Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.184

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.184.1

कर्णदुर्योधनादीनां शकुनेः सौबलस्य च ।
अपनीतं महत्तात तव चैव विशेषतः ॥ ७.१८४.१ ॥

迦尔纳、难敌等人,以及沙古尼和苏跋罗之子的巨大损失,亲爱的桑闍耶,你尤其清楚。

7.184.2

यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे ।
अनिवार्यामसह्यां च देवैरपि सवासवैः ॥ ७.१८४.२ ॥

如果你知道那股在战斗中总是只杀一人、无可抵挡、连诸天与因陀罗也难以承受的力量。

7.184.3

सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा ।
न देवकीसुते मुक्ता फल्गुने वाऽपि सञ्जय ॥ ७.१८४.३ ॥

桑闍耶,战斗开始之时,迦尔纳为何不将那力量施放在提婆吉之子或菲尔古那身上?

7.184.4

सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशाम्पते ।
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥ ७.१८४.४ ॥

人主啊,俱卢族中最优秀的人,在我们从战场归来的众人之中,夜间产生了这个谋议。

7.184.5

प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा ।
शक्तिरेषा हि मोक्तव्या कर्णकर्णेनि नित्यशः ॥ ७.१८४.५ ॥

明日黎明刚到之时,此力量必须施放于克沙婆或阿周那;应当经常以“迦尔纳-迦尔尼”之名使用。

7.184.6

ततः प्रभातसमये राजन्कर्णस्य दैवतैः ।
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः ॥ ७.१८४.६ ॥

然后,大王啊,在黎明之时,迦尔纳和其他战士的那份判断又被诸神摧毁。

7.184.7

दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया ।
न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥ ७.१८४.७ ॥

我认为天命至高:由于手的姿势,迦尔纳在战斗中既没有击杀帕尔塔,也没有击杀提婆吉之子黑天。

7.184.8

तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता ।
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥ ७.१८४.८ ॥

他手中的长矛高举,如同毁灭之夜;然而因天命所击的心智,迦尔纳没有将它放出。

7.184.9

कृष्णे वा देवकीपुत्रे मोहितो देवमायया ।
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥ ७.१८४.९ ॥

主啊,他被神圣幻术所迷惑,没有为了杀戮而将婆薮之矛投向提婆吉之子黑天,或与因陀罗相等的帕尔塔。

7.184.10

दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च ।
गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥ ७.१८४.१० ॥

你们被天命击倒:凭你们自己的判断和克沙瓦的判断,婆薮之矛杀死了如草芥般的迦托特迦查之后已经离去。

7.184.11

कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः ।
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥ ७.१८४.११ ॥

迦尔纳、我的儿子们以及其他所有国王,因那错误的行为,已前往毗婆薮之域(阎摩之处)。

7.184.12

भूय एव तु मे शंस यथा युद्धमवर्तत ।
कृरूणां पाण्डवानां च हैडिम्बौ निहते तदा ॥ ७.१८४.१२ ॥

请再告诉我:当希迪姆巴之子被杀时,俱卢与般度之间的战斗是如何进行的。

7.184.13

ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः ।
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥ ७.१८४.१३ ॥

那些列阵攻击、冲向德罗纳的斯林遮耶人与潘遮罗人,又是如何作战的?

7.184.14

सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च ।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ ७.१८४.१४ ॥

因索摩达蒂和信度王被杀,怒而舍命、冲入军中而来的德罗纳——

7.184.15

जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥ ७.१८४.१५ ॥

德罗纳如张口的虎、如张口的死神般放箭,般度之子与斯林遮耶人如何迎上前去?

7.184.16

आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः ।
द्रौणिकर्णकृपास्तात ते वाऽकुर्वन्किमाहवे ॥ ७.१८४.१६ ॥

我的孩子,那些以难敌为首守护老师的德罗尼之子、迦尔纳与克里帕,在战斗中做了什么?

7.184.17

भारद्वाजं जिघांसन्तौ सव्यसाचिवृकीदरौ ।
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे ॥ ७.१८४.१७ ॥

桑耶,请告诉我,我方在战斗中如何迎战为杀死婆罗堕阁而来的萨维亚萨钦与狼腹?

