摩诃婆罗多 · 章 8.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.73.1
इत्येवमुक्तस्तु जनार्दनेन ।
पार्थः प्रशस्याथ सुहृद्वचस्तत्।
ततोऽब्रवीदर्जुनो धर्मराज… ।
मनुक्तपूर्वं परुषं प्रसह्य ॥ ८.७३.१ ॥
janārdana如此说后,pārtha赞扬了朋友的那些话。随后,arjuna强行对法王说出了从未有过的严厉言辞。
8.73.2
मा त्वं राजन्व्याहरस्वाद्य पापं ।
त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य।
भीमस्तु मामर्हति गर्हणाय ।
यो युध्यते सर्वलोकप्रवीरैः ॥ ८.७३.२ ॥
哇国王啊,现在不要说恶言。你站在一克罗舍之外。然而与世界上所有杰出英雄作战的般若(bhīma),才应当受到责备。
8.73.3
काले हि शत्रून्परिपीड्य वीरो ।
हत्वा प्रवीरान्वसुधाधिपानाम्।
रथप्रधानोत्तमनागमुख्या ।
युधिप्रवीरा निहताश्च शूराः ॥ ८.७३.३ ॥
英雄适时地压迫敌人,杀死了地上诸王的杰出英雄。车战的首领、最优秀的象兵统领以及战场上的勇士、英雄们都被杀死了。
8.73.4
सुदुष्करं कर्म करोति भीमः ।
कर्तुं यथा नार्हति कश्चिदन्यः।
रथादवस्कन्द्य गदां परामृशं… ।
स्तथा रणे हन्ति तथैव वारणान् ॥ ८.७३.४ ॥
般若(bhīma)完成了极其艰难的功业,他人无法做到。他从战车跃下,手持铁棒,在战场上也同样地杀死象群。
8.73.5
स कुञ्जराणामधिकं सहस्रं ।
हत्वा नदंस्तुमुलं सिंहनादम्।
काम्भोजवानायुजपार्वतीया… ।
नीहामृगाभान्विनिहत्य वाजिनः ॥ ८.७३.५ ॥
他杀死了一千多头象,并发出惊天动地的狮子吼。他又杀死了劫波、伐那郁和山地国家的马匹,它们如尼哈鹿一般。
8.73.6
महारथान्दविरदाञ्शैलकल्पा… ।
न्सहेत यः कुञ्जरान्वध्यमानान्।
असौ भीमो धार्तराष्ट्रेषु मग्नः ।
स मामुपालब्धुमरिन्दमोऽर्हति ॥ ८.७३.६ ॥
能够抵挡如山岳般的大车勇士、发情的象群以及正被杀戮的大象的那位——这位毗摩在持国之子中陷入了重围。这位制敌者有资格责备我。
8.73.7
वरासिना चाथ नराश्वकुञ्जरां… ।
स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्।
प्रमृद्य पद्ध्यामहितांस्तु हन्ति ।
पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥ ८.७३.७ ॥
用上好的剑砍杀人、马和象;同样用战车轮与弓打击敌人。用脚踩碎敌人,杀死对手,又以双臂相搏——他的勇武如同因陀罗。
8.73.8
महाबलो वैश्रवणान्तकोपमः ।
प्रसह्य हर्ता द्विषतां यशांसि।
स भीमसेनोऽर्हति गर्हणाय ।
