摩诃婆罗多 · 章 8.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.44.1
विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत् ।
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ ८.४४.१ ॥
迦尔纳冲破那支军队,直奔坚战而去,身边围绕着数千辆战车、大象、战马与步兵。
8.44.2
नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः ।
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमात् ॥ ८.४४.२ ॥
迦尔纳如公牛般,以数百支猛烈的箭斩断敌人投掷的数千种兵器,并毫不慌乱地射穿了他们。
8.44.3
निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः ।
ते हता भूतले पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥ ८.४४.३ ॥
御者之子斩下他们的头颅、手臂与大腿;他们倒地而死,其余溃散者四散奔逃。
8.44.4
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः ।
प्रभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥ ८.४४.४ ॥
于是,在萨提亚基的再次驱使下,德罗毗荼、安陀罗与尼沙陀人以步兵之身,怀着杀死迦尔纳的念头,在战场上扑向他。
8.44.5
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।
पेतुः पृथिव्यां युगपच्छिन्नं सालवनं यथा ॥ ८.४४.५ ॥
他们被迦尔纳的箭射中,手臂、头颅和铠甲尽皆崩裂,同时倒在大地上,如同被砍倒的娑罗树林。
8.44.6
एवं योधशतान्याजौ सहस्राण्ययुतानि च ।
हतानीयुर्महीं देहैर्यशसाऽपूरयन्दिशः ॥ ८.४४.६ ॥
如此,战场上数百、数千乃至数万名勇士被杀,连同躯体倒卧大地,他们的名声充满了四方。
8.44.7
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव ॥ ८.४४.७ ॥
于是般度之子与般遮罗人包围了战中如愤怒死神般的维伽尔坦那(迦尔纳),如咒语与药物围住疾病。
8.44.8
स तान्प्रमृद्याब्यपतत्पुनरेव युधिष्ठिरम् ।
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥ ८.४४.८ ॥
他摧毁了他们,又一次向坚战扑去,如同超出咒语与药物治疗之外的极猛烈疾病。
8.44.9
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः ।
नाशकत्तानतिक्रान्तुं मृत्युर्ब्राह्मविदो यथा ॥ ८.४४.९ ॥
他被那些渴望保护国王的般度人、般遮罗人与甘伽耶人拦住,无法冲破他们,正如死亡无法越过梵智者。
8.44.10
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।
तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः ॥ ८.४४.१० ॥
于是坚战看见不远处被那些主要战士阻拦的英雄迦尔纳,便用箭射穿了他。
8.44.11
कर्णः पार्थशराविद्धस्तोत्रार्दित इव द्विपः ।
प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत् ॥ ८.४४.११ ॥
迦尔纳被阿周那(帕尔塔)的箭射中,如同被象钩刺痛的大象,一并摧毁了那些英雄,并逼迫坚战。
8.44.12
ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम् ।
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः ॥ ८.४४.१२ ॥
于是坚战双眼因愤怒而泛红,走近胜利者中最优秀的迦尔纳,那位杀死敌方英雄者,对他说道。
8.44.13
कर्णकर्ण वृथादृष्टे सूतपुत्र वचः शृणु ।
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन तरस्विना ॥ ८.४४.१३ ॥
噫,迦尔纳,迦尔纳,目光虚妄的御者之子,请听我言。你在战场上总是与迅捷的法尔古那相争。
8.44.14
यथाऽस्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ।
यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु ॥ ८.४४.१४ ॥
你依从持国之子的意志,总是逼迫我们;你的力量、你的勇武,以及你对般度之子的仇恨。
8.44.15
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।
युद्धश्रद्वां च तेऽद्याहं विनेष्यामि महाहवे ॥ ८.४४.१५ ॥
今日请展示你全部的男儿气概,凭借伟大的勇气。今日我将在大战中,夺去你的战斗之心。
8.44.16
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।
सुवर्णपुङ्खैर्दशभिर्विव्यादायस्मयैः शरैः ॥ ८.४४.१६ ॥
大王,般度之子如此说罢,便以十支镶金羽的铁箭射穿了迦尔纳。
8.44.17
तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः ।
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥ ८.४४.१७ ॥
