Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.84.1

तथा तु वदतां तेषां प्रादुरासीद्धनञ्जयः ।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥ ७.८४.१ ॥

他们正这样谈论时,渴望见到婆罗多最优秀的国王及其众友的达难闍耶出现了。

7.84.2

तं प्रविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्यितम् ।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ ७.८४.२ ॥

他进入吉祥的厅堂,向站在面前的阿周那致敬后,般杜之子中的雄牛起身,满怀爱意地拥抱了他。

7.84.3

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना ।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ ७.८४.३ ॥

他吻其头顶,以臂拥抱,献上至高的祝福,微笑着对他说道。

7.84.4

व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् ।
तादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥ ७.८४.४ ॥

阿周那,你在战斗中的伟大胜利显然已经确定;你的形貌与光辉如此,而生主(克里希那)也很欢喜。

7.84.5

तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ ७.८४.५ ॥

于是胜者(阿周那)对他说道:我见到了源于克舍娑恩典的一件伟大而殊胜的奇迹,愿你安好。

7.84.6

ततस्तत्कथयामास यथादृष्टं धनञ्जयः ।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥ ७.८४.६ ॥

于是达难闍耶如实述说所见,讲述与三眼神(湿婆)相遇之事,以安慰诸位朋友。

7.84.7

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः ।
नमस्कृत्य वृषाङ्काय साधुसाध्वित्यथाब्रुवन् ॥ ७.८४.७ ॥

于是众人惊讶不已,以头触地,向以公牛为旗者礼拜,说道:“善哉,善哉!”

7.84.8

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना ।
त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः ॥ ७.८४.८ ॥

于是,蒙法之子(坚战)允许,众友人急速披甲,欢喜地出发赴战。

7.84.9

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः ।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ ७.८४.९ ॥

向国王致礼之后,猛战、不退(克里希那)与阿周那欢喜地离开了坚战的居所。

7.84.10

रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ ।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ ७.८४.१० ॥

二位难以战胜的英雄——猛战与生主(克里希那)——共乘一辆战车,一同前往阿周那的居所。

7.84.11

तत्र गत्वा हृषीकेशः कल्पयामास शास्त्रवित् ।
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ ७.८४.११ ॥

到了那里,精通论典的希利希克沙为战场上最好的战车作了安排,使之带有猴旗的标志。

7.84.12

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः ।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद्यथा ॥ ७.८४.१२ ॥

那辆雄伟的战车,如云般轰鸣,如炽热黄金般闪耀,装备完毕之后,便如太阳之子一般光芒四射。

7.84.13

ततः पुरुषशार्दूलः सज्जं सर्वं न्यवेदयत् ।
रथं पुरुषसिंहस्य सध्वजं सुपताकिनम् ॥ ७.८४.१३ ॥

于是人中虎向他报告一切已准备就绪:人中狮的战车,带着旗帜和精美的旌旗。

7.84.14

स तु लोकवरः पुंसां किरीटी हेमवर्मभृत् ।
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥ ७.८४.१४ ॥

那位世间人中最优秀的戴冠者,身披金甲,手持弓箭,向马匹右绕而行。

7.84.15

तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥ ७.८४.१५ ॥

在苦行、学识与年迈的长者、精通仪轨而自制的人们以胜利的祝福赞颂之中,他登上了大战车。

7.84.16

जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् ।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ ७.८४.१६ ॥

此前,这辆上等战车已用带来胜利的战争咒语加持,正如光焰的太阳升起。

7.84.17

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः ।
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः। ॥ ७.८४.१७ ॥

那位车手中最优秀的人,站在金色战车上,被金光覆盖,纯净而光耀,如同须弥山上的太阳。

7.84.18

अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ ।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ ७.८४.१८ ॥

游由驮那与生主(克里希纳)随在沛塔身后登车,犹如双阿输昆随神因陀罗前往沙利耶帝的祭祀。

7.84.19

अथ जग्राह गोविन्दो रश्मीन्रश्मिविदांवरः ।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ ७.८४.१९ ॥