7.184.18

सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।
अमर्पिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ॥ ७.१८४.१८ ॥

因信度王与迦陀迦之死而愤恨不平、怒火冲天,他们在夜间如何作战?

7.184.19

हते घटोत्कचे राजन्कर्णेन निशि राक्षसे ।
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ ७.१८४.१९ ॥

大王啊,夜间罗刹瞿陀迦在迦尔纳手下被杀,你那欢欣的战士们咆哮着,渴望战斗。

7.184.20

आपतत्सु च वेगेन वध्यमाने बलेऽपि च ।
विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ ७.१८४.२० ॥

当军队奋力前冲却遭屠杀,夜色已深之时,国王陷入了极大的沮丧。

7.184.21

अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः ।
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ॥ ७.१८४.२१ ॥

大臂者对毗摩森说了这些话:"大臂者啊,阻挡持国之子的军队。"

7.184.22

हैडिम्बेश्चैव घातेन मोहो मामाविशन्महान् ।
एवं भीमं समादिश्य स्वरथे समुपाविशत् ॥ ७.१८४.२२ ॥

因为希迪姆芭之子被杀,巨大的迷惑侵入了我。如此吩咐毗摩之后,他坐在自己的战车上。

7.184.23

अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनःपुनः ।
कश्मलं प्राविशद्धोरं दृष्ट्वा कर्णस्य विक्रमम् ॥ ७.१८४.२३ ॥

国王满面泪水,一次又一次地叹息,看到迦尔纳可怖的勇武,陷入了可怕的昏厥。

7.184.24

तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ॥ ७.१८४.२४ ॥

看到他如此痛苦,黑天说了这些话。

7.184.25

मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ।
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥ ७.१८४.२५ ॥

贡蒂之子啊,不要悲痛,这不适合你。婆罗多族中最优秀的人啊,这样的慌乱只属于凡夫俗子。

7.184.26

उत्तिष्ठ राजन्युध्वस्व वह गुर्वीं धुरं विभो ।
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥ ७.१८४.२६ ॥

起来吧,国王,去战斗;承担这沉重的重担吧,伟大的人。若你陷入慌乱,胜利便会变得不确定。

7.184.27

श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः ।
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥ ७.१८४.२७ ॥

听了克里希那的话,法王坚战用双手擦去眼泪,对克里希那说道。

7.184.28

विदिता मे महाबाहो धर्माणां परमा गतिः ।
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥ ७.१८४.२८ ॥

大臂者啊,我知道诸法的至高归途;不理解自己所作之事的人,便承受杀害婆罗门的果报。

7.184.29

अस्माकं हि वनस्थानां हैडिम्बेन महात्सना ।
बालेनापि सता तेन कृतं साह्यं जनार्दन ॥ ७.१८४.२९ ॥

遮那陀那啊,我们住在森林中时,那位伟大的希迪姆巴之子,虽然还是个孩子,却给予了我们帮助。

7.184.30

अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं स्वेतवाहनम् ।
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ॥ ७.१८४.३० ॥

克里希那啊,那位大弓箭手得知白马的般度之子为求神兵而去,便来到迦摩耶迦林中到我身边。

7.184.31

उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः ।
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः।
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥ ७.१८४.३१ ॥

在持财(阿周那)不与我们同行之时,我们留在香山的朝圣之旅中,正是他将我们从艰险之地救出。疲惫的黑公主被那位高尚者背在背上。

7.184.32

आरम्भांश्चैव युद्धानां यदेष कृतवान्प्रभो ।
मदर्थे दुष्करं कर्म कृतं तेन महाहवे ॥ ७.१८४.३२ ॥

啊主人,他所发起的那些战斗之始,以及他为我在那场大战中所完成的艰难功业。

7.184.33

स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन ।
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥ ७.१८४.३३ ॥

啊生主(克里希那),我天性中对萨诃提婆的爱,在罗刹之王迦托迦此身上则加倍。

7.184.34

भक्तश्च मेहाबाहुः प्रियोऽस्याहं प्रियश्च मे ।
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापिताः ॥ ७.१८४.३४ ॥