御者之子、敌人的制伏者迦尔纳,以十支箭回敬了他。婆罗多啊,那位大弓手以牛犊齿形的箭射他,仿佛在笑。
8.44.18
सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण पाण्डवः ।
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः ॥ ८.४४.१८ ॥
然而,这位被御者之子射中的般度之子不以为意,随即因愤怒而燃烧,如同浇了酥油的火焰。
8.44.19
ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत ।
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः ॥ ८.४४.१९ ॥
国王的身体被火焰之环环绕,显得如同劫末欲焚的另一场劫火。
8.44.20
ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम् ।
समाधत्त शितं बाणं गिरीणामपि दारणम् ॥ ८.४४.२० ॥
随后他拉开饰有黄金的巨弓,搭上一支锐利的箭,能劈裂群山。
8.44.21
ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम् ।
मुमोच त्वरितो राजा सूतपुत्रजिघांसया ॥ ८.४४.२१ ॥
于是国王急速拉满弓至耳际,射出一支如阎摩之杖的箭,意欲杀死御者之子。
8.44.22
स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः ।
विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् ॥ ८.४४.२२ ॥
那支箭以强劲之力射出,伴着雷霆霹雳之声,突然射入大车士迦尔纳的左侧。
8.44.23
स तु तेन प्रहारेण पीडितः प्रमुमोह वै ।
स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य कम्पितः ॥ ८.४४.२३ ॥
被那一击所伤,这位大臂者果然昏厥;四肢松软,他颤抖着放下了弓。
8.44.24
गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत् ।
राजाऽपि भूयो नाजघ्ने कर्णं पार्थहितेप्सया ॥ ८.४४.२४ ॥
他如同死去一般,失去知觉,面向沙利耶倒下;国王也因希望般度之子得利,不再击打迦尔纳。
8.44.25
ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत् ।
विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम् ॥ ८.४४.२५ ॥
于是持国百子的庞大军队全都哀号起来,见迦尔纳面色苍白、痛苦地躺在那种境地。
8.44.26
सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा ।
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् ॥ ८.४४.२६ ॥
大王啊,见到国王的威勇,般度诸子中响起了狮子吼、呼喝与欢呼之声。
8.44.27
प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव ।
दध्रे राजविनाशाय मनः क्रूरपराक्रमः ॥ ८.४४.२७ ॥
然而罗陀之子迦尔纳不久便恢复了知觉,以残酷的威勇,决意要毁灭国王。
8.44.28
स हेमविकृतं चापं विस्फार्य विजयं महत् ।
अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः ॥ ८.४४.२८ ॥
他拉开那张饰以黄金的大胜利弓,这位心志无量者以锐利的箭矢覆盖了般度之子。
8.44.29
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।
जघान चन्द्रदेवं च दण्डधारं च संयुगे ॥ ८.४४.२९ ॥
随后,他以两支利如剃刀的箭,在战场上杀死了护卫这位大德者战车轮的两位般遮罗勇士——月神与持杖者。
8.44.30
तावुभौ धर्मराजस्य प्रवीरौ युधि भारत ।
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥ ८.४४.३० ॥
婆罗多之裔啊,法王的那两位勇士在战场上车旁闪耀,如同月亮旁边的两颗补那婆苏星。
8.44.31
युधिष्ठिरः पुनः कर्णमविद्व्यत्त्रिंशता शरैः ।
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥ ८.४४.३१ ॥
坚战再以三十支箭射中迦尔纳,又各以三箭射中苏舍那与萨提耶萨那。
8.44.32
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।
तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥ ८.४४.३२ ॥
他以九十支箭射中沙利耶,以七十三支箭射中御者之子;又以三支直飞之箭射中他的护卫,每人三箭。
8.44.33
ततः प्रहस्याधिरथिः षष्ठ्या राजञ्शितैः शरैः ।
विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा ॥ ८.४४.३३ ॥
于是御者之子大笑,王啊,以六十支利箭在阵中射中坚战,那大车士随即吼叫。
8.44.34
ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः ।
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः ॥ ८.४४.३४ ॥
