Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 9.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

9.25.1

गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत ।
वध्यमाने बले चैव भीमसेनेन संयुगे ॥ ९.२५.१ ॥

バーラタよ、パーンドゥの子が象の軍勢を討ち、戦場でビーマセーナによって軍が打ち倒されていたとき——

9.25.2

चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम् ।
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम् ॥ ९.२५.२ ॥

敵を制する ビーマセーナが杖を手に、怒れる死神のように命を奪いながら歩き回るのを我々は見た。

9.25.3

समेत्य समरे राजन्हतशेषाः सुतास्तव ।
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव।
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥ ९.२५.३ ॥

王よ、戦場で集まった生き残りのご子息たちは、クル族のドゥルヨーダナが見えなくなると、兄弟同士力を合わせてビーマセーナへ突進した。

9.25.4

श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः ।
दुर्विमोचनकश्चैव तथा दुर्विषहो बली ॥ ९.२५.४ ॥

シュルタルヴァー、サンジャヤ、ジャヤッセーナ、シュルターンタカ、ドゥルヴィモーチャナ、そして強力なドゥルヴィシャハ——

9.25.5

दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः ।
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः।
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम् ॥ ९.२५.५ ॥

ドゥルマルシャナ、スジャータ、勝利者ジャイトラ、大力のラヴィ——これら汝の息子たちは団結してビーマセーナに襲いかかり、四方から彼を包囲した。

9.25.6

ततो भीमो महाराज स्वरथं पुनरास्थितः ।
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥ ९.२५.६ ॥

その時、大王よ、ビーマは再び自分の戦車に乗り、汝の息子たちの急所に鋭い矢を放った。

9.25.7

ते कीर्यमाणा भीमेन पुत्रास्तव महारणे ।
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम् ॥ ९.२५.७ ॥

大戦でビーマに散らされた御子たちは、突風が象に襲いかかるようにビーマセナへと殺到した。

9.25.8

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह ।
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥ ९.२५.८ ॥

そこで戦場で激怒したビーマは、剃刀状の矢でドゥルマルシャナの首を素早く断ち、地に落とした。

9.25.9

ततोऽपरेण भल्लेन सर्वावरणभेदिना ।
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः ॥ ९.२५.९ ॥

次いで、あらゆる鎧を貫く別のバッラ矢で、大戦士ビーマはあなたの息子シュルタンタを討ち取った。

9.25.10

जयत्सेनं ततो विद्वा नाराचेन हसन्निव ।
पातयामास कौरव्यं रथोपस्थादरिन्दमः।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥ ९.२५.१० ॥

すると敵を征する者ビーマは鉄の矢でジャヤツェーナを射抜き、笑うかのようにそのカウラヴァを戦車の座から落とした。王よ、彼は車から地に落ち、たちまち息絶えた。