摩诃婆罗多 · 章 8.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.55.1
प्रत्येत्याथ पुनर्जिष्णुर्जित्वा संशप्तकान्बभौ ।
वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥ ८.५५.१ ॥
随后胜利者阿周那再次返回,战胜了桑沙普塔卡们,光芒闪耀,犹如火星以曲折和逆行的轨道运行。
8.55.2
पार्थबाणहता राजन्नराश्वरथकुञ्जराः ।
विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत ॥ ८.५५.२ ॥
大王啊,被普利塔之子的箭射中的人、马、车和象颤抖、旋转、毁灭、倒下并被碾碎,婆罗多啊。
8.55.3
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चपासिसायकान् ।
पाणीन्पाणिगताञ्शस्त्रान्बाहूनपि शिरांसि च ॥ ८.५५.३ ॥
他砍断了轭马和其余的马、御者、旗帜、剑与箭、手、手中握着的兵器、臂膀,也包括头颅。
8.55.4
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः ।
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥ ८.५५.४ ॥
般度之子以阔头箭、剃刀箭、半月箭和牛犊齿箭,斩断了在战场上与他对阵的敌方英雄。
8.55.5
तं प्रवीरास्त्वदीयानां नर्दमानाऽभिदुद्रुवुः ।
वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा।
निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥ ८.५५.५ ॥
你方的勇士们怒吼着冲向他,如同为一头发情的母牛而争斗的公牛;英雄们成百上千地扑向阿周那。
8.55.6
तेषां तस्य च तद्युद्धमभवद्रोमहर्षणम् ।
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ ८.५५.६ ॥
他与他们之间的那场战斗令人毛骨悚然,犹如阿修罗与执金刚因陀罗在征服三界时的战斗。
8.55.7
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः ।
उग्रायुधस्य तस्याशु शिरः कायादपाहरत् ॥ ८.५५.७ ॥
他以三支箭射穿了对方,如同毒蛇咬伤,随即将持猛烈兵器者的头颅从身上斩落。
8.55.8
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् ।
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे ॥ ८.५५.८ ॥
他们愤怒地从四面八方向阿周那倾泻各种武器,如同被风神们驱赶的云在夏季倾注于喜马拉雅山。
8.55.9
अस्त्रैरस्त्राणिं संवार्य द्विषतां सर्वतोऽर्जुनः ।
सम्यगस्तैः शरैः सर्वानहितानहनद्बहून् ॥ ८.५५.९ ॥
阿周那以自己的兵器从四面挡住敌人的兵器,并以箭按规矩射杀了那许多敌人。
8.55.10
छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन् ।
विस्रस्तहस्ततूणीरान्विचक्रथकेतनान् ॥ ८.५५.१० ॥
他砍断了战车的三段木与车辐,杀死了马匹与御者,使手臂与箭囊脱落,并击倒了旗帜。
8.55.11
सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ।
विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥ ८.५५.११ ॥
阿周那迅速用箭使战车变成这样:缰绳、轭与轴被斩断,挽具被扯断,所有铠甲都被射碎。
8.55.12
ते रथास्तत्र विध्वस्ताः परार्द्व्या भान्त्यनेकशः ।
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥ ८.५५.१२ ॥
那些破碎的珍贵战车在那里以多种方式闪耀,如同被火、风、水摧毁的富人宅第。
8.55.13
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः ।
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥ ८.५५.१३ ॥
要害被如金刚与霹雳般的箭射穿的象群倒下,如同山巅的居所被金刚、狂风和烈火摧毁一般。
8.55.14
अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः ।
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥ ८.५५.१४ ॥
阿周那以许多经石磨砺的箭,如金刚、烈火和毒药,击杀了他们,如大因陀罗击杀达那婆一般。
8.55.15
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः ।
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ ८.५५.१५ ॥
许多被阿周那击中的马连同骑手倒下;舌头与肠子露出,力竭倒在地上,浸满鲜血,看去极为可怖。
8.55.16
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना ।