于是般度之子的勇士们怒火中烧,想要保护坚战,便冲上前去,以箭攻击迦尔纳。
8.44.35
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च ।
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ ८.४४.३५ ॥
萨提耶基、遮企丹那、乌由耸,以及潘提亚王;德里斯塔尤姆那、尸康丁、德罗波蒂之子们和普拉波德拉卡。
8.44.36
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।
कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः ॥ ८.४४.३६ ॥
双生子、婆罗塞那,以及尸舜波罗之子;迦鲁沙人、摩蹉人及其余众,甘伽耶人,以及迦尸人与憍萨罗人。
8.44.37
एते च त्वरिता वीरा वसुषेणमताडयन् ।
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ॥ ८.४४.३७ ॥
这些迅捷的勇士击打了伐苏舍那,而般遮罗的遮那梅阇耶以箭射穿了迦尔纳。
8.44.38
वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः ।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥ ८.४४.३८ ॥
以野猪耳箭、芦管箭、利箭、犊牙箭、劈裂箭、刀刃箭和雀嘴箭。
8.44.39
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः ।
सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया ॥ ८.४४.३९ ॥
乘车战士、象骑兵和骑兵手持各种凶猛武器,包围迦尔纳,从四面八方冲向他,意欲杀之。
8.44.40
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।
छाद्यमानः शिततैर्घोरैः स्वस्वनामाङ्कितैः शरैः ॥ ८.४४.४० ॥
他被般度诸子中的最勇者从四面围攻,身上覆盖着刻有各自名字的锐利可怖之箭……
8.44.41
न चचाल रणे कर्णो महेन्द्रो दानवैरिव ।
निजघान महेष्वासान्पाञ्चालानेकविंशतिम् ॥ ८.४४.४१ ॥
迦尔纳在战场上不动摇,如因陀罗在檀那婆面前不动摇一般;他杀死了二十一位大弓箭手般遮罗人。
8.44.42
ततः पुनरमेयात्मा चेदीनां प्रवरान्दश ।
न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा ॥ ८.४४.४२ ॥
然后,婆罗多中的最优者啊,无量心的维迦尔摩之子迦尔纳杀死了车底人中的十位最勇者。
8.44.43
तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष ।
दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः ॥ ८.४४.४३ ॥
陛下,他的千万支箭向四面八方飞去,如同蝗虫的群聚。
8.44.44
कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः ।
नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः ॥ ८.४४.४४ ॥
刻有迦尔纳之名的箭,金色的羽翎,锋利无比,穿透人与马的身体,四面八方纷纷落在地上。
8.44.45
कर्णेनैकेन समरे चेदीनां प्रवरास्तदा ।
सृज्जयानां च सर्वेषां शतशो निहता रणे ॥ ८.४४.४५ ॥
那时,在战场上,仅凭迦尔纳一人,车底国的勇士与所有的娑林遮人便被杀死了数百。
8.44.46
कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः ।
नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा ॥ ८.४४.४६ ॥
被迦尔纳的箭所覆盖,一片混乱的黑暗升起,于是无论敌人还是自己,什么都无法辨认。
8.44.47
तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे ।
विचचार महबिहुर्निर्दहन्क्षत्रियान्बहून् ॥ ८.४४.४७ ॥
那可怕的黑暗笼罩之时,大臂的迦尔纳穿梭往来,焚烧了许多刹帝利。
8.44.48
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥ ८.४४.४८ ॥
此时,迦尔纳这团以箭为大焰、以勇力为炽热的火,焚烧般若维人的林子,在战场上威风地往来奔驰。
8.44.49
ततस्तेषां महाराज पाण्डवानां महारथाः ।
सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः।
अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन् ॥ ८.४४.४९ ॥
大王啊,于是般杜之子的大车战士和所有的娑罗遮耶人,成百上千地,从四面八方用兵器包围了大弓手迦尔纳。
8.44.50
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् ।
प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम् ॥ ८.४४.५० ॥
大弓手迦尔纳挡开了诸位高贵者的大兵器,笑着斩断了那位人中之雄的弓。
8.44.51
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् ।
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥ ८.४४.५१ ॥