न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः ॥ ८.७३.८ ॥
大力者,如同毗湿奴之敌(阎摩)般的毁灭者,以力夺取敌人的声誉——那毗摩森纳不值得责备。而你却总是受到朋友们的守护。
8.73.9
कलिङ्गवङ्गाङ्गनिपादमागधा… ।
न्सदा महाशैलवलाहकोपमान्।
निहन्ति यः शत्रुगणाननेकशः ।
स मां हि वक्तुं प्रभवत्यमानगसम् ॥ ८.७३.९ ॥
那些卡林伽、班伽、安伽、尼沙达与摩揭陀的战士,总如巨大的山云般威武——能屡次击杀敌军的那位,这位无瑕之人,才有资格与我说话。
8.73.10
संयुक्तमास्थाय रथं हि काले ।
धनुर्विधून्वञ्छरपूर्णमुष्टिः।
सृजेच्च यो बाणसङ्घान्परेषु ।
महाबलो मेघ इवाम्बुधाराः ॥ ८.७३.१० ॥
适时登上套好的战车,摇动弓,手中满握箭矢——向敌人射出箭雨的那位大力者,如同云中倾泻的水流。
8.73.11
शतान्यष्टौ वारणानामदर्शय… ।
द्विशातितैः कुम्भघटाग्रहस्तैः।
यो भीमसेनो निहतारिसङ्घः ।
स मामुपालब्धुमरिन्दमोऽर्हति ॥ ८.७३.११ ॥
他展示了八百头象……二百头以手按在象额上。斩杀敌众的毗摩先那,那位降敌者有资格责备我。
8.73.12
रथाश्च नागाश्च हयाश्च राज… ।
न्भीमेनाजौ निहताः सङ्घशोऽद्य।
राजानश्च बहवो महाबलाः ।
स मामुपालब्धुमरिन्दमोऽर्हति ॥ ८.७३.१२ ॥
战车、象和马……大王,今日在战斗中被毗摩先那成群杀死,还有许多大力的国王。那位降敌者有资格责备我。
8.73.13
धृतराष्ट्रपुत्रा बलिनश्च येन ।
महाबला निहताः प्रायशो वै।
शूरो युद्धे ह्यप्रतिवार्यवीर्यः ।
स मामुपालब्धुमरिन्दमोऽर्हति ॥ ८.७३.१३ ॥
持国之子,那些强大者,被他杀死——大多是大力者。战场上的英雄,威力不可抵挡——那位降敌者有资格责备我。
8.73.14
प्रतापयंस्तद्बलमुग्ररूपं ।
योऽसौ रमे धार्तराष्ट्रस्य वीरः।
एकः सहेताप्रतिसह्यपौरुष… ।
स्तेनास्मि वाच्यो न त्वया वै कदाचित् ॥ ८.७३.१४ ॥
灼烧那凶猛的大军……独自一人,英雄,能承受持国之子(难敌)不可抵挡的威势……我不是你可以称为盗贼的人,永远不是。
8.73.15
महारथा यत्र यत्रैव युद्धे ।
भिन्दन्ति सैन्यं तव कामतोऽद्य।
तत्रैव तत्रैव रणे महात्मा ।
दृढं भीमः परसङ्घानमृद्रात् ॥ ८.७३.१५ ॥
无论大战车武士今日在战场上随意冲破你的军队之处,正在那里,毗摩以大勇之心坚定地碾碎敌方大军。
8.73.16
तेनास्मि वाच्यो न त्वया हं कदाचि… ।
न्मा मा वोचः क्रूरमिहाद्य पार्थ।
नास्मद्विधो वै भवता तु वाच्यो ।
यथा भवान्सर्वलोकस्य वाच्यः ॥ ८.७३.१६ ॥
我不应被他所言;你从未……。普利塔之子啊,今天在此不要对我说残酷的话。像我们这样的人,你不该如此说,正如你对所有人所说的那样。