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥ ८.५५.१६ ॥
人、马与象被萨维亚萨钦(阿周那)的铁箭贯穿,旋转、踉跄、倒下、哀嚎,哦尊者,渐渐凋零。
8.55.17
महार्हवर्माभरणा नानारूपाम्बरायुधाः ।
सरथाश्वद्विपा वीरा हताः पार्थेन शेरते ॥ ८.५५.१७ ॥
身披贵重甲胄、佩戴饰物,衣着与兵器各异的勇士,连同战车、马与象,皆被帕尔塔所杀,躺卧于地。
8.55.18
निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः ।
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥ ८.५५.१८ ॥
无畏、行善积德、出身高贵且博学的他们,带着身躯离开大地,凭借其雄壮的功业升往天界。
8.55.19
अथार्जुनरथं वीरास्त्वदीयाः समभिद्रवन् ।
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥ ८.५५.१९ ॥
于是你方诸多国土之主的勇士,率其部众,怒火中烧,向阿周那的战车冲去。
8.55.20
उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः ।
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥ ८.५५.२० ॥
乘车、骑马与骑象的战士,以及步兵,都渴望杀戮,纷纷向前冲去,迅速地投掷各种兵器。
8.55.21
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः ।
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥ ८.५५.२१ ॥
那由战士如大云般倾泻的兵器暴雨,被阿周那这阵风以利箭迅速吹散。
8.55.22
साश्वपत्तिद्विपरथं महाशस्त्रौघसम्प्लवम् ।
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ ८.५५.२२ ॥
那由骑兵、步兵、象兵与战车汇成的兵器大洪流,普利塔之子欲突然渡过,便以兵器与神箭搭成的桥梁渡过。
8.55.23
अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ ।
संशप्तकान्प्रमथ्यैनांस्ततः कर्णवधे त्वर ॥ ८.५५.२३ ॥
于是婆苏提婆说:"普利塔之子啊,无罪者,你为何嬉戏?摧毁这些三誓者之后,便速往诛杀迦尔纳。"
8.55.24
तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा ।
क्षपयिष्यंस्तदा बाणैर्दैत्यानिन्द्र इवावधीत् ॥ ८.५५.२४ ॥
阿周那对黑天说:"就这样吧。"于是他欲灭尽余下的三誓者,便以箭杀之,如因陀罗杀死达提耶众。
8.55.25
आददत्सन्दधन्नेषृन्दृष्टः कैश्चिद्रणेऽर्जुनः ।
विमुञ्चन्वा शराञ्शीघ्रं दृश्यन्ते वै नरा हताः ॥ ८.५५.२५ ॥
战场上,有人看见阿周那取箭、搭箭并迅速射出,人们可见倒下的死者。
8.55.26
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् ।
हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन् ॥ ८.५५.२६ ॥
高文陀说了一声"奇哉!",便驱策马匹;那些白如天鹅光辉的马,如天鹅入湖一般冲入军中。
8.55.27
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये ।
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥ ८.५५.२७ ॥
此时,高文陀望着那正在发生人众灭亡的战场,对持双弓的阿周那说道。
8.55.28
एष पार्थ महारौद्रो वर्तते भरतक्षयः ।
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ ८.५५.२८ ॥
阿周那啊,这是极其可怖的婆罗多族之灭亡,是大地上诸王的巨大毁灭,实为了难敌而起。
8.55.29
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।
हतानामपविद्धानि कलापानिषुधींस्तथा ॥ ८.५५.२९ ॥
婆罗多之子啊,看那些射手金背的弓,以及被杀者抛弃的箭袋与箭筒。
8.55.30
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः ।
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥ ८.५५.३० ॥
看那些金羽的箭、节部弯曲的箭,以及油洗的狼牙箭,它们如同被放出的毒蛇般散落着。
8.55.31
आकीर्णांस्तोमरान्वाहांश्छत्रान्हेमविभूषितान् ।
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ॥ ८.५५.३१ ॥
婆罗多之子啊,散落的标枪、马匹、饰以黄金的伞盖,以及从弓上抛落的金背盾牌。
8.55.32
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ।
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ॥ ८.५५.३२ ॥
