Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.31.1

दृष्ट्वा कर्ण महावीर्य युयुत्सुं समास्थितम् ।
चुक्रुशुः कुरवः सर्वे हृष्टरुपाः समन्ततः ॥ ८.३१.१ ॥

众俱卢见大勇之迦尔纳立于阵前、渴望战斗,个个面露喜色,四面高声呼喊。

8.31.2

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥ ८.३१.२ ॥

于是,在鼓声如雷、战鼓齐鸣、各种弦乐拨奏之声和勇士们的吼叫之中,你的全部军士出发了,以死亡为誓,决不回头。

8.31.3

प्रयाते तु ततः कर्णे रथेषु मुदितेषु च ।
चचाल च मही सर्वा ररास च सुविस्वरम् ॥ ८.३१.३ ॥

迦尔纳出发之时,战车欢腾,大地为之震动,发出极其响亮的轰鸣。

8.31.4

निः सरतो व्यदृश्यन्त सूर्यात्सप्ता महाग्रहाः ॥ ८.३१.४ ॥

他们出发之时,从太阳中显现出七颗大行星。

8.31.5

उल्कापाताश्च संजज्ञुर्दिग्दाहाश्चैव दारुणाः ।
तथाऽश्न्यश्च संपेतुर्ववुर्वाताश्च भैरवाः ॥ ८.३१.५ ॥

流星陨落,四方出现可怖的火光,雷电降下,狂暴的风呼啸而起。

8.31.6

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
अपसव्यं तदा चक्रुर्वेद्यन्तो महाभयम् ॥ ८.३१.६ ॥

群兽与成群飞鸟也多次从你军的左侧掠过,预示着巨大的恐惧。

8.31.7

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
अस्थिवर्ष च पतितमन्तरिक्षाद्भयानकम् ॥ ८.३१.७ ॥

迦尔纳出发时,他的马匹倒在地上;天上降下了可怕的骨雨。

8.31.8

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
अश्रूणि च् व्यमुञ्चन्त वाहनानि विशांपते ॥ ८.३१.८ ॥

兵器燃烧起来,旗帜颤抖,车辆也流下了泪水,哦,众生之主。

8.31.9

एते चान्ये च बहव उत्पातास्तत्र मारिप ।
समुत्मेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ ८.३१.९ ॥

哦,人类的守护者,这些以及许多其他的凶兆在那里出现,对于考拉瓦的毁灭来说极为可怖。

8.31.10

न च तान्गणयमासुः सर्वे दैवेन मोहिताः ।
प्रस्थितं सूतपुत्रं च जयेत्यूचर्नराधिपाः ॥ ८.३१.१० ॥

众王为天命所惑,未把这些征兆放在心上,在御者之子出发时高呼:“胜利!”

8.31.11

शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् ।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥ ८.३१.११ ॥

看见在战场上光彩夺目的迦尔纳与沙利耶同行,考拉瓦众人便认为般度之子已被征服。

8.31.12

ततो रथस्थः परवीरहन्ता भीष्मद्रोणावतिवीर्यौ समीक्ष्य ।
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥ ८.३१.१२ ॥

于是,站在战车上的迦尔纳——维卡尔塔纳之子,敌方英雄的屠杀者,车兵中的象,人中之牛——望见威力极大的毗湿摩与德罗纳,便闪耀光芒,如同太阳与火焰。

8.31.13

स शल्यमाभाष्य जगाद् वाक्यं पार्थस्य दृष्ट्वाऽप्रतिमं च कर्म ।
मानेन दर्णेण विदह्यमानः क्रोधेन दीप्यन्निव निः श्वसंश्च ॥ ८.३१.१३ ॥

他对沙利耶说了这些话。看到阿周那无与伦比的功绩,他因傲慢与骄矜而燃烧,仿佛因愤怒而炽热,深深叹息。

8.31.14

नाहं महेन्द्रादपि वज्रपाणेः क्रुध्दाद्विभेम्यात्तधनू रथस्यः ।
दृष्ट्वाऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति ॥ ८.३१.१४ ॥

即便是手持金刚杵的因陀罗在愤怒之时,我也不惧怕;我手持弓箭立于战车之上。即便看见以毗湿摩为首的勇士们倒卧在地,我的那份坚定也不曾离我而去。

8.31.15

महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्चनागप्रवरप्रमाथिनौ ।
अवध्यकल्पौ निहतौ यदा परैस्तथापि मे नास्ति रणेऽद्य साध्वसम् ॥ ८.३१.१५ ॥

虽然那些如同因陀罗与毗湿奴一般、无可指摘、能摧毁最上等大象、看似不可杀死的车战勇士已被敌人杀害,然而今日在战场上,我毫无惧意。

8.31.16

समीक्ष्य सङ्ख्येऽतिबलान्नराधिपान् ससूतमातङ्गरथान्परैर्हतान् ।
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्वाह्मणपुङ्गवो गुरुः ॥ ८.३१.१६ ॥

看到极其强大的国王,连同其御者、象与战车,被敌人在战场上杀死,那位精通大神兵的婆罗门中的上首、导师,为何没有在战场上杀尽所有敌人?