8.73.17
एवं हि मा ते ब्रुवतो नरेन्द्र ।
कथं न दीर्येच्छतधाऽद्य जिह्वा।
अहो बतेदं सुनृशंसरूपं ।
कामादवोचस्त्वमिहाद्य यद्वै ॥ ८.७३.१७ ॥
你这样说话,为何今天你的舌头没有裂成一百片?唉,这是何等残酷的形态,你今日在此出于欲望所说的话。
8.73.18
बलं न वाधिष्ठितं सत्तमानां ।
यत्क्षत्रियाणां बहुलं वदन्ति।
त्वं चाबलो भारत निष्ठुरोऽसि ।
त्वमेव मां वेत्सि यथाविधोऽहम् ॥ ८.७३.१८ ॥
人们常说刹帝利之力,并不依赖于善人中的贤者。婆罗多之子啊,你软弱而狠毒;我是怎样的人,你自己清楚。
8.73.19
नकुलेन राजन्गजवाजियोधा ।
हताश्च वीराः सहसा समेत्य।
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी ।
स मामुपालब्धुमरिन्दमोऽर्हति ॥ ८.७३.१९ ॥
大王啊,那些象兵、骑兵和勇士被那罗俱罗突然聚集而来,在战斗中舍弃生命而被杀。那位渴望战斗的降敌者,有资格责备我。
8.73.20
कृतं कर्म सहदेवेन दुष्करं ।
यो युध्यते परसैन्यावमर्दी।
न चाब्रवीत्किञ्चिदिहागतो बली ।
पश्यान्तरं तस्य चेवात्मनश्च ॥ ८.७३.२० ॥
偕天完成了艰难的事业,在击溃敌军的同时作战。那位来到此处的强者什么也没说。请看他与你之间的差别。
8.73.21
धृष्टद्युम्नः सात्यकिर्द्रौपदेया ।
युधामन्युश्चोत्तमौजाः शिखण्डी।
एतेऽद्य युधि सम्प्रपीडिता… ।
स्ते मामुलपालब्धुमर्हन्ति न त्वम् ॥ ८.७३.२१ ॥
持国之战中,法利西陀尤姆那、萨谛奇、德劳帕蒂之子、尤陀摩尤、乌德陀摩遮和湿坷丹迪——今日他们在战斗中饱受煎熬,他们可以责备我,而不是你。
8.73.22
त्वन्मूलमस्माभिरिदं हि वैरं ।
प्राप्तं तथा व्यसनं चातिघोरम्।
द्यूप्रमत्तेन कृतं त्वयाऽसकृ… ।
त्कस्मादुपालब्धुमिहार्हसि त्वम् ॥ ८.७३.२२ ॥
这场以你为根源的仇怨降临到我们身上,同时也降临了极为可怕的灾祸。你沉迷于骰戏,一再所为,为何你有资格在这里责备我?
8.73.23
त्वमेव राजन्सततं प्रमत्त… ।
स्त्वमेव मूढो भारतानामसाधुः।
त्वां प्राप्य राज्यं च विनष्टमेत… ।
त्प्राप्ता महत्पाण्डवाश्चापि दास्यम् ॥ ८.७३.२३ ॥
大王啊,唯独你一直放纵懈怠;在婆罗多族中,唯独你是愚昧而邪恶的人。因你之故王国毁灭,伟大的般度五子也沦为奴仆。
8.73.24
त्वत्तः कृतोऽस्मकद्वनवासदुःखं ।
राज्यस्य नाशो ह्यभिमन्योश्च घोरः।
आत्मानमेवं सुनृशंसरूपं ।
ज्ञात्वा किमर्थं गर्हसे माद्य वीर ॥ ८.७३.२४ ॥
因你之故,我们遭受了林中流放之苦,王国丧失,阿毗曼尤也惨遭杀害。你既然知道自己本性如此残忍,英雄啊,今日为何还要责备我?