金制的长矛,饰以黄金的枪,以及用赡部金带束缚的巨大铁棒。
8.55.33
जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान् ।
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान् ॥ ८.५५.३३ ॥
纯金制成的长枪,饰以黄金的阔剑,以及带有金色斑纹柄的战斧,被抛弃在地。
8.55.34
परिघान्भिण्डिपालांश्च भुशुण्डीः कणपानपि ।
अयस्कुन्तांश्च पतितान्मुसलानि गुरूणि च ॥ ८.५५.३४ ॥
铁制的铁棒、投枪、咆哮矛、飞镖、铁矛,以及散落的沉重木杵。
8.55.35
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः ।
जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः ॥ ८.५५.३५ ॥
手持各式兵器,渴望胜利的人,看似仍活着,那些勇士却已失去生命。
8.55.36
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ।
गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः ॥ ८.५५.३६ ॥
看那成千上万的战士,身体被铁棒击碎,头颅被木杵劈裂,被象、马和战车踏碎。
8.55.37
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः ।
निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि ॥ ८.५५.३७ ॥
人、象与马,被箭、枪、标枪、投枪、剑、短剑、矛、爪与棍棒所伤。
8.55.38
शरीरैर्बहुघा छिन्नैः शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्न संवृता रणभूमयः ॥ ८.५५.३८ ॥
肢体被斩成数段,浸泡在血流之中,已无生命——啊,灭敌者,战场被尸体覆盖了。
8.55.39
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः ।
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥ ८.५५.३९ ॥
婆罗多啊,大地因涂抹檀香的手臂而闪耀,手臂上饰有臂环、华美饰物、护臂与臂钏。
8.55.40
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्वैरलङ्कृतैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ८.५५.४० ॥
带指套的前臂末端,被刺穿而饰以华饰,还有如象鼻般被斩断的大腿——那些勇猛战士的。
8.55.41
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ।
निकृत्तैर्वृषभाक्षाणां शरीरैश्चापि सङ्घशः ॥ ८.५५.४१ ॥
系着上好冠宝、戴着耳环的头颅,以及被斩断的牛目勇士的躯体,堆积成群。
8.55.42
गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः ।
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः।
भूर्भाति भरतश्रेष्ठ शान्ताग्निभिरिवाध्वरे ॥ ८.५५.४२ ॥
被象、马、人的箭、枪、标枪、投枪斩断的无头躯干,血迹斑斑,断颈断肢——婆罗多之最啊,大地犹如祭祀中熄灭的火焰般闪耀。
8.55.43
रथांश्च बहुधा भग्नान्हेमकिङ्किणिनः शुभान् ।
अश्वांश्च बुहधा पश्य शोणितेन परिप्लुतान् ॥ ८.५५.४३ ॥
看那些饰有金铃的华丽战车已多处破碎,以及浸满鲜血的马匹横卧各处。
8.55.44
अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान् ।
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्।
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥ ८.५५.४४ ॥
看那些马具与装饰的残迹、各式旗幡与军旗,战士们巨大的白色海螺散落一地,以及伸出舌头、如山岳般横卧的象群。
8.55.45
वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः ।
वारणानां परिस्तोमान्संयुक्तानेककम्बलान् ॥ ८.५५.४५ ॥
五彩的胜利旗幡,以及被杀的象兵;象身上饰有的覆盖物,由许多毡毯拼成。
8.55.46
विपाटितविचित्राश्च रूपचित्राः कुथास्तथा ।
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥ ८.५५.४६ ॥
被撕裂的五彩华丽覆盖物,以及多处破碎的铃铛,都被倒下的象群压碎。
8.55.47
वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान्भुवि ।
अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान् ॥ ८.५५.४७ ॥
镶嵌猫眼宝石杆柄的驱象钩散落在地,还有马轭的垫子,以及饰满宝石的胸甲。
8.55.48
विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः ।