他是我的虔诚信徒,臂力强大;我对他亲近,他对我亲近。因此,啊Vṛṣṇi之裔,我被悲伤煎熬,感到一阵昏厥般的痛苦。

7.184.35

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः ।
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ ॥ ७.१८४.३५ ॥

啊Vṛṣṇi之裔,请看那些被俱卢人驱散的军队。也请看德罗纳与迦尔纳这两位大车战士,已在战场上严阵以待。

7.184.36

निशीथे पाण्डवं सैन्यमाभ्यां माधव मर्दितम् ।
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत् ॥ ७.१८४.३६ ॥

啊摩陀婆(克里希那),午夜时分,这两人碾碎了般度军,犹如两头狂象践踏巨大的芦苇丛。

7.184.37

अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव ।
चित्रास्त्रतां च पार्थस्य विक्रमन्ते च कौरवाः ॥ ७.१८४.३७ ॥

摩陀婆啊,无视毗摩森那双臂之力,也不顾般度之子阿周那神奇的武艺,俱卢人正竭力施展威勇。

7.184.38

एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः ।
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ ७.१८४.३८ ॥

看哪,德罗纳、迦尔纳与国王苏约达那,在战斗中杀死罗刹之后,欢喜地在激战中吼叫。

7.184.39

कथं वाऽसमासु जीवत्सु त्वयि चैव जनार्दन ।
हैडिम्बिः प्राप्तवान्मृत्यं सूतपुत्रेण सङ्गतः ॥ ७.१८४.३९ ॥

遮那陀那啊,当你和我们都还活着的时候,希丁巴之子怎会与御者之子相遇而命丧?

7.184.40

कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः ।
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥ ७.१८४.४० ॥

克里希那啊,他们轻视我们所有人,在萨维亚萨钦阿周那注视之下,毗摩森那的大力之子被那罗刹杀死了。

7.184.41

यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः ।
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥ ७.१८४.४१ ॥

克里希那啊,当阿毗曼纽被心怀恶念的持国之子杀害时,大车士萨维亚萨钦并不在那场战斗之中。

7.184.42

निरुद्वाश्च वयं सर्वे सैन्धवेन दुरात्मना ।
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥ ७.१८४.४२ ॥

心怀恶念的信度王(胜车)阻拦了我们所有人;而德罗纳与其子,成为了那件事的起因。

7.184.43

उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् ।
व्यायच्छतश्च खङ्गेन द्विधा खङ्गं चकार ह ॥ ७.१८४.४३ ॥

师尊亲自指示了杀死迦尔纳的方法;当迦尔纳举剑之时,德罗纳将他的剑劈为两段。

7.184.44

व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् ।
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी।
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥ ७.१८४.४४ ॥

对于陷入险境的他,克利塔瓦尔曼残忍地突然杀死了马匹,两名后侧御者也同样被杀;其余大弓手也在战斗中将苏跋德拉之子击倒。

7.184.45

अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना ।
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥ ७.१८४.४५ ॥

克里希纳啊,因为一点小事,执甘狄拔弓者杀死了信度王。雅达瓦中的最优者啊,这对我并不十分可喜。

7.184.46

यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पाण्डवैः ।
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः ॥ ७.१८४.४६ ॥

若般度子孙杀死敌人是正当的,那么依我看,应当首先在战场上杀死迦尔纳和德罗纳。

7.184.47

एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ ।
एतौ रणे समासाद्य समाश्वस्तः सुयोधनः ॥ ७.१८४.४७ ॥

人中之牛啊,这两人确实是我们苦难的根源;在战场上得到这二人之后,苏约达那便安心了。

7.184.48

यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः ।
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥ ७.१८४.४८ ॥

德罗纳和御者之子迦尔纳及其随从本应被杀之处,那位大臂者却杀死了远居的信度王。

7.184.49

अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ।
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ॥ ७.१८४.४९ ॥

我必定要制服这御者之子。故英雄啊,我将亲自前往,欲杀迦尔纳。

7.184.50

भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ॥ ७.१८४.५० ॥

大臂的怖军与德罗纳的军队交战。

7.184.51

एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः ।
स विष्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥ ७.१८४.५१ ॥