8.73.25
लज्जस्व राजन्यदि तेऽस्ति लज्जा ।
तूष्णीम्भूतः पश्य सर्वं कृतघ्नः।
भीमो नित्यं समरस्य कर्ता ।
दर्पस्य भेत्ता पुनरेव नित्यम् ॥ ८.७३.२५ ॥
国王啊,若你还有羞耻之心,就应当羞愧。默然注视这一切吧,忘恩负义之人!怖军总是在作战,也总是摧毁傲慢。
8.73.26
स्वयं ह्यशक्तेन नरेन्द्र युद्धे ।
नरेण कार्या सततं क्षमैव।
बलं हि वाचि द्विजसत्तमानां ।
क्षात्रं द्विजा बाहुबलं वदन्ति ॥ ८.७३.२६ ॥
人主啊,自己在战斗中无能为力的人,应当始终坚持忍耐。最优秀婆罗门的力量在于言语;再生者们说刹帝利的力量在于臂力。
8.73.27
त्वं वाग्बलो भारत निष्ठुरोऽसि ।
त्वमेव मां वेत्सि यथाविधोऽहम्।
घटामि नित्यं तव कर्तुमिष्टं ।
दारैः सुतैर्जीवितेनात्मना च ॥ ८.७३.२७ ॥
婆罗多之子啊,你以言语为力,且严厉。你自己知道我是怎样的人。我始终以妻子、儿子、生命和自身,努力去做你所愿的事。
8.73.28
एवञ्च मां वाक्छलाकैर्हिनत्सि ।
त्वत्तः सुखं न वयं विद्म किञ्चित्।
मा मामवंस्था द्रौपदीतल्पकसंस्थो ।
महारथान्प्रतिहन्मि त्वदर्थे ॥ ८.७३.२८ ॥
你就这样以尖刻的言语之箭伤害我。我们从未从你那里得到过任何快乐。不要轻视我。为了你,我将击杀大战车武士,即便是那个曾躺在德劳帕蒂床上的人。
8.73.29
सर्वातिशङ्की भवसि प्रमत्त… ।
स्त्वत्तः सुखं नाभिजानामि किञ्चित्।
प्रोक्तः स्वयं सत्यसन्धेन मृत्यु… ।
स्तव प्रियार्थं नरदेव युद्धे ॥ ८.७३.२९ ॥
你对一切过分猜疑且疏忽大意……从你那里我不知道任何快乐。信守诺言者自己曾说起死亡……为了你的喜悦,哦人主,在战斗中。
8.73.30
शिखण्डिनाम्ना प्रधने तवार्थे ।
मयाभिगुप्तेन हतश्च भीष्मः।
द्रोणो हतो यः सततोपकारी ।
धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः ॥ ८.७३.३० ॥
在战斗中为了你,毗湿摩被名为湿伽丁的人杀死,他由我护卫;德罗纳,常常施恩于人,被德里什塔尤姆纳从战车上拖下而杀死。
8.73.31
द्रौणिश्च रुद्धः सगणो महात्मा ।
तथापि ते वै वचनं नृशंसवत्।
दुःखं प्रियं ते नरदेव कर्तुं ।
यस्य प्रियं ते न करोम्यहं वै ॥ ८.७३.३१ ॥
德罗纳之子、伟大心灵的阿湿缚萨曼连同他的部队被阻挡;然而你的话如同残酷之人的话。哦人主,为了你的喜悦而造成痛苦……我确实没有为他做你所珍视的事。
8.73.32
न युच्यते वै दिवि चेह यः पुमा… ।
न्यस्ते मदन्योऽप्रियमारभेत।
न चाभिनन्दामि तथाहि राज्यं ।
यतस्त्वमक्षेषु दृढं प्रसक्तः ॥ ८.७३.३२ ॥
在此处和天界都无法达到的那个人……除我之外,不要让任何人开始对你不利的事情。因此我不以王国为乐,因为你牢牢沉迷于骰子。
8.73.33
स्वयं कृतं पापमनार्यजुष्ट… ।
मस्माभिराजौ व्यसनं तितीर्षसि
अक्षेषु दोषा बहवो विधर्म्याः ।
श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ॥ ८.७३.३३ ॥
