摩诃婆罗多 · 章 7.87
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.87.1
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः ।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ ७.८७.१ ॥
那夜过去、天色破晓之时,持兵器者中最优秀的德罗纳便前行,要将他所有的军队布成阵列。
7.87.2
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् ।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥ ७.८७.२ ॥
大王啊,咆哮的英雄们满怀愤怒、不能忍耐,彼此都想置对方于死地,各种各样的喊声被人听到。
7.87.3
विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च ।
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥ ७.८७.३ ॥
有人拉响弓弦,有人擦拭弓弦,喘息着呼喊:"那位财主(阿周那)如今在哪里?"
7.87.4
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् ।
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥ ७.८७.४ ॥
有人从鞘中抽出锋利、精心打磨的刀剑,黄色如金,色似天空,有人则挥舞。
7.87.5
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः ।
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥ ७.८७.५ ॥
成千上万的英雄可见,他们受过训练,心志专注于战斗,在剑道与弓道上来回演练。
7.87.6
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः ।
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्। ॥ ७.८७.६ ॥
另一些人高举铃铛悬挂、涂抹檀香、饰以黄金与金刚石的铁锤,向般度之子叫阵。
7.87.7
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥ ७.८७.७ ॥
其他因力量之傲而狂醉、以臂膀自豪的人,以铁棍充满天空,犹如高举的因陀罗旗帜。
7.87.8
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः ।
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः ॥ ७.८७.८ ॥
其他英雄手持各种兵器,佩戴斑斓花环,心志专注于战斗,分散驻守于各处。
7.87.9
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः ।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥ ७.८७.९ ॥
阿周那在哪里?那位哥文达在哪里?骄傲的狼腹(婆罗多)在哪里?那时,你的朋友们正在战场上呼唤他们。
7.87.10
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् ।
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥ ७.८७.१० ॥
于是,德罗纳吹响海螺,亲自催动马匹,迅速往来奔走,将军队布置于各处。
7.87.11
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ ७.८७.११ ॥
大王啊,当所有那些乐于征战的军队都已列阵时,婆罗堕阇(德罗纳)对胜车说道。
7.87.12
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ ७.८७.१२ ॥
你、索摩达多之子、大车将卡尔纳、马嘶、沙利耶、伐哩舍那,以及克里帕,也都如此。
7.87.13
शतं चाश्वसहस्राणां रथानामयुतानि षट् ।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ ७.८७.१३ ॥
十万匹马,六阿尤塔战车,以及十四千头发情的象。
7.87.14
पदातीनां सहस्राणि दंशितान्येकविंशतिः ।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥ ७.८७.१४ ॥
二十一千名披甲步兵。在三个加维尤提之内,不要抵达我这里而停留。
7.87.15
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ ७.८७.१५ ॥
站在那里的你,即便是与因陀罗同在的诸神也无法抵挡;何况所有般杜之子。信安吧,信度之王。
7.87.16
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः ।
सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः।
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः ॥ ७.८७.१६ ॥
信度之王Jayadratha得到如此鼓励与安慰,便与健陀罗人一同出发,被那些大车战士所环绕——披甲的、骑马的、准备就绪的,手持长矛,立于马背之上。
7.87.17
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ।
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥ ७.८७.१७ ॥
皆饰以牦牛尾拂,并以黄金装饰——Jayadratha的马匹,诸王之王啊,奔跑迅疾。
7.87.18
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥ ७.८७.१८ ॥
那些信度人共有一万七千人与三千人。
7.87.19
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः ।
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥ ७.८७.१९ ॥
(以)发情的、完全长成的大象,由熟练的象夫驱使,形貌可怖,披着甲胄,行为残暴。
7.87.20
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥ ७.८७.२० ॥
你的儿子杜尔马尔沙那率领一千五百人,站在所有军队的前面,准备作战。
7.87.21
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥ ७.८७.२१ ॥
随后你的两个儿子杜尚萨那与毗迦尔那,为完成信度王的使命,站在军队的前列。
7.87.22
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः ।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥ ७.८७.२२ ॥
这一阵名为轮车阵,长十二“迦浮提”,后半部宽五“迦浮提”,由婆罗堕遮之子(德罗纳)所布。
7.87.23
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः ।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥ ७.८७.२३ ॥
众多国王和勇士分布于各处,连同车队、马队、象队与步兵,此阵由德罗纳亲自布置。
7.87.24
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः ।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥ ७.८७.२४ ॥
其后半部又布置了名为莲花的胎形阵;位于针莲之内的隐秘阵也再次布置。
7.87.25
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः ।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥ ७.८७.२५ ॥
德罗纳如此布成这大阵,便站定了。针尖处站着大弓手胜军(Kṛtavarman)。
7.87.26
अनन्तरं च काम्भोजो जलसन्धश्च मारिष ।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥ ७.८७.२६ ॥
其次是甘波王与逝网王(Jalasandha),尊者啊,还有难敌与迦尔纳,紧接其后也是如此。
7.87.27
ततः शतसहस्राणि योदानानमनिवर्तिनाम् ।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥ ७.८७.२७ ॥
随后,数十万不退缩的战士全部布置在车阵中,守护阵前。
7.87.28
तेषां च पृष्ठतो राजा बलेन महता वृतः ।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥ ७.८७.२८ ॥
他们身后,是被大军环绕的国王;随后,国王胜车(Jayadratha)立于针形阵侧。
7.87.29
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।
नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम् ॥ ७.८७.२९ ॥
王中之王啊,车阵之前站立着婆罗堕遮之子(德罗纳);此处他并无畏惧,于是他亲自守护此处。
7.87.30
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः ।
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः।
तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान् ॥ ७.८७.३० ॥
身披白甲、穿白衣戴白巾的德罗纳,胸膛宽阔,臂膀雄健,拉满弓弦,如同震怒的阎摩立于阵前;他是这支大军的统帅与守护者,威武勇猛。
7.87.31
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् ।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥ ७.८७.३१ ॥
见德罗纳的疾驰战车,赤色马匹,祭坛形状的黑羚羊皮旗帜,俱卢族人心中欢喜。
7.87.32
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् ।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥ ७.८७.३२ ॥
见德罗纳所布的阵势如翻腾的大海,悉陀与遮罗诸众无不大为惊叹。
7.87.33
सशैलसागरवनां नानाजनपदाकुलाम् ।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥ ७.८७.३३ ॥
众生心想,此阵将吞没整个大地,连同其山岳、海洋、森林与诸多国土。
7.87.34
बहुरथमनुजाश्वपत्तिनागं ।
प्रतिभयनिःस्वनमद्भुतानुरूपम्।
अहितहृदयभेदनं महद्वै ।
शकटमवेक्ष्य कृतं ननन्द राजा ॥ ७.८७.३४ ॥
国王见此大车阵,满布众多战车、士卒、马匹、步兵与象群,声响可怖,奇妙非常,能刺穿敌人之心,因而欢喜。