摩诃婆罗多 · 章 7.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.61.1
दिलीपं चापि राजेन्द्र मृतां सृञ्जय शुश्रुम ।
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः ॥ ७.६१.१ ॥
王中之王桑阇耶啊,我们听说已故的国王迪利波在数百次祭祀中,有成千上万的婆罗门在场。
7.61.2
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः ।
स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः।
यस्य कर्माणि भूरिणि कथयन्ति मनीषिणः ॥ ७.६१.२ ॥
精通祭仪知识与意义的祭祀者,子孙满堂,意愿自由,散发功德的芳香,饮食丰美,佩戴金色花环——智者们讲述他的许多功业。
7.61.3
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥ ७.६१.३ ॥
这片富饶大地的君主,在盛大的祭祀中献祭时,认为这片大地已经布施给了婆罗门。
7.61.4
राजानो वितते यज्ञे उपहारानुपाहरन् ।
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः।
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन् ॥ ७.६१.४ ॥
在盛大的祭祀中,诸王献上供品;在迪利波的祭祀中铺设了一条金色的道路。仿佛法本身在铺设此路,诸神与因陀罗一同聚集而来。
7.61.5
सहस्रं यत्र मातङ्गा अगच्छन्पर्वतोपमाः ।
सौवर्णं चाभवत्सर्वं सदः परमभास्वरम् ॥ ७.६१.५ ॥
那里来了千头如山的大象;整个祭祀大殿都变成了金色,光辉极为灿烂。
7.61.6
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः ।
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः ॥ ७.६१.६ ॥
有汁液之河,有饮食之山;王啊,那些宽达千寻的祭柱都是金制的。
7.61.7
चषालप्रचषालौ च यस्य यूपे हिरण्मयौ ।
नृत्यन्त्यप्सरसो यत्र षट्सहस्राणि सप्त च ॥ ७.६१.७ ॥
在其祭柱上有两只金器查沙罗与普拉查沙罗,那里六千零七位天女起舞。
7.61.8
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीति तम् ॥ ७.६१.८ ॥
在那里,毗首婆苏亲自欢喜地弹奏维纳琴,众生都以为他是为自己而弹。
7.61.9
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते ॥ ७.६१.९ ॥
以rāgakhāṇḍava等美食沉醉,人们躺卧在床榻上。
7.61.10
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः ।
यदप्सु युध्यमानस्य चक्रे न परिपेततुः ॥ ७.६१.१० ॥
我认为这非常奇妙,是其他国王所不及的:他在水中作战时,他的车轮并未倾倒。
7.61.11
राजानं दृढधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गजितो नराः ॥ ७.६१.११ ॥
凡曾见过坚弓、诚实、施舍丰厚的国王迪利波的人,也都已征服了天界。
7.61.12
पञ्च शब्दा न जीर्यन्ति दिलीपस्य निवेशने ।
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत ॥ ७.६१.१२ ॥
在迪利波王的居所里,五种声音从不消歇:诵读吠陀的声音、弓弦的嗡鸣,以及“喝吧、吃吧、嚼吧!”。
7.61.13
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६१.१३ ॥
斯林阇耶啊,若他已死,对你而言他比你的儿子幸运四倍、功德更多;不要为那个儿子悲伤。关于那个未行祭祀、未施布施的人,才这样说。