8.31.17

स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।
नवो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररुपिणम् ॥ ८.३१.१७ ॥

他追念德罗纳,说道:诸位俱卢人,请听!我在这场大战中说的是实话。除我之外,无人能抵挡已来到战场的阿周那,他如同可怖形貌的死神。

8.31.18

शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥ ८.३१.१८ ॥

德罗纳身上有学识、恩宠、力量、坚毅、大神兵与谦逊。若这位大德已落入死亡之手,我今日认为其余所有人都已陷入痛苦。

8.31.19

नेह ध्रुवं किंचिदपि प्रचिन्तयन् वदामि लोके कर्मणो नित्ययोगात् ।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥ ८.३१.१९ ॥

此处我并非经过思量而确定地说什么,而是出于世间业行的恒常联系而言。今日太阳升起时导师已倒下,谁能无疑地保持心境呢?

8.31.20

न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा ।
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युध्दे निहतः परैर्गुरुः ॥ ८.३१.२० ॥

诚然,兵器、力量、勇武、事业、良策或至上神兵,都不足以使人安乐生活,因为在战场上导师已被敌人杀害。

8.31.21

हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ।
नये बृहस्पत्युशनः समं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥ ८.३१.२१ ॥

其光辉与火及太阳相等,勇武如毗湿奴与因陀罗,谋略常与布里哈斯帕提和乌夏纳斯相当;那不可忍受的兵器从未接近过他。

8.31.22

संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्विषतामनीकम् ॥ ८.३१.२२ ॥

当妇女与孩童大声哭泣,持国之子的勇气已被击败之时,我今日不知自己的职责。因此,沙利耶啊,向敌军进发吧。

8.31.23

स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥ ८.३१.२३ ॥

诚守誓言的般度王所在之处,有毗摩森那与阿周那,有那位婆素提婆、萨谛奇、斯林阁耶人以及双生子——除我之外,谁能抵挡他们?

8.31.24

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।
तान्वा हिनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥ ८.३१.२४ ॥

因此,摩德罗王,速赴战场。与般遮罗人、般度子和斯林阁耶人相遇于阵中,我或将杀死他们,或将以德罗纳为首,前往阎摩之处。

8.31.25

नत्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विध्दि ।
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ ८.३१.२५ ॥

但你今日当知,沙利耶,我不会走入那些英雄的中间。背弃朋友之事,我不能忍受;舍弃性命,我将追随德罗纳。

8.31.26

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।
अतो विद्वन्नभियोत्स्यामि पार्थ दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ ८.३१.२६ ॥

无论智者或愚者,在生命尽头都无法摆脱如同死神一般的人。因此,博学者啊,我将与普利塔之子作战;命定之事不可逃避。

8.31.27

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।
तस्यार्थसिध्द्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ ८.३१.२७ ॥

行为良善的国王,我的儿子,毗七多罗毗利耶之子,一向如此。为了实现他的目的,我舍弃心爱的享乐,以及难以舍弃的生命。

8.31.28

वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।
रथप्रवर्ह तुरगप्रवर्है र्युक्तं प्रादान्मह्यमिमं हि रामः ॥ ८.३१.२८ ॥

此车以虎皮覆盖,车轴无声,金制,三层箱体,有三根银制车辕,拉车的良驹套上,此车是罗摩赠予我的。

8.31.29

धनूंषि चित्राणि निरिक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररुपान् ।
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ ८.३१.२९ ॥

啊,沙利耶,看过那些奇异的弓、旗帜、狼牙棒和形状可怖的箭,也看过闪耀的剑、至上的武器,以及洁白、作响、可怖的海螺。

8.31.30

पताकिनंवज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥ ८.३१.३० ॥

登上这辆最好的战车,车上有旗帜,发出如霹雳击打般的声响,套着白马,装饰着精美的箭袋,我将在战场上坚定地以力量杀死阿周那。

8.31.31

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥ ८.३१.३१ ॥

即使夺取一切的死亡始终警觉地在战场上守护般度之子,我也将在战场上与他相遇并杀死他;或者,以德罗纳为先锋,我将前往阎摩那里。

8.31.32

यमवारुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥ ८.३१.३२ ॥

即使阎摩、伐楼那、俱毗罗和因陀罗率众一同来到这场大战中保护法尔古那,我也会与他们一起战胜他。何必多言?