于是精通缰绳的至上者戈文达执起缰绳,如同因陀罗的御者摩多梨在出发杀伐弗栗多时执缰一般。

7.84.20

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः ।
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥ ७.८४.२० ॥

与那二人同行,般度之子登上最优良的战车,如月亮与水星、金星同行而驱散黑暗。

7.84.21

सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा ।
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ ७.८४.२१ ॥

欲杀信度王,摧毁敌军的勇士出发了,如因陀罗与水主(伐楼那)的友伴一同征讨塔拉卡。

7.84.22

ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः ।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥ ७.८४.२२ ॥

于是,在乐器的轰鸣与吉祥美妙的颂歌中,歌者(摩嘎陀)赞美那即将出发的英雄阿周那。

7.84.23

सजयाशीः सपुण्याहः सूतमागधनिःस्वनः ।
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ ७.८४.२३ ॥

那声音交织着胜利的祝福、吉祥的宣告、御者与歌者的呼声以及乐器的轰鸣,令他们心生欢喜。

7.84.24

तमनुप्रवणो वायुः पुण्यगन्धवहः शुभः ।
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥ ७.८४.२४ ॥

在他身后吹起一阵吉祥的风,带着功德的芬芳,使般度之子欢喜,也使敌人枯萎。

7.84.25

ततस्तस्मिन्क्षणे राजन्विविधानि शुभानि च ।
प्रादुरासन्निमित्तानि विजयाय बहूनि च ॥ ७.८४.२५ ॥

那时,在那一刻,大王啊,出现了种种吉祥之兆和许多胜利的征兆。

7.84.26

पाण्डवानां त्वदीयानां विपरीतानि मारिष ।
दृष्ट्वाऽर्जुनो निमित्तानि विजयाय प्रदक्षिणम्।
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ ७.८४.२६ ॥

尊者啊,般度五子与你方的征兆是相反的。阿周那见到了胜利的右旋吉兆,便对大弓手犹friends耶那说了这些话。

7.84.27

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः ।
यथाहीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥ ७.८४.२७ ॥

犹friends耶那,今天在战斗中我看到了必定的胜利,因为这些征兆显现了,尸尼族中最杰出者啊。

7.84.28

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः ।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ ७.८४.२८ ॥

我将前往信度王所在之处,他正准备前往阎摩的世界,等待着我的勇力。

7.84.29

यथा परमकं कृत्यं सैन्धवस्य वधो मम ।
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम् ॥ ७.८४.२९ ॥

斩杀信度王是我的至上职责,同样,保护法王也是极其重大的职责。

7.84.30

स त्वमद्य महाबाहो राजानं परिपालय ।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥ ७.८४.३० ॥

因此,大臂者啊,今天你要守护国王,使他得到你的守护,如同他得到我的守护一样。

7.84.31

न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत् ।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥ ७.८४.३१ ॥

我在世上看不到能在战场上击败你的人;即便天神之主亲自前来,也无法在战斗中胜过与瓦苏提婆相当的你。

7.84.32

त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे ।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ ७.८४.३२ ॥

我完全信赖你和大车将普拉丢姆那,便可毫无顾虑地杀死信度王(胜车),人中之牛啊。

7.84.33

मय्यपेक्षा न कर्तव्या गोप्ताऽयं मम केशवः ।
राज्ञ एव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ ७.८४.३३ ॥

不要为我担忧;我的守护者是这位克沙瓦。你应当全心全意地给予国王最高的守护。

7.84.34

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः ।
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ ७.८४.३४ ॥

大臂的瓦苏提婆所在之处,万物都不会受损;而我确定所在之处,也是如此。

7.84.35

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा ।
तथेत्युक्त्वाऽगमत्तत्र यत्र राजा युधिष्ठिरः ॥ ७.८४.३५ ॥

般度之子(阿周那)如此吩咐后,摧毁敌方英雄的萨谛奇说道:“就照你说的办。”便前往国王坚战所在之处。