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ॥ ८.५५.४८ ॥
被刺穿在骑兵旗杆顶端、被金饰破坏的覆盖物;五彩斑斓,饰有宝石,并以黄金装点。
8.55.49
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ।
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः।
छत्राणि चापविद्धानि चामरव्यजनानि च ॥ ८.५५.४९ ॥
马衣堆积,羚羊皮披覆于地;诸王的顶饰宝珠、各色金鬘,被箭射穿的伞盖,以及拂尘与羽扇。
8.55.50
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः।
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ॥ ८.५५.५० ॥
看那大地,被英雄们的面容所覆盖,面容如月如星般光辉,耳戴美丽耳环,胡须修剪整齐,装饰华美,土地被血泥浸透。
8.55.51
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः ।
उपास्यमानांश्च बहून्न्यस्तशस्त्रैश्च भूपते।
ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः ॥ ८.५५.५१ ॥
大王啊,看那四周呻吟的活人,许多人放下兵器正受照料,他们的亲人以水浸湿他们,一再痛哭。
8.55.52
उत्क्रान्तानपरान्योधाञ्छादयित्वा तरस्विनः ।
पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः ॥ ८.५५.५२ ॥
掩护那些已退下的其他战士,迅捷的英雄们又返回战场,贪求胜利,满怀愤怒。
8.55.53
अपरे तत्रतत्रैव परिधावन्ति मानवाः ।
सन्निवृत्ताश्च ते शूरा दृष्टा चैतान्विचेतसः ॥ ८.५५.५३ ॥
其他人四处奔跑;那些英雄已经转身,而这些人则显得神志昏乱。
8.55.54
जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम् ।
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥ ८.५५.५४ ॥
他们弃水而奔,彼此呼喊。婆罗多之子啊,看那些饮水后死去的人,也看那些仍在饮水的人。
8.55.55
परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः ।
विसंज्ञान्समरे योधांस्तत्रतत्र महारणे ॥ ८.५५.५५ ॥
另一些人爱护亲族,拥抱他们亲爱的亲人;在大战中,到处都有人拥抱昏迷的战士。
8.55.56
पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः ।
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम् ॥ ८.५५.५६ ॥
人中之最啊,再看看其他人:他们咬紧嘴唇,皱着眉头,凝视着那场大战。
8.55.57
एतत्तवैवानुरूपं कर्मार्जुन महाहवे ।
दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥ ८.५५.५७ ॥
阿周那啊,在大战中,这一行为正适合你,如同天界众神之王所做的,或你在战斗中所做的一样。
8.55.58
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने ।
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥ ८.५५.५८ ॥
克里希那一边向戴冠者(阿周那)展示那片战场,一边前行,听到杜尤达那军中升起巨大的声响。
8.55.59
शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम् ।
रथाश्वनरनागानां पादशब्दांश्च दारुणान् ॥ ८.५५.५९ ॥
海螺与大鼓的轰鸣,战鼓与小鼓的响声,以及战车、马匹、步兵与象群的可怕足音。
8.55.60
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः ।
पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः ॥ ८.५५.६० ॥
克里希那驾着疾如风的骏马冲入那支军队,见到你的军队被般荼耶(阿周那)碾压,大为惊讶。
8.55.61
स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि ।
न्यहनद्द्विषतां पूगान्गतासूनन्तको यथा ॥ ८.५५.६१ ॥
他是射术最精湛者,在战场上以各式箭矢杀死敌军成群的人,如阎摩夺去生命一般。
8.55.62
गजवाजिमनुष्याणां शरीराणि शितैः शरैः ।
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत् ॥ ८.५५.६२ ॥
战士中的最强者,以利箭穿透象、马与人的身体,使他们的生命气息纷纷陨落。
8.55.63
शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः ।
छित्त्वा तानवधीच्छत्रून्पाण्ड्यः शक्र इवासुरान् ॥ ८.५५.६३ ॥
他以箭矢斩断敌军主要勇士的兵器与各种武器,般荼耶杀死那些敌人,如因陀罗杀死阿修罗。