于是迦尔纳顷刻间搭上九十支带弯节的利箭,在战场上射穿了国王的铠甲。
8.44.52
तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत् ।
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा ॥ ८.४४.५२ ॥
那件镶金嵌宝的铠甲坠落时,闪耀得像太阳旁被风吹击、带着闪电的云。
8.44.53
तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत ।
रत्नैरलंवृतं चित्रेर्व्यभ्नं निशि यथा नभः ॥ ८.४४.५३ ॥
那件从人中之雄身上脱落的铠甲,镶嵌宝石,色彩斑斓,闪耀如夜间敞开的天空。
8.44.54
भिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः ।
बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः ॥ ८.४४.५४ ॥
铠甲被箭射穿,沾满鲜血,人中之雄的般杜之子(阿周那)闪耀如升起的太阳。
8.44.55
स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे ।
क्षात्रं धर्मं समास्थाय सिंहनादमकुर्वत ॥ ८.४४.५५ ॥
他全身被箭覆盖,铠甲已被斩断,于是在战斗中履行刹帝利之法,发出狮子般的吼声。
8.44.56
नर्दित्वा च चिरं कालं पाण्डवो रभसो रणे ।
शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव ॥ ८.४४.५६ ॥
般度之子勇猛地长久吼叫后,在战斗中以猛力掷出一支燃烧的投枪,如同雷电。
8.44.57
तां ज्वलन्तीमिवाकाशे शक्तिं शप्तभिराशुगैः ।
भल्लैश्चिच्छेद राधेयः सा त्वशीर्यत वै रणे ॥ ८.४४.५७ ॥
那支仿佛在天空燃烧的投枪,被罗陀之子以七支迅疾的月牙箭斩断,它在战斗中碎裂了。
8.44.58
हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः ।
चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा ॥ ८.४४.५८ ॥
行动敏捷的坚战以四支投矛击中迦尔纳的胸口、双臂和额头,欢喜地吼叫。
8.44.59
उद्भिन्नरुधिरः कर्णः क्रुद्वः सर्प इव श्वसन् ।
जघान सूतं पार्थस्य पार्ष्ठिं च नवभिः शरैः ॥ ८.४४.५९ ॥
血流不止的迦尔纳愤怒地如蛇般喘息,以九支箭击杀了阿周那的御者,又击中了战车的后部。
8.44.60
ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम् ।
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥ ८.४४.६० ॥
他砍断了国王的旗帜,用三支箭射中了他,又斩断了他的两个箭囊,并把战车砍成芝麻粒般的碎片。
8.44.61
एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः। ॥ ८.४४.६१ ॥
此时,般度之子的大车勇士们(向前冲去)。
8.44.62
सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः ।
अवर्षतां महाराज राधेयं शत्रुकर्शनम् ॥ ८.४४.६२ ॥
大王啊,萨提亚基以二十五支箭、湿婆坎迪以九支箭,向折磨敌人的罗陀之子迦尔纳倾泻箭雨。
8.44.63
शैनेयं तु ततुः क्रुद्धः कर्णः पञ्चभिरायसैः ।
विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः ॥ ८.४४.६३ ॥
然而愤怒的迦尔纳以五支铁箭射中了沙依尼耶(萨提亚基);大王啊,他又用另外三支倒钩箭在战场上刺穿了他。
8.44.64
दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽभ्यविध्यत ।
सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥ ८.४४.६४ ॥
迦尔纳以三支箭射穿他的右臂,以十六支箭射穿左臂,又以七支箭射中他的御者。
8.44.65
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति ॥ ८.४४.६५ ॥
随后,御者之子(迦尔纳)以四支利箭迅速将他的四匹马送往阎摩的居所。
8.44.66
अथापरेण भल्लेन धनुश्छित्त्वा महारथः ।
सारथेः सशिरस्त्राणं शिरः कायादपाहरत् ॥ ८.४४.६६ ॥
接着这位大车勇士以另一支钵罗箭斩断他的弓,并将御者连同头盔的头颅从身上斩落。
8.44.67
हताश्वसूते तु रथे स्थितः स शिनिपुङ्गवः ।
शक्तिं चिक्षेप कर्णाय वैदूर्यमणिभूषिताम् ॥ ८.४४.६७ ॥
马匹和御者皆已战死,站在车上的希尼族雄牛向迦尔纳投出一支饰有猫眼宝石的标枪。
8.44.68
तामापतन्तीं सहसा द्विधा चिच्छेद भारत ।
कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत् ॥ ८.४४.६८ ॥
婆罗多啊,弓手中最优秀的迦尔纳瞬间将飞来的那支标枪劈为两段,并阻挡了他们所有人。
8.44.69
ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान् ।
न्यवारयदमेयात्मा शिक्षया च बलेन च ॥ ८.४४.६९ ॥