说罢,坚战急速前行。他拉开大弓,吹响了可怖的海螺,

7.184.52

ततो रथसहस्रेण गजानां च शतैस्त्रिभिः ।
वाजिभिः पञ्चसाहस्रैः पाञ्चालैः सप्रभद्रकैः।
वृतः शिखण्डी तवरितो राजानं पृष्ठतोऽन्वयात् ॥ ७.१८४.५२ ॥

随后,尸古坛蒂被一千辆战车、三百头象、五千匹马,以及般遮罗人和普罗跋陀罗人所围绕,急速跟随国王从后方前行。

7.184.53

ततो भेरीः समाजघ्नुः पणवानकगोमुखान् ।
शह्खशब्दरवांश्चैव पाणिशब्दांश्च दंशिताः।
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥ ७.१८४.५३ ॥

于是披甲的般遮罗人与般度之子以坚战为首,击响了大鼓、帕那瓦鼓、阿那卡鼓和戈穆卡鼓;海螺声与拍掌声也一并响起。

7.184.54

ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् ॥ ७.१८४.५४ ॥

于是大臂的婆苏提婆对持财者(阿周那)说道。

7.184.55

एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः ।
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥ ७.१८४.५५ ॥

坚战被愤怒所控制,急速前行,想要杀死御者之子。对他置之不理是不恰当的。

7.184.56

एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् ।
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः ॥ ७.१८४.५६ ॥

说完这话,遍知者迅速策马,生主跟随那远去的国王。

7.184.57

तं दृष्ट्वा सहसा यान्तं भूतपुत्रजिघांसया ।
शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना।
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥ ७.१८४.५७ ॥

看到他忽然前行,想要杀死御者之子,他的决心为悲伤所挫,仿佛在火中燃烧,毗耶娑走近,对法之子坚战说道。

7.184.58

कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः ॥ ७.१८४.५८ ॥

在战场上与迦尔纳交战之后,幸而法尔古那(阿周那)仍然活着。

7.184.59

सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ।
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे ॥ ७.१८४.५९ ॥

渴望杀死萨维亚萨钦(阿周那)的他,确实保留了那支投枪;胜利者遮那在那场大战中没有与他单独交战——幸而如此。

7.184.60

सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ।
वध्मानेषु चास्त्रेषु पीडितः सूतनन्दनः ॥ ७.१८४.६० ॥

愿这两位对手以各种方式释放神圣的武器;当武器被击退时,御者之子(迦尔纳)陷入困境。

7.184.61

वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ।
ततो भवेत्ते व्यसनं घोरं भरतसत्तम ॥ ७.१८४.६१ ॥

坚战啊,若你在战场上必定放出因陀罗之矛,那么婆罗多之最,你将遭遇可怕的灾难。

7.184.62

दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ।
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ ॥ ७.१८४.६२ ॥

幸运的是,御者之子在战场上杀死了那个罗刹,赐予荣誉者啊;他借因陀罗之矛为工具,被时间所击倒。

7.184.63

तवैव कारणाद्रक्षो निहतं तात संयुगे ।
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः ॥ ७.१८४.६३ ॥

孩子,正是因为你,那罗刹在战斗中被杀。婆罗多之最啊,不要愤怒,也不要让心沉陷于悲伤。

7.184.64

प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ।
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः ॥ ७.१८४.६४ ॥

坚战啊,这是此世一切众生的终极归宿,即便与兄弟及诸位大德之王同在,亦是如此。

7.184.65

कौरवान्समरे राजन्प्रतियुध्यस्व भारत ।
पञ्चमे दिवसे तात पृथिवी ते भविष्यति ॥ ७.१८४.६५ ॥

大王,婆罗多,你要在战场上与俱卢人作战。孩子,第五天,大地将属于你。

7.184.66

नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय ।
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥ ७.१८४.६६ ॥

人中之虎啊,要时常思念法。般度之子啊,要思念仁慈、苦行、布施、宽恕与真实。

7.184.67

सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः ।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ ७.१८४.६७ ॥

当以至喜之心奉行之:法在何处,胜利便在何处。对般度之子说罢此言,毗耶娑便当场隐没了。