摩诃婆罗多 · 章 7.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.48.1
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥ ७.४८.१ ॥
阿周那再次用拉到耳边的带钩箭射中迦尔纳,并以五十支箭射他,使其极为愤怒。
7.48.2
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।
शरैराचितसर्वाङ्गो बह्वशोभत भारत ॥ ७.४८.२ ॥
罗陀之子迦尔纳以同样多的箭反击,他那布满箭矢的全身光彩夺目,哦,婆罗多。
7.48.3
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् ।
कर्णोऽपि विबभौ शूरः शरैश्छिन्नोऽसृगातप्लुः।
सन्धानुगतपर्यन्तः शरदीव दिवाकरः ॥ ७.४८.३ ॥
他愤怒之下也使迦尔纳血流如注;英雄迦尔纳被箭矢所伤,浑身浴血,箭尖抵至弓弦,光芒如秋日之太阳。
7.48.4
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥ ७.४८.४ ॥
那两位伟大的英雄,身体被箭矢绘满,被血所沾,如同两棵盛开的金苏木树。
7.48.5
अथ कर्णस्य सचिवान्षट् शूरांश्चित्रयोधिनः ।
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥ ७.४८.५ ॥
随后,苏跋陀罗之子(阿毗曼尤)杀死了迦尔纳的六名勇敢的随从、技艺精湛的战士,连同他们的马匹、御者、旗帜和战车。
7.48.6
तथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ॥ ७.४८.६ ॥
同样,他毫不慌乱地以十箭一人还击其他大弓手,这似乎成了奇迹。
7.48.7
मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः ।
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥ ७.४८.७ ॥
他同样杀死了摩揭陀王之子,以六支直箭连同马匹与御者射倒了年轻的马旗。
7.48.8
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।
क्षुरप्रेण समुन्मथ्य ननाद विसृजन्शरान् ॥ ७.४८.८ ॥
随后,他以一支剃刀头箭将马提迦瓦塔与象旗的婆阇完全射倒,一边放箭一边怒吼。
7.48.9
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥ ७.४८.९ ॥
难降之子以四支箭射穿四匹马,以一箭射中御者,并以十箭射中阿周那之子。
7.48.10
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥ ७.४८.१० ॥
随后,黑天之子以七支迅捷之箭射穿难降之子,怒目泛红,高声说出了这番话。
7.48.11
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥ ७.४८.११ ॥
你的父亲放弃了战斗,像懦夫一样离去了。幸运的是,你也懂得作战;但今天你是逃不掉的。
7.48.12
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥ ७.४८.१२ ॥
说完这番话,他向对方射出一支经铁匠磨光的铁箭;但德罗纳之子以三箭将其斩断。
7.48.13
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥ ७.४८.१३ ॥
他斩断了对方的旗帜,以三支箭射中沙利耶。沙利耶则以九支插有秃鹫羽的箭还击。
7.48.14
हृद्यसम्भ्रान्तवद्राजंस्तदद्भुतमिवाभवत् ।
तस्यार्जुनिर्ध्वजं छित्त्वा हत्वोभौ पार्ष्णिसारथी ॥ ७.४८.१४ ॥
大王啊,那情景变得奇异非常,仿佛心中毫无慌乱。阿尔周那之子斩断了他的旗帜,并杀死了他身后的两名御者。
7.48.15
तं विव्याधायसैः षड्भिः सोपाक्रामद्रथान्तरम् ।
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ॥ ७.४८.१५ ॥
他以六支铁箭射穿了对方,并向另一辆战车推进,攻击沙特隆佳耶、旃陀罗Ketu、梅伽婆伽与苏伐尔迦斯。
7.48.16
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ।
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ॥ ७.४८.१६ ॥
他杀死了太阳光与这五人之后,射中了苏跋拉之子(沙恭尼)。苏跋拉之子以三箭射中他,然后对难敌说道。
7.48.17
सर्व एनं विमथ्नीमः पुरैकैकं हिनस्ति नः ।
अथाब्रवीत्पुनर्द्रोणं कर्णो वैकर्तनो रणे ॥ ७.४८.१७ ॥
让我们大家一起消灭他,免得他一个一个地杀死我们。于是在战场上,维卡尔塔那之子迦尔纳又对德罗纳说道。
7.48.18
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधम्माशु नः ।
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ॥ ७.४८.१८ ॥
在他把我们全部碾碎之前,快告诉我们如何杀死他。于是大弓手德罗纳对他们所有人作了回答。
7.48.19
अस्ति वाऽस्यान्तरं किञ्चित्कुमारस्याथ पश्यत ।
अन्वस्य पितरं चाद्य चरतः सर्वतो दिशम् ॥ ७.४८.१९ ॥
这位少年是否有任何破绽?现在看吧:今天他跟随父亲,在四面八方驰骋。
7.48.20
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ।
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ॥ ७.४८.२० ॥
看那人中雄狮、般度之子的迅捷:在战车的道路上,只见他的弓圈。
7.48.21
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ।
आरुजन्नपि मे प्राणान्मोहयन्नपि सायकैः ॥ ७.४८.२१ ॥
