摩诃婆罗多 · 章 8.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.3.1
आख्याता मामकास्तात निहता युधि पाण्डवैः ।
हतांश्च पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥ ८.३.१ ॥
亲爱的桑闍耶,你说我方之人被般度子在战场上杀害。现在请告诉我,般度子一方被我方之人所杀者。
8.3.2
कृतिनो युधि विक्रान्ता महासत्वा महाबलाः ।
सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः ॥ ८.३.२ ॥
在战场上善战勇猛、大心力强的大力者们,连同他们的亲族与大臣,都被恒河之子毗湿摩击倒。
8.3.3
नारायणा वल्लवाश्च रामाश्च शतशो परे ।
अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः ॥ ८.३.३ ॥
那罗延族、伐罗婆族、罗摩族及其他成百之人,皆归附英雄毗湿摩,在战场上被毗湿摩击倒。
8.3.4
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च ।
सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि ॥ ८.३.४ ॥
在战斗中与戴冠者(阿周那)相等、勇力与力量相当的萨蒂亚吉特,被誓言真实的德罗纳在战场上杀死。
8.3.5
पाञ्चालानां महेष्वासाः सर्वे युद्वविशारदाः ।
द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम् ॥ ८.३.५ ॥
般遮罗的诸位大弓手,皆精通战阵,与德罗纳交锋后,前往毗婆娑婆(阎摩)之域。
8.3.6
तथा विराटद्रुपदौ वृद्वौ सहसुतौ नृपौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥ ८.३.६ ॥
同样,年迈的国王毗罗吒与德鲁帕达,与其子一同,为友人英勇作战,在战场上被德罗纳所杀。
8.3.7
यो बाल एव समरे सम्मितः सव्यसाचिना ।
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥ ८.३.७ ॥
那位少年在战场上与萨维亚萨钦(阿周那)相当,连克沙婆(黑天)和巴拉罗摩也难以战胜。
8.3.8
परेषां कदनं कृत्वा महद्रणविशारदः ।
परिवार्य मदामात्रैः षड्भिः परमकै रथैः।
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥ ८.३.८ ॥
他在敌人中造成巨大杀戮,精通战争,却被六辆优良战车与醉象御者所包围;那些无法抵挡毗婆蹉(阿周那)的人,使阿毗曼尤被击倒。
8.3.9
कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ।
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥ ८.३.९ ॥
大王啊,杜沙萨纳之子在战场上杀死了苏婆陀罗之子,那位坚守刹帝利之责的英雄,此时已失去战车。
8.3.10
पटच्चरनिहन्ता च महत्या सेनया वृतः ।
अम्बष्ठस्य सुतः श्रीमान्मित्रहेतोः पराक्रमन् ॥ ८.३.१० ॥
诛灭帕塔恰拉的人,被大军包围,阿姆巴斯塔光辉的儿子,为朋友的缘故奋勇作战。
8.3.11
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे ।
सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम् ॥ ८.३.११ ॥
他在战场上接近杜尔约陀那之子英雄罗什曼那,造成巨大杀戮,然后前往毗婆薮的住所(阎摩之地)。
8.3.12
बृहन्तः सुमहेष्वासः कृतास्त्रो युद्वदुर्मदः ।
दुःशासनेन विक्रम्य गमितो यमसादनम् ॥ ८.३.१२ ॥
那位强大的大弓箭手,精通武器,好战而骄傲,被杜沙萨纳以勇力送往阎摩之地。
8.3.13
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ ॥ ८.३.१३ ॥
两位国王摩尼曼与檀达陀罗,在战斗中勇猛无畏,为朋友奋力作战,却在战场上被德罗纳击倒。
8.3.14
अंशुमान्भोजराजस्तु सहसैन्यो महारथः ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ ८.३.१४ ॥
婆誓之王安舒曼,连同他的军队,这位大车将,被婆罗堕阇之子以武力送往阎摩之居。
8.3.15
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत ।
समुद्रसेनेन बलाद्गमितो यमसादनम् ॥ ८.३.१५ ॥
婆罗多的后裔啊,海摩与奇铁那,连同他的儿子,被海军所杀,强行送往阎摩之居。
8.3.16
अनूपवासी नीलश्च व्याध्रदत्तश्च वीर्यवान् ।
अश्वत्थाम्ना विकर्णेन गमितौ यमसादनम् ॥ ८.३.१६ ॥
阿奴波婆悉、尼罗,以及勇猛的虎施,被马嘶与毗迦尔那送往阎摩之居。
8.3.17
चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत् ।
चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे। ॥ ८.३.१७ ॥
奇妙的战士奇蹄,造成了大屠杀,却在战场上被毗迦尔那以勇武的方式杀死。
8.3.18
वृकोदरसमो युद्धे वृतः केकयजो युधि ।
केकयेन च विक्रम्य भ्राता भ्रात्रा निपातितः ॥ ८.३.१८ ॥
与狼腹(怖军)相等的、在战斗中被选出的、生于迦伽族的战士,被他的兄弟迦迦耶在战斗中勇猛地击倒。
8.3.19
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् ।