自作之罪,为不善者所行……你想要与我们在战斗中渡过这场灾难。赌博中有许多违背法度的过失,你已听闻,那些是偕提婆所说的。
8.73.34
तान्नेच्छसि त्यक्तुमनार्यजुष्टा… ।
न्घोरे स्म सर्वे निरये त्वयाऽस्ताः।
त्वं देविता त्वत्कृते राज्यनाशं… ।
स्त्वत्सम्भवं व्यसनं नो नरेन्द्र ॥ ८.७३.३४ ॥
不善者所行之事,你不愿舍弃……在可怕的地狱中,你已将众人抛入。你是赌徒;因你之故,王国的丧失……由你而生的这灾难落在我们身上,人主啊。
8.73.35
मास्मान्क्रूरैर्षाक्प्रतोदैस्तुदस्त्वं ।
भूयो राजन्कोपयस्यल्पबुद्ध्या ॥ ८.७३.३५ ॥
以残酷的……不要用你的刺棒刺我们。国王啊,你又以浅薄的心智激起愤怒。
8.73.36
एता वाचः परुषाः सव्यसाची ।
स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम्।
विनिः श्वसञ्ज्येष्ठमनिष्टमुक्त्वा ।
ततस्तु कोशादसिमुद्वबर्ह ॥ ८.७३.३६ ॥
坚定誓言的偕授弓者,对人主说出这些严厉的话,深深叹息,向长兄说了不悦之言,然后从鞘中拔出了剑。
8.73.37
तमाह कृष्णः किमिदं पुनर्भवा… ।
न्विकोशमाकाशनिभं करोत्यसिम्।
प्रब्रूहि सत्यं पुनरुत्तरं सखे ।
वचः प्रवक्ष्याभि तवार्थसिद्धये ॥ ८.७३.३७ ॥
克里希那对他说:“这又是什么,你……?你把出鞘的剑变得如天空一般。朋友啊,请再说真实的回答;为了成就你的目的,我将说话。”
8.73.38
इतीव पृष्टः पुरुषोत्तमेन ।
सुदुःखितः केशवमाह पार्थः।
अहं हनिष्ये स्वशरीरमेत… ।
त्प्रसह्य येनाहितमुक्तवान्गुरुम् ॥ ८.७३.३८ ॥
最优秀的人如此询问,极度悲痛的普利塔之子对克舍瓦说:“我将杀死自己的身体……”他曾对师长强行说出这样的话。
8.73.39
निशम्य तत्पार्थवचोऽब्रवीदिदं ।
जनार्दनो धर्मभृतां वरिष्ठः।
प्रब्रूहि पार्थ स्वगुणानिहात्मन… ।
स्ततो हतात्मा भवसीति निश्चयः ॥ ८.७३.३९ ॥
听了普利塔之子的这些话,法之守护者中最优秀的遮那陀那说:“普利塔之子啊,在此说出你自己的德行……那么你便成为自我毁灭者,这是确定的。”
8.73.40
तथा तु कृष्णस्य वचो निशम्य ।
ततोऽर्जुनः प्राह धनुः प्रगृह्य।
युधिष्ठिरं धर्मभृतां वरिष्ठं ।
शृणुष्व राजन्निति दुर्वचः स्वयम् ॥ ८.७३.४० ॥
阿周那听了克里希纳的话,拿起弓,对法之守护者中最优秀的坚战说:“大王,请听”——他自己说出了这些严厉的话。
8.73.41
न मादृशोऽन्यो नरदेव विद्यते ।
धनुर्धरो देवमृते पिनाकिनम्।
अहं हि तेनानुमतो महात्मना ।
क्षणेन हन्यां सचराचरं जगत् ॥ ८.७३.४१ ॥
人主啊,除了神祇毗那基(湿婆),没有像我这样的弓箭手。得到那位大德的认可,我能在一瞬间毁灭整个动与不动的世界。
8.73.42
मया हि राजन्सदिगीश्वरा दिशो ।
विजित्य सर्वा भवतः कृता वशे।
स राजसूयश्च समाप्तदक्षिणः ।
सभा च दिव्या भवतो ममौजसा ॥ ८.७३.४२ ॥
大王啊,是我征服了所有方位及其护方神,使它们臣服于你。那场王祭以其布施圆满完成,你的神圣大殿也是凭借我的力量建成的。
8.73.43
पाणी पृषत्कालिखिताविमौ पुन… ।
