Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.92.1

प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम् ।
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः ॥ ८.९२.१ ॥

生主见到那作为诸神之分而聚集来的人,于是,大王,在自生者注视下开口说道。

8.92.2

उभावतिरथौ शूरावुभौ दृढपराक्रमौ ।
उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ ॥ ८.९२.२ ॥

二人皆为大车士,英勇者,力量坚定,行事相当,如执金刚者与执轮者一般。

8.92.3

अहो बत महद्युद्धं कर्णार्जुनसमागमे ।
भविष्यति महाघोरं वृत्रवासवयोरिव ॥ ८.९२.३ ॥

啊!在迦尔纳与阿周那相遇之时,将发生大战,极其可怖,如弗栗多与婆萨瓦之战。

8.92.4

प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत् ।
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः ॥ ८.९२.४ ॥

生主如此说罢,催促自生者:愿二人雄狮般的人物胜负相等,随其所愿。

8.92.5

कर्णार्जुनविवादेन मा नश्येदखिलं जगत् ।
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ॥ ८.९२.५ ॥

愿迦尔纳与阿周那之争不使整个世界毁灭。自生者啊,请说出那句话:愿此二人之胜利相等。

8.92.6

एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते ।
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम् ॥ ८.९२.६ ॥

如此被问之后,因为二人之胜负未定,大王,大梵天对生主如此说道。

8.92.7

द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ ।
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम् ॥ ८.९२.७ ॥

二人皆精通武艺,皆极为强勇猛烈;二人之战将使三界恐惧。

8.92.8

ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥ ८.९२.८ ॥

于是千眼者(因陀罗)在那里催促生主:“愿大德的般度之子必获胜利。”

8.92.9

मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः ।
विभर्ति च महातेजा धनुर्वेदमशेषतः ॥ ८.९२.९ ॥

他意志坚定,力量强大,英勇善战,学识精深,以苦行为财富;这位大光辉者完全掌握弓箭之术。

8.92.10

पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः ।
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं ॥ ८.९२.१० ॥

般度之子(阿周那)具足一切美德——此乃诸神之事,因为般度五子常年因林中流放等而极度受苦。

8.92.11

सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः ।
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ॥ ८.९२.११ ॥

此人具足苦行,全然有能,人中之牛凭其威德,或许不加思虑便能超越天命。

8.92.12

अतिक्रमे च लोकानामभावो नियतो भवेत् ।
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित् ॥ ८.९२.१२ ॥

若越过世界的界限,则诸世界的毁灭必定到来;我看不到两位愤怒的克里希纳在何处能够安住。

8.92.13

स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ ।
नरनारायणावेतौ पुराणावृषिसत्तमौ ॥ ८.९२.१३ ॥

这二人是世界的创造者,因此是人中雄牛。那洛与那罗延,这两位古老的仙人,是仙人中最优秀的。

8.92.14

अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ ।
नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा ॥ ८.९२.१४ ॥

他们自己不可被约束,却是世界的约束者;这二人是人中雄牛。无论天上还是人间,都没有人能与这二人相比。

8.92.15

अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः ।
सर्वदेवगणाश्चापि सर्वभूतानि यानि च।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत् ॥ ८.९२.१५ ॥

三界连同天仙、仙人与乾闼婆,以及所有诸神群和一切存在的众生,都追随这二人;依靠这二人的威力,整个世界得以运行。

8.92.16

कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः ।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥ ८.९२.१६ ॥

随他吧,人中雄牛、英雄毗迦尔坦之子迦尔纳可以获得善人的世界;但胜利应属于两位黑天。

8.92.17

वसूनां समलोकत्वं मरुतां वासमाप्नुयात् ।
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम् ॥ ८.९२.१७ ॥

愿他获得与婆修们同等的世界,以及摩录多的居所;与德罗纳和毗湿摩一起,在天界之巅受到尊崇。

8.92.18

क्लेशितो हि वने पार्थो दिर्घकालं पितामह ।
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः ॥ ८.९२.१८ ॥

祖父啊,帕尔塔在森林中长久受苦;因此,这位在苦行上更为殊胜的阿周那,愿他在战斗中获胜。

8.92.19

पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः ।
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह ॥ ८.९२.१९ ॥

往昔世尊曾宣告二黑天的胜利确定无疑。愿如此;向您致敬。主啊,祖父,请讲。

8.92.20

तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः ।
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः ॥ ८.९२.२० ॥

听完千眼者的话,世尊对卡尔纳与冠者二人的等同胜利只字未提。

8.92.21

तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे ।
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत् ॥ ८.९२.२१ ॥

因此祖父沉默之时,因陀罗的希望落空:胜利属于般度之子,而迦尔纳将死去。

8.92.22

ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥ ८.९२.२२ ॥

于是梵天与伊舍那对世界之主说道:愿伟大的般度之子胜利确定无疑。

8.92.23

मनस्वी जयतां शूरः कृतविद्यस्तपोधनः ।
बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ ८.९२.२३ ॥

他心志高远,是胜者中的英雄,精通学问,以苦行为财富,光辉伟大,完全掌握射箭之学。

8.92.24

अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ।
अतिक्रमे च लोकानामभावो नियतो भवेत् ॥ ८.९२.२४ ॥

凭借他的伟大,他或许会不加思虑地逾越天命;而若诸界被逾越,诸界的毁灭必然到来。

8.92.25

न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् ।
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ ॥ ८.९२.२५ ॥

我们不知道那两位愤怒的黑天在何处停留。那两位人中雄牛是世界与真实之物的创造者。

8.92.26

कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः ।
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः ॥ ८.९२.२६ ॥

愿这位折磨敌人的英雄、毗迦尔塔那之子迦尔纳得到善人的世界;但人间的胜利是确定的。

8.92.27

तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥ ८.९२.२७ ॥

两位神中之神如此说后,千眼因陀罗依梵天与自在天的命令召集一切众生,说出了这些话。

8.92.28

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः ॥ ८.९२.२८ ॥

你们已经听到两位世尊所说的、利益世界的话语。愿你们的烦恼如此消散,离开愤怒,获得寂静。

8.92.29

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष ।
विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा।
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः ॥ ८.९२.२९ ॥

一切众生听了因陀罗这番话,都感到惊异,大王;于是他们礼敬了他。那时,没有人说那两位人中雄狮的胜利是相等的。

8.92.30

व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः ।
नानारूपाणि विबुधा देवतूर्याण्यवादयन् ॥ ८.९२.३० ॥

诸神欢喜,降下芬芳的花雨,奏起形态各异的天界乐器。

8.92.31

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः ॥ ८.९२.३१ ॥

渴望目睹两位人中狮子无与伦比的车战对决,他们睁大惊讶的双眼,无暇察觉其他任何动作。