8.31.33

इति रणरभसस्य कत्थत स्तदुपनिशम्य वश्वः स मद्रराट ।
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद् चोत्तरम् ॥ ८.३१.३३ ॥

摩德罗国的英勇之王沙利耶听到迦尔纳因战斗热情如此夸口,便轻蔑地嘲笑他,制止了他,并回答道。

8.31.34

विरम् विरम् कर्ण कत्थना दतिरभसोऽप्यतिवाचमुक्तवान् ।
क्कच हि नरवरो धनंजयः क्क पुनरिह त्वमहो नराधमः ॥ ८.३१.३४ ॥

住口,住口,迦尔纳!你夸口太过急切,说话超过了分寸。那人中之最的达那甘闍耶在哪里,而你在这里又算什么?唉,人中最卑劣的人啊!

8.31.35

यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।
प्रसभमतिविलोड्य को हरेपुरुषवरावरजामृतेऽर्जुनात् ॥ ८.३१.३५ ॥

除了阿周那,还有谁能强行搅动被优般陀罗(克里希纳)守护的、如天界被众神之王护卫般的雅度族居所,并夺走人中之最的幼妹?

8.31.36

त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥ ८.३१.३६ ॥

在三界的创造者、诸主之主的婆婆(湿婆)面前,除了与众神之王威力相当的阿周那,还有谁敢在鹿猎的争端中与他在战场上相对?

8.31.37

असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान् ।
इषुभिरजयदग्निगौरवात् खभिलपितं च हविर्ददौ जयः ॥ ८.३१.३७ ॥

阿周那以箭矢战胜了阿修罗、苏罗、大蛇、人类、迦楼罗、毕舍遮、夜叉与罗刹;出于对火神阿耆尼的敬重,他又依天空所愿献上了祭品。

8.31.38

स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः ।
अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन् ॥ ८.३१.३८ ॥

阿提罗陀之子啊,你难道不记得吗?当你与持国之子们一同被敌人俘虏,随后又被救出,那些最优秀的人在俱卢族之中杀死了众多敌人。

8.31.39

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥ ८.३१.३९ ॥

即使你已经逃走,好争斗的持国之子们仍在那里。你可记得,般度之子们战胜了空行众的军队并将他们救出?

8.31.40

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥ ८.३१.४० ॥

在夺牛之役中,你连同军队与车骑再次被最优秀的人击败。那时你与老师、老师之子以及毗湿摩同在,为何你不能战胜阿周那呢?

8.31.41

इदमपरमुपस्थितं पुनस्तव निधनाय सुयुध्दमद्य वै ।
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥ ८.३१.४१ ॥

今日又一场好战为你的毁灭而来。若你不因惧怕敌人而逃走,那么来到战场的你,今日必将被杀,御者之子啊。

8.31.42

इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।
भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम् ॥ ८.३१.४२ ॥

当摩德罗之主说出这许多刺耳之言,因听到敌人的赞誉而心中欢喜时,俱卢军的统帅,极为愤怒,焚烧敌人者,对摩德罗之主说道。

8.31.43

भ्वतु भवतु किं विकत्थसे ननु मम तस्य हि युध्दमुद्यतम् ।
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥ ८.३१.४३ ॥

好吧,好吧——你为何夸口?我与他的战斗早已准备就绪。若他在此战中战胜我,那么你这番夸耀便有了根据。

8.31.44

एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥ ८.३१.४४ ॥

摩德罗王说:“就这样吧。”便不再回答。迦尔纳渴望交战,对他说:“沙利耶,前进吧。”

8.31.45

स रथः प्रययौ शत्रून्निध्नतः शल्यसारथिः ।
निध्नन्नमित्रान्समरे तमोध्नः सविता यथा ॥ ८.३१.४५ ॥

以沙利耶为御者的那辆战车向前驰去,击杀敌人;在战场上歼灭敌军,它光辉如驱散黑暗的娑维德利太阳。

8.31.46

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
स चालोक्य ध्वजिनीं पाण्ड्वानां धनंजयं त्वरया पर्यपृच्छत् ॥ ८.३१.४६ ॥

于是迦尔纳欣喜地驾着由虎和白马驾驭的战车前进。看见般度子孙的军队,他急切地询问达南压耶的所在。