摩诃婆罗多 · 章 7.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.65.1
शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम ।
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः ॥ ७.६५.१ ॥
悉闍耶啊,我们听说国王舍舍槃度已死;他以种种祭祀供养,光荣而真正勇武。
7.65.2
तस्य भार्यासहस्राणां शतमासीन्महात्मनः ।
एकैकस्यां च भार्यायां सहस्रं तनयाभवन् ॥ ७.६५.२ ॥
此大德之王有数千妃嫔,其中百人;每一妃子生有千子。
7.65.3
ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः ।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः ॥ ७.६५.३ ॥
这些王子皆勇猛,以数十万次祭祀供养,以主要祭礼行祭,精通吠陀之царь。
7.65.4
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ।
सर्वेऽश्वमेधैरीजानाः कुमाराः शाशिबिन्दवाः ॥ ७.६५.४ ॥
他们皆着金甲,皆为上等弓箭手;皆为舍舍槃度之子,曾行马祭。
7.65.5
तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योददत्पिता ।
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः ॥ ७.६५.५ ॥
马祭之时,诸王之王之父将他们施予婆罗门;每人各有百乘战车与象群,每一乘后随其一人。
7.65.6
राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः ।
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः ॥ ७.६५.६ ॥
于是王子身边有以金饰庄严的少女;每一少女配有百象,每一象配有百乘战车。
7.65.7
रथेरथे शतं चाश्वा बलिनो हेममालिनः ।
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः ॥ ७.६५.७ ॥
每辆战车配一百匹佩戴金花环的强壮马匹;每匹马配一千头牛和五十只羊。
7.65.8
एतद्धनमपर्याप्तमश्वमेधे महामस्वे ।
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत ॥ ७.६५.८ ॥
在大马祭中,这些财富并不足够,而大福的舍希频度认为应当将其施予婆罗门。
7.65.9
वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे ।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन् ॥ ७.६५.९ ॥
在大马祭中,木制祭柱有多少,另外多少根也都变成了金色。
7.65.10
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः ।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश ॥ ७.६५.१० ॥
食物、谷物与饮料堆积如山,高达一克罗沙;国王的马祭完成时,尚余十三座这样的山。
7.65.11
तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम् ।
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः ॥ ७.६५.११ ॥
这片充满满足而富足之民、无障碍、无疾病的大地,舍希频度长久享有之后,升往天界。
7.65.12
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६५.१२ ॥
斯润遮耶,若他已死去,对你而言这是四倍的吉祥;对你来说,这比有子更有功德。不要为你的儿子悲伤。对于不祭祀、不施布施之人,人们称之为「舍婆耶」。