于是那位灵魂无量者,以利箭,凭借技艺与力量,阻挡了般度之子的那些大车战士。
8.44.70
अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव ।
पीडयन्धर्मराजानं शरैः सन्नतपर्वमिः।
अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः ॥ ८.४४.७० ॥
他用箭折磨他们,如狮子扑向小鹿;又以弯曲节节的箭射击法王,那御者之子以利箭向法王之子猛冲而去。
8.44.71
ततः पार्षो ह्यपासासीद्वताश्वो हतसारथिः ।
अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः ॥ ८.४४.७१ ॥
于是,帕尔沙塔因马匹与御者皆死,无法在迦尔纳面前站立,沮丧地退却了。
8.44.72
तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम् ।
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥ ८.४४.७२ ॥
大王啊,御者之子冲向般度之子坚战,笑着,仿佛在讥讽般度之子,对他说道。
8.44.73
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः ।
प्रजह्यात्समरे शत्रून्प्राणान्रक्ष महाहवे ॥ ८.४४.७३ ॥
你生于刹帝利之家,立于刹帝利之法,为何在此大战中抛弃敌人,只顾保全自己的性命?
8.44.74
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः ।
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥ ८.४४.७४ ॥
依我看,你并不精通刹帝利之法;你专注于婆罗门之力、诵读吠陀与祭祀之事。
8.44.75
मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः ।
मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम् ॥ ८.४४.७५ ॥
贡蒂之子啊,不要作战;不要靠近英雄;不要说这样不悦耳的话;也不要投入战斗。
8.44.76
वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः ।
मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे ॥ ८.४४.७६ ॥
可以与他人交谈,但不可与我这样的人交谈;在战场上对我这样的人说这种话的人,将得到此果,还会得到别的。
8.44.77
स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ ।
न हि त्वां समरे राजन्हन्यात्कर्णः कथञ्चन ॥ ८.४४.७७ ॥
贡蒂之子啊,回你的家去,或去克舍婆与阿周那所在之处;国王啊,迦尔纳在战场上绝不会以任何方式杀你。
8.44.78
वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः ।
वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमः ॥ ८.४४.७८ ॥
大车手迦尔纳想起所许给贡蒂的恩赐,尽管贡蒂之子应当被杀,他却没有杀他;他是最优秀的人。
8.44.79
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ।
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ॥ ८.४४.७९ ॥
说完这话,大力的迦尔纳放开了帕尔塔,并像持金刚者击打阿修罗军一样,击杀了般度之军。
8.44.80
ततोऽपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः ॥ ८.४४.८० ॥
于是,大王,那位人主仿佛感到羞愧,迅速地离开了。
8.44.81
अथापयातं राजानं मत्वाऽन्वीयुस्तमच्युतम् ।
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः।
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ ८.४४.८१ ॥
于是,他们以为撤退的国王有不败者(克里希那)相随,遂追赶他:遮提人、般度族、般遮罗人、大车将萨谛奇,以及德劳帕蒂的勇猛诸子和摩德丽的两个儿子般度族人。
8.44.82
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ।
कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात् ॥ ८.४४.८२ ॥
于是,英雄迦尔纳见到坚战之军背向败退,心中欢喜,与俱卢人一道从后追击。
8.44.83
भेरीशङ्खमृदङ्गानां कार्मुकाणां च निःस्वनः ।
बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा ॥ ८.४४.८३ ॥
鼓声、螺号声、鼓鼓声与弓弦之声同时响起,持国诸子的狮吼之声也同样回荡。
8.44.84
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम् ।
श्रुतकीर्तेर्महाराज दृष्ट्वा तत्कर्णविक्रमम् ॥ ८.४४.८४ ॥
然而,俱卢之后裔、大王啊,坚战迅速登上战车,看着室嘟迦提,并目睹了迦尔纳的那份勇武。
8.44.85
काल्यमानं बलं दृष्ट्वा सूतपुत्रेण मारिष ।
स्वान्योधानब्रवीत्क्रुद्वो निघ्नतैतान्किमासत ॥ ८.४४.८५ ॥
见御者之子正在斩杀大军,主啊,他愤怒地对自己的战士说:"杀了他们!你们为何坐着不动?"