र्धनुश्च सव्ये विततं सबाणम्।
पादौ च मे लक्षणतः प्रशस्तौ ।
न मादृशं युद्धगतं जयन्ति ॥ ८.७३.४३ ॥
我这双带着箭痕的手,左手持箭拉开的弓,以及因相貌而吉祥的双足——它们无法战胜像我这样投入战斗的人。
8.73.44
हता उदीच्या निहताः प्रतीच्याः ।
प्राच्या निरस्ता दाक्षिणात्या विशस्ताः।
संशप्तकानां किञ्चिदेवावशिष्टं ।
सर्वस्य लोकस्य हतं मयाऽर्धम् ॥ ८.७३.४४ ॥
北方之人被杀,西方之人被击倒,东方之人被驱逐,南方之人被砍杀。三穿甲者中只剩下少数——世界的一半已被我所杀。
8.73.45
शेते मया निहता शत्रुसेना ।
छिन्नैर्गात्रैर्भूमितले स्खलन्ती।
अनस्त्रज्ञान्नैव निहन्मि चास्त्रै… ।
स्तस्मान्न भस्मैव करोमि लोकान् ॥ ८.७३.४५ ॥
被我杀死的敌军,断肢躺在地上翻滚挣扎。对于不懂兵器之术的人,我不用兵器杀害,所以我不将世界化为灰烬。
8.73.46
जैत्रं रथं भीममास्थाय कृष्ण ।
यावच्छीघ्रं सूतपुत्रं निहन्तुम्।
राजा भवत्वद्य सुनिर्वृतोऽयं ।
कर्णं रणे नाशयितास्मि बाणैः ॥ ८.७३.४६ ॥
克里希那啊,登上这辆令人畏惧的胜利战车,尽快杀死御者之子吧——愿这位国王今日心满意足;我将在战场上以箭摧毁迦尔纳。
8.73.47
शरैरहत्वा कवचं विमोक्ष्ये ॥ ८.७३.४७ ॥
若未以箭杀死他,我将不会解下他的铠甲。
8.73.48
इत्येवमुक्त्वा पुनरेव पार्थो ।
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
विमुच्य शस्त्राणि धनुर्विसृज्य ।
कोशे च खङ्गं विनिधाय तूर्णम् ॥ ८.७३.४८ ॥
阿周那说罢,在持法者中最杰出的坚战面前放下兵器,弃置弓箭,迅速将剑插入鞘中。
8.73.49
स व्रीडया नम्रशिराः किरीटी ।
युधिष्ठिरं प्राञ्जलिरभ्युवाच।
प्रसीद राजन्क्षम यन्मयोक्तं ।
काले भवान्वेत्स्यति तन्नमस्ते ॥ ८.७३.४९ ॥
戴冠的阿周那羞愧地低下头,合掌对坚战说道:“大王,请息怒,宽恕我所说的话。时机到来,您自会明白。向您致敬。”
8.73.50
ततस्तु पादावुपगृह्य पार्थः ।
समुत्थितो दीप्ततेजाः किरीटि।
प्रसाद्य राजानममित्रसाहं ।
स्थितोऽब्रवीच्चैनमभिप्रतप्तम् ॥ ८.७३.५० ॥
于是,戴冠的阿周那,光辉灿烂的普利塔之子,抱住他的双脚,起身,安抚了这位战胜敌人的国王,然后站立着对这位极度痛苦的人说道。
8.73.51
याम्येष भीमं समराद्विमोक्तुं ।
सर्वात्मना सूतपुत्रं च हन्तुम्।
भवत्प्रियार्थं मम जीवितं हि ।
ब्रवीमि सत्यं तदवेहि राजन् ॥ ८.७३.५१ ॥
我现在就去从战场上救出怖军,并全心全意地诛杀御者之子。我的性命确实是为了您的喜悦;我说的是实话,大王,请您知道。
8.73.52
नेदं चिरात्क्षिप्रमिदं भविष्य… ।
दावर्ततेऽसावभियामि चैनम्।
अद्याप्यपुत्रा तेन हतेन राधा ।
कुन्ती मया वा तदिदं विद्धि राजन् ॥ ८.७३.५२ ॥
这不会等太久,很快就会发生……他正奔回来,我朝他走去。今天,随着他的死去,罗陀将失去儿子,或者我会让昆提失去儿子;大王,请您知道此事。