्चोग्रकर्मा तरस्वी ॥ ७.१८१.४३ ॥
其后其他罗刹王也被杀死:希丁巴、基尔米罗,尤其是首领拔迦;摧毁敌军的阿罗耶陀,以及行事凶猛、勇锐的迦托特迦。