他搭上箭矢,迅速射出,甚至摧毁我的生命之气,并以箭矢使我迷惑。
7.48.22
प्रहर्षयति मां भूयः सौभद्रः परवीरहा ।
अतिमानं दधात्येष सौभद्रो विचरन्रणे ॥ ७.४८.२२ ॥
灭敌英雄的苏跋陀罗之子再次使我欢喜;这位在战场上驰骋的苏跋陀罗之子,充满了极大的骄傲。
7.48.23
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ।
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः।
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥ ७.४८.२३ ॥
在这位持甘狄拔弓、手法轻捷、以大箭射向四方的人的战斗中,我看不出任何区别,也看不见任何破绽,即使是愤怒的大车将也无法察觉。
7.48.24
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः ।
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥ ७.४८.२४ ॥
此时,被阿周那之子的箭所射伤的迦尔纳又对德罗纳说:「必须坚守」,因此我站立着,被阿毗曼尤所逼迫。
7.48.25
तेजस्विनः कुमारस्य शराः परमदारुणाः ।
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥ ७.४८.२५ ॥
那位光辉少年的箭极为可怖;如火般炽烈的猛箭,今日刺穿了我的心。
7.48.26
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥ ७.४८.२६ ॥
老师慢慢地对迦尔纳说,仿佛微笑着:他的铠甲坚不可摧,而这位年轻人勇猛迅捷。
7.48.27
उपदिष्टा मया चास्य पितुः कवचधारणा ।
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ॥ ७.४८.२७ ॥
我亲自教过他父亲穿戴铠甲之法;这位征服敌城的人,必定完全了解。
7.48.28
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।
अभीषूंश्च हयांश्चैव तथोभौ पार्ष्णिसारथी ॥ ७.४८.२८ ॥
可以用精准的箭射断他的弓和弦,也可以射断缰绳、马匹,以及他身后的两名御者。
7.48.29
एतत्कुरु महेष्वास राधेय यदि शक्यते ।
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥ ७.४८.२९ ॥
大弓手、罗陀之子啊,若可能,就这样做;然后使他背转,从后面攻击他。
7.48.30
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
पुनः स्थितेन केनापि दुःशको जेतुमार्जुनिः ॥ ७.४८.३० ॥
即使是天神与阿修罗,也无法在他持弓之时战胜他;若你愿意,就使他无车无弓。阿周那之子,只要站立,任何人都难以战胜。
7.48.31
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।
अस्यतो लघुहस्तस्य पृष्ठतो धनुराच्छिनत् ॥ ७.४८.३१ ॥
维卡尔坦之子迦尔纳听到师尊的话后,急速从背后斩断了那位轻手、正在放箭之人的弓。
7.48.32
अश्वानस्यावधीद्दोणो गौतमः पार्ष्णिसारथी ।
शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन् ॥ ७.४८.३२ ॥
德罗纳杀死了他的马和护踵御者;其余人见他已无弓,便以箭雨覆盖了他。
7.48.33
त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥ ७.४८.३३ ॥
在那仓促的时刻,六位大战车武士毫不怜悯地以箭雨覆盖了那位失去战车的少年。
7.48.34
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
खङ्गचर्मधरः श्रीमानुत्पपात विहायसा ॥ ७.४८.३४ ॥
他的弓已被斩断、战车已失,却仍恪守自己的职责;那位光辉的勇士手持剑与盾,跃向空中。
7.48.35
मार्गैः सकौशिकाद्यैश्च लाघवेन बलेन च ।
आर्जुनिर्व्यचरद्य्वोम्नि भृशं वै पक्षिराडिव ॥ ७.४८.३५ ॥
循着憍尸迦等路径,凭借敏捷与力量,阿周那之子在空中大幅盘旋,如同鸟王。
7.48.36
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।
विव्यधुस्तं महेष्वासं समरे छिद्रदर्सिनः ॥ ७.४८.३६ ॥
“他将持剑落在我身上”,如此想着,他们仰头盯住空隙,在战斗中刺穿了那位大弓箭手。
7.48.37
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित् ॥ ७.४८.३७ ॥
光辉赫赫的胜敌者阿毗曼尤急速以刀刃箭射击。
7.48.38
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥ ७.४८.३८ ॥
罗陀之子(迦尔纳)以锐利的箭射碎了上好的盾牌。
7.48.39
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥ ७.४८.३९ ॥
剑与盾皆已断裂,身上插满箭矢,他又从天空落回大地,举起圆盘,愤怒地冲向德罗纳。
7.48.40
स चक्ररेणूकज्ज्वलशोभिताङ्गो ।
बभावतीवोज्ज्वलचक्रपाणिः।
रणेऽभिमन्युः क्षणमास रौद्रः ।
स वासुदेवानुकृतिं प्रकुर्वन् ॥ ७.४८.४० ॥
肢体因车轮的尘土而光彩照人,手持明亮的圆盘,阿毗曼尤在战场上刹那间显得凶猛,仿佛模仿毗湿奴之子(黑天)的形象。
7.48.41
स्रुतरुधिरकृतैकरागवस्त्रो ।
भ्रुकुटिपुटाकुलितोऽतिसिंहनादः।
प्रभुरमितबलो रणेऽभिमन्यु… ।
र्नृपवरमध्यगतो भृशं व्यराजत् ॥ ७.४८.४१ ॥
衣裳被流淌的鲜血染成一片殷红,双眉紧蹙,如狮子般咆哮,力量无量的强大阿毗曼尤……进入诸位最优秀的国王之中,光彩大放。