Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.63.1

ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं जित्वा ससमुद्रां सपर्वताम् ॥ ७.६३.१ ॥

桑闍耶啊,我们听说那位以海洋与山岳征服此大地的那呼沙之子耶亚提已经死去。

7.63.2

शम्याप्रासेन निर्माय वेदीः सन्नतदक्षिणाः ।
ईजानः क्रतुभिः पुण्यैः पर्यगच्छत्प्रदक्षिणम् ॥ ७.६३.२ ॥

他以沙弥亚柱与普拉萨矛建造祭坛,使其南侧倾斜,以功德大礼祭祀,并以右绕行之。

7.63.3

राजसूयशतैरिष्ट्वा सोऽश्वमेधशतेन च ।
पुण्डरीकसहस्रेण वाजपेयशतैस्तथा ॥ ७.६३.३ ॥

他举行了百次拉杰苏耶祭、百次马祠、千次白莲祭和百次胜利祭,

7.63.4

अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः ।
अग्निष्टोमैश्च विविधैः सत्रैश्च प्राज्यदक्षिणैः ॥ ७.६३.४ ॥

以千次阿提拉特拉祭、依其所愿的四月祭、种种火祭,以及施财丰厚的萨特拉祭。

7.63.5

अब्राह्मणानां यद्वित्तं पृथिव्यामस्ति किञ्चन ।
तत्सर्वं परिसङ्ख्याय ततो ब्राह्मणसात्करोत् ॥ ७.६३.५ ॥

大地上凡是非婆罗门所有的财富,他全部清点之后,便将其归于婆罗门。

7.63.6

सरस्वती पुण्यतमा नदीनां ।
तथा समुद्राः सरितः साद्रयश्च।
ईजानाय पुण्यतमाय राज्ञे ।
घृतं पयो दुदुहुर्नाहुषाय ॥ ७.६३.६ ॥

最为神圣的河流萨拉斯瓦蒂,以及海洋、河流与山岳,为这位最有功德的祭主、那呼沙之子国王挤出酥油与乳汁。

7.63.7

व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम् ।
चतुर्धा व्यभजत्सर्वां चतुर्भ्यः पृथिवीमिमाम् ॥ ७.६३.७ ॥

在诸神与阿修罗的战争中,列阵已定,他协助诸神之后,将整个大地分为四部分。

7.63.8

यज्ञैर्नानाविधैरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम् ।
देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः ॥ ७.६३.८ ॥

他以各种祭祀崇拜诸神,生育了优秀的子嗣,依法与乌शナス之女提婆耶尼和舍尔弥希塔同居。

7.63.9

देवारण्येषु सर्वेषु विजहारामरोपमः ।
आत्मनः कामचारेण द्वितीय इव वारावः ॥ ७.६३.९ ॥

他如同神祇,在所有神林中随心游乐,宛如另一位婆罗婆。

7.63.10

यदा नाभ्यगमच्छान्तिं कामानां सर्ववेदवित् ।
ततो गाथामिमां गीत्वा सदारः प्राविशद्वनम् ॥ ७.६३.१० ॥

当这位精通一切吠陀的人在欲望中仍未得安宁时,他便唱了这首偈,携妻子进入森林。

7.63.11

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ ७.६३.११ ॥

大地上的稻谷、大麦、黄金、牲畜与女人,对于一个人来说都是不够的;如此思量,人应当得到平静。

7.63.12

एवं कामान्परित्यज्य ययातिर्धृतिमेत्य च ।
पूरुं राज्ये प्रतिष्ठाप्य प्रयातो वनमीश्वरः ॥ ७.६३.१२ ॥

如此,弃绝欲望、获得坚定之后,耶耶底安置普卢于王位,那位主君便前往森林。

7.63.13

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६३.१३ ॥

斯林阇耶啊,即使一个比你的儿子吉祥四倍、功德更高的儿子死了,你也不要为你的儿子悲伤。有言道:不行祭祀、不施布施之人,必将毁灭。