8.44.86
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः ।
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥ ८.४४.८६ ॥
于是,经国王许可,般度之子的诸大车士在怖军的率领下,全都冲向你的儿子们。
8.44.87
अभवत्तुमुलः शब्दो योधानां तत्र भारत ।
रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान्।
उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः ॥ ८.४४.८७ ॥
婆罗多之后啊,那里战士们发出可怕的喧嚣:战车、象、马与步兵奔走的巨响,以及到处高举相击的兵器之声。
8.44.88
आगच्छत प्रहरत क्षिप्रं विपरिधावत ।
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे ॥ ८.४४.८८ ॥
"来吧,攻击,快速冲来!"——如此彼此呼喊,战士们在那场大战中互相击杀。
8.44.89
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ।
समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥ ८.४४.८९ ॥
那里天空中箭雨形成的阴影如同云影,互相攻击的人中俊杰都被它覆盖。
8.44.90
विपताकध्वजच्छत्रा व्यश्वसूतरथायुधाः ।
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः।
शिखराणीव शेलानां वज्रभिन्नानि मानिष ॥ ८.४४.९० ॥
旗帜、幡旗与华盖被扯断,马匹、御者、战车与兵器尽毁,肢体残缺;疲惫的地上之王们倒在地上,如同被雷霆劈碎的山峰。尊者啊!
8.44.91
सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले ।
छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः ॥ ८.४४.९१ ॥
连同骑者被杀的象群撕裂倒在地上;它们的甲胄、饰物与身躯被砍碎、破散、翻倒。
8.44.92
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ।
विप्रविद्वायुधाङ्गाश्च द्विरदा रथिभिर्हताः।
प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः ॥ ८.४४.९२ ॥
连同骑者的战马成千上万地倒下,英勇的战士纷纷阵亡;兵器与肢体散落四处,象群被战车武士击杀。在混战中,步兵部队被对方勇士成千上万地歼灭。
8.44.93
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः ।
शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही ॥ ८.४४.९३ ॥
那些好斗的战士头颅,眼睛宽大、细长而泛红,面容如莲花与明月,把大地四面覆盖。
8.44.94
यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः ।
विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिःस्वनैः ॥ ८.४४.९४ ॥
如同在地上一样,人们在天空中也听到了声音:在天车之中,是成群的天女的歌唱,以及乐器的喧鸣。
8.44.95
हतानभिमुखान्वीरान्वीरैः शतसहस्रशः ।
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥ ८.४४.९५ ॥
那些面向敌人而死的勇士,被英雄们成千上万地杀死,天女群一次又一次地将他们抬起,载入天车而去。
8.44.96
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया ।
प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम् ॥ ८.४४.९६ ॥
亲眼见到这大奇迹,怀着求取天界的渴望而欢欣的勇士们,迅速相互攻击。
8.44.97
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे ।
पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयोः ॥ ८.४४.९७ ॥