दुर्मुखेन महाराज तव पुत्रेण पातितः ॥ ८.३.१९ ॥
大王啊,善用钵罗的戈罗之战士、山地英豪、勇猛的遮那夜阇耶,被你的儿子杜尔穆卡击倒。
8.3.20
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ।
द्रौणेन युगपद्राजन्दिवं सम्प्रातितौ शरैः ॥ ८.३.२० ॥
大王啊,两位如同闪耀双星的人中猛虎,被德罗纳之子的箭同时送往天界。
8.3.21
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते ।
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ ८.३.२१ ॥
大王啊,那些奋力反击的勇猛诸王,建立了不易之功,前往阎摩之境。
8.3.22
पुरुजित्कृन्तिभोजश्च मातुलौ सव्यसाचिनः ।
संग्रामनिर्जिताँल्लोकान्गमितौ द्रोणसायकैः ॥ ८.३.२२ ॥
普鲁吉特与昆提博札,即萨维亚萨钦(阿周那)的两位舅父,被德罗纳的箭送往在战斗中征服的世界。
8.3.23
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ।
वसुदानस्य पुत्रेण त्याजितो देहमाहवे ॥ ८.३.२३ ॥
迦尸王阿毗婆,被众多迦尸人围绕,在战斗中被筏苏达那之子夺去了生命。
8.3.24
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ।
निहत्य शतशः सूरानस्मदीयैर्निपातिताः ॥ ८.३.२४ ॥
无量勇、战斗者尤陀摩尤与勇猛的上胜,杀死数百名勇士后,被我方之人击倒。
8.3.25
मित्रवर्मा च पाञ्चाल्यः क्षत्रधर्मा च भारत ।
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥ ८.३.२५ ॥
婆罗多啊,般遮罗的弥多罗跋摩与刹帝达摩,这两位大弓箭手,被德罗纳送往阎摩的住所。
8.3.26
शिखण्डितनयो युद्धे क्षत्रदेवो युधाम्पतिः ।
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥ ८.३.२६ ॥
国王啊,尸根丁之子、战士之主刹帝提婆,在战斗中被你的孙子罗什曼那杀死,婆罗多啊。
8.3.27
सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ ।
प्रचरन्तौ महावीरौ द्रोणेन निहतौ रणे ॥ ८.३.२७ ॥
苏持罗与持甲,父子二人,都是大车战士,在战场上奔驰的大勇士,在战斗中被德罗纳杀死。
8.3.28
वार्धक्षेमिर्महाराज समुद्र इव पर्वणि ।
आयुधक्षयमासाद्य प्रशान्तिं परमां गतः ॥ ८.३.२८ ॥
大王啊,筏陀刹弥如同月圆之日的大海,武器耗尽之后,达到了最高的寂静。
8.3.29
सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान्प्रहरन्युधि ।
बाह्लिकेन महाराज कौरवेन्द्रेण पातितः ॥ ८.३.२९ ॥
大王啊,森那濒豆之子,精通武艺,在战斗中奮勇攻击,被婆利迦,即俱卢之主所击倒。
8.3.30
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८.३.३० ॥
大王啊,车底之中最杰出的战车武士持明,完成了艰难的功业,前往毗婆娑多(阎摩)之域。
8.3.31
तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे ।
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥ ८.३.३१ ॥
同样,英雄萨提亚德里提在战场上大肆杀戮,为般度子孙奋勇作战,被送往阎摩之居。
8.3.32
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः ।
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ॥ ८.३.३२ ॥
希舒波罗之子、大地之主苏刻图在战场上杀死敌人,自己却在战斗中被德罗纳杀死。
8.3.33
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥ ८.३.३३ ॥
同样,英雄萨提亚德里提、强大的摩提罗什伐与勇猛的苏里耶达多都被德罗纳的箭射死。
8.3.34
मात्स्यादवरजः श्रीमाञ्शतानीको निपातितः ।
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८.३.३४ ॥
光荣的舍塔尼迦是摩蹉-耶达瓦的幼弟,被打倒。大王啊,奋战的英勇者舍莱尼曼完成了艰难的功绩,也前往阎摩之居。
8.3.35
तथैव युधि विक्रान्तो मागधः परमास्त्रवित् ।
भीष्मेण निहतो राजञ्शेतेऽद्य परवीरहा ॥ ८.३.३५ ॥
同样,精通至上神兵、勇于作战的摩揭陀王被毗湿摩杀死。大王啊,那位敌方英雄的杀者今日倒卧在地。
8.3.36
विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः ।
कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम् ॥ ८.३.३६ ॥
毗罗吒之子商卡与大车战士乌塔罗,成就了伟大的功业,前往阎摩之居。
8.3.37
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ ८.३.३७ ॥
维苏陀那在战场上大肆杀戮,也被婆罗堕遮之子(德罗纳)英勇地送往阎摩之居所。
8.3.38
एते चान्ये च बहवः पाण्डवानां महारथाः ।
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ ८.३.३८ ॥
这些人以及般度诸子的其他许多大车战士,都被德罗纳英勇杀死——你正是在问我此事。