Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.56.1

सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम ।
एकवीरमशक्यं तममरैरभिवीक्षितुम् ॥ ७.५६.१ ॥

悉闍耶啊,我们听说名叫苏呼特罗的国王已经死去。他是独一无二的英雄,连诸神也无法直视他。

7.56.2

यः प्राप्य राज्यं धर्मेण ऋत्विङ्मन्त्रिपुरोहितान् ।
सम्मान्य चात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः ॥ ७.५६.२ ॥

他依法取得王位,尊敬祭司、大臣和家庭祭师,为了自身的福祉而向他们请教,并依照他们的意见行事。

7.56.3

प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः ।
एतत्सुहोत्रो विज्ञाय धर्म्यमैच्छद्धनागमम् ॥ ७.५६.३ ॥

保护臣民、布施、祭祀、战胜敌人——这就是法。苏呼特罗明白这一点,便希望以法获得财富。

7.56.4

धर्मेणाराधयन्देवान्बाणैः शत्रूञ्जयंस्तथा ।
सर्वाण्यपि च भूतानि स्वगुणैरन्वरञ्जयत् ॥ ७.५६.४ ॥

以法祭拜诸神,以箭战胜敌人,并以自身德行使一切众生欢喜。

7.56.5

यो भुक्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम् ।
यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान् ॥ ७.५६.५ ॥

他统治了这片没有蛮族和林居部落的大地;为他,雨神波遮尼亚连年降下黄金。

7.56.6

हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन्पुरा ।
ग्राहान्कर्कटकांश्चैव मत्स्यांश्च विविधान्बहून् ॥ ७.५६.६ ॥

那里在往昔有金色的河流自由流淌,充满了鳄鱼、螃蟹和各种各样的鱼。

7.56.7

कामान्वर्षति पर्जन्यो रूप्याणि विविधानि च ।
सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसम्मिताः ॥ ७.५६.७ ॥

雨云降下所愿之物与种种银器,还有无量的金制池塘,每座一克罗舍之广。

7.56.8

सहस्रं वामनान्कुब्जान्नक्रान्मकरकच्छपान् ।
सौवर्णान्विहितान्दृष्ट्वा ततोऽस्मयत वै तदा ॥ ७.५६.८ ॥

见到一千个侏儒、驼背、鳄鱼、摩羯与龟,皆以黄金所造,他那时便真正惊叹了。

7.56.9

तत्सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥ ७.५६.९ ॥

那位王仙在库鲁JĀṄGALA举行广大祭祀,认为那无边的黄金应当施与婆罗门。

7.56.10

सोऽश्वमेधसहस्रेण राजसूयशतेन च ।
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः ॥ ७.५६.१० ॥

他举行了千次马祭、百次王祭及功德的刹帝利祭,并施以丰厚而上好的酬谢。

7.56.11

काम्यनैमित्तिकाजस्रैरिष्ट्वेष्टां गतिमाप्तवान् ।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥ ७.५६.११ ॥

他举行了求愿、临时与常规的祭祀,得到了所求的归宿。若他已死,哦,斯林阇耶,他是以比你所说更吉祥四倍的道路而死。

7.56.12

पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.५६.१२ ॥

对你而言,还有比儿子更有功德的人;不要为儿子悲伤。对于不祭祀也不布施的人,人们说:「让他去狗那里吧。」