战车武士与战车武士在战场上奇妙地交战;步兵与步兵,象与象,马与骑兵相斗。
8.44.98
एवं प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये ।
सैन्येन रजसा वृत्तते स्वे स्वाञ्जघ्नुः परे परान् ॥ ८.४४.९८ ॥
当这场毁灭象、马与人的战斗如此展开时,被军中尘土笼罩的人们击杀了自己人,而另一些人击杀了对方。
8.44.99
कचाकचं युद्धमासीद्दन्तादन्ति नखानखि ।
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥ ८.४४.९९ ॥
发生了揪发、咬牙与抓挠之战;还有拳斗与摔跤,能消除身体的罪业。
8.44.100
तथा वर्ततति सङ्ग्रमे गजवाजिनरक्षये ।
नराश्वनागदेहेभ्यः प्रसृता लोहितापगा ॥ ८.४४.१०० ॥
当这场毁灭象、马与人的战斗如此持续时,一条血河从人、马和象的身体中流淌而出。
8.44.101
गजाश्वनरदेहान्सा व्युवाह पतितान्बहून् ।
नराश्वगजसम्बाधे नराश्वगजसादिनाम् ॥ ८.४४.१०१ ॥
那河流冲走了许多倒下的象、马与人的尸体,在人、马、象拥挤的地方,连同他们的骑手一起。
8.44.102
लोहितोदा महाघोरा मांसशोणितकर्दमा ।
नराश्वगजदेहान्वै वहन्ती भीरुभीषणा ॥ ८.४४.१०२ ॥
这条血水之河极为可怖,泥浆由血肉混成,载着人、马、象的尸体,连胆小的人也为之惊骇。
8.44.103
तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः ।
नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे ॥ ८.४४.१०३ ॥
渴望胜利者渡向那条河的彼岸:有人骑象,有人游泳,有人时沉时浮。
8.44.104
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः ।
सस्नुस्ततस्यां पपुश्चास्रं मम्लुश्च भरतर्षभ ॥ ८.४४.१०४ ॥
他们身上涂满鲜血,铠甲、兵器与衣袍尽染红色,便在其中沐浴、饮血,然后疲惫不堪,哦,婆罗多中的雄牛。
8.44.105
रथानश्वान्नारान्नागानायुधाभरणानि च ।
वर्माणि चाप्यपश्याम पतितानि सहस्रशः।
खं द्यां भूमिं दिशश्चैव प्रायः पश्याम लोहिताः ॥ ८.४४.१०५ ॥
我们看到战车、马匹、士兵、象、兵器、饰物与铠甲成千上万地倒卧;天空、天界、大地与四方大多呈现血红。
8.44.106
लोहितस्य तु गन्धेन स्पर्देन च रसेन च ।
रूपेण चातिरक्ततेन शब्देन च विसर्पता।
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥ ८.४४.१०६ ॥
由于血的气味、触感、滋味,其过度的鲜红,以及四散的声响,婆罗多啊,军中便生起了深重的忧愁。
8.44.107
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव ।
भूयः समाद्रवन्वीराः सातत्यकिप्रमुखास्तदा ॥ ८.४४.१०७ ॥
那时,你的军队被怖军等人击溃;随后以萨提亚基为首的勇士们再次冲杀而来。
8.44.108
तेषामापतततां वेगमविषह्यं निरीक्ष्य च ।
पुत्राणां ते महासैन्यमासीद्राजन्पराङ्मुखम् ॥ ८.४४.१०८ ॥
看到来袭者不可抵挡的冲击,大王啊,你的诸子的大军转身败逃了。
8.44.109
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् ।
विध्वस्तवर्मकवचं प्रविद्वायुधकार्मुकम् ॥ ८.४४.१०९ ॥
那支军队,战车、马匹与象群散落四处,人马拥挤混乱,甲胄与护具破碎,兵器与弓弩散落一地。
8.44.110
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः ।
सिंहार्दितमिवारण्ये यथा गजकुलं तथा ॥ ८.४४.११० ॥
你的军队四面受迫,溃散奔逃,如同森林中被狮子袭击的象群一般。