摩诃婆罗多 · 章 8.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.42.1
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय ।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः ॥ ८.४२.१ ॥
桑闍耶啊,当大军如此列阵并相互纠缠之时,三誓者如何作战?般度之子又如何迎战阿周那与迦尔纳?
8.42.2
एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि ।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम् ॥ ८.४२.२ ॥
桑闍耶啊,你很精通,请详细讲述这场战斗。听到战场上英雄的勇武,我仍不感满足。
8.42.3
तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम् ।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते ॥ ८.४२.३ ॥
见敌方大军如此布阵,迦尔纳便为你儿子的利益布下了反阵。
8.42.4
तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥ ८.४२.४ ॥
那支大军布满骑兵与象军,步兵与战车密集,以猛光为首,可怖地闪耀着。
8.42.5
पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः ।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव ॥ ८.४२.५ ॥
那位普利沙塔之子,马如鸽色,光辉如日月,手持弓箭,犹如化身的时间(死神)般闪耀。
8.42.6
पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः ।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव ॥ ८.४२.६ ॥
德罗波蒂之子们渴望战斗,与随从一同,身体光辉,立于普利沙塔之子两侧,如星群环绕明月。
8.42.7
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥ ८.४२.७ ॥
此时,阿周那在战场上见到排列成阵的三誓军,怒不可遏,拉开甘狄拔神弓向他们冲去。
8.42.8
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम् ॥ ८.४२.८ ॥
于是三誓军渴望杀死般度之子,向他冲去;他们决心求胜,既已以死为志,便不再退却。
8.42.9
तदश्वसङ्घबहुलं पत्तिनागरथाकुलम् ।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत् ॥ ८.४२.९ ॥
那支军队人马密集,步兵、象兵和战车挤满战场,怒吼着向持财者(阿周那)猛冲过去。
8.42.10
तदुद्यतं महत्सैन्यं सागरौघसमं जवे ।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत ॥ ८.४२.१० ॥
那支庞大的军队,疾速涌动如海潮,抵达般度之子的岸边,停驻在那里,人们看见了。
8.42.11
मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत् ॥ ८.४२.११ ॥
箭雨如注直落地面,他们迅速逼迫并困扰阿周那。
8.42.12
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना ।
तस्यैव तु यथा राजन्निवातकवचैः सह ॥ ८.४२.१२ ॥
他们与戴冠者(阿周那)之间那场激烈的交锋发生了。大王啊,这就像他当年与尼瓦塔卡瓦查人的交战一样。
8.42.13
रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि ।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान् ॥ ८.४२.१३ ॥
战车、战马、旗帜、大象、步兵、骑象的战士、箭矢、弓、剑、战轮和战斧,阿周那将它们尽数斩断。
8.42.14
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च ।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥ ८.४२.१४ ॥
普利塔之子斩断了敌人高举的手臂及其兵器,各种兵器,还有成千上万的头颅。
8.42.15
तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे ।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ ८.४२.१५ ॥
在那如同地下幽冥深渊般的大军漩涡中,他们以为战车已经沉没,三誓军便欢呼咆哮起来。
8.42.16
स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत् ।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव ॥ ८.४२.१६ ॥
他愤怒地先击杀前方的敌人,接着又从北方、南方和后方杀戮他们,如同楼陀罗屠杀牲畜。
8.42.17
अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष ।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥ ८.४२.१७ ॥
啊,尊者,那时般遮罗、遮提与苏兰阇耶人与您的部众之间爆发了极为惨烈的战斗。
8.42.18
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः ॥ ८.४२.१८ ॥
克利巴、克利塔瓦尔曼,以及苏巴拉之子沙恭尼,也率领欢欣的军队,满怀激愤,攻击车阵。
8.42.19
कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि ।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः ॥ ८.४२.१९ ॥
憍萨罗人、迦尸与鱼人、迦卢sha人、俱迦耶人,以及首陀罗森的最勇猛战士,皆因好战而狂热地作战。
8.42.20
तेषामन्तकरं युद्धं देहपाप्मविनाशनम् ।
क्षत्रविट्शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ ८.४२.२० ॥
对他们而言,这场战斗带来死亡,却能消除身体的罪垢;对刹帝利、吠舍与首陀罗中的英雄而言,它合乎法度,通往天界,并带来荣誉。
8.42.21
दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥ ८.४२.२१ ॥
婆罗多之雄啊,那时难敌与兄弟们在一起,受到俱卢族的首要英雄和摩德罗族大战车武士的护卫。
8.42.22
पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च ।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥ ८.४२.२२ ॥
那位俱卢英雄护卫着在战场上与般度子、般遮罗人、支提人和萨提亚吉交战的迦尔纳。
8.42.23
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥ ८.४२.२३ ॥
迦尔纳以锐利的箭矢歼灭了大军,摧毁了最出色的战车武士,也重创了坚战。
8.42.24
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥ ८.४२.२४ ॥
他使数以千计的敌人失去了箭矢、兵器、躯体与生命,并使他们与天界和荣誉相连,为自己的人带来了喜悦。
8.42.25
तद्विगाह्य महानीकं सूतपुत्रो महारथः ।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम् ॥ ८.४२.२५ ॥
这位大车将、御者之子深入那支大军,使一条翻滚着血流波涛的河流奔涌而出。
8.42.26
शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम् ।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम् ॥ ८.४२.२६ ॥
以血为水,满是被碾碎的鱼,因象与鳄而难以渡过,泥泞于肉与髓,车轮如龟、大船如舟。
8.42.27
पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः ।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते ॥ ८.४२.२७ ॥
到处都有如云般倒下的大象,仿佛被雷霆击碎,大王啊,这条河在闪耀。
8.42.28
तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम् ।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम् ॥ ८.४२.२८ ॥
那条河以箭为波浪,有巨大的漩涡,伞盖如天鹅般密布,堆满铠甲与头巾,布满骨石。
8.42.29
अपारामनपारां च शङ्खदुन्दुभिघोषिणीम् ।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम् ॥ ८.४२.२९ ॥
那条没有远岸、无边无际、响彻螺号与战鼓、可怖的河流,大王啊,四面都被尘土笼罩。
8.42.30
अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम् ।
समं च विषमं चैव समायान्तीं महाभयाम् ॥ ८.४२.३० ॥
极为凶猛,遍布人身,通向死亡之国,汇集平地与险地而来,充满巨大的恐怖。
8.42.31
आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे ।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः ॥ ८.४२.३१ ॥
此处慌乱的人们陷入血泥之中,国王啊,如同被人环绕的大树。
8.42.32
ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम् ।
विचेरुः सर्वतो योधा नौवारणमहारथैः ॥ ८.४२.३२ ॥
于是战士们在大河中四处穿行,乘着船只、象群与大战车,从四面八方来回驰骋。
8.42.33
शोणितेन समं राजन्कृतमासीत्समन्ततः ।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते ॥ ८.४२.३३ ॥
国王啊,四周的土地被鲜血覆盖,如同大地被河水的激流所淹没,人民之主啊。
8.42.34
एवं भारत सङ्ग्रामो नरवाजिगजक्षयः ।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् ॥ ८.४२.३४ ॥
婆罗多啊,如此,库鲁人与斯若耶人之间的战斗,人、马、象尽被杀戮,竟如天神与阿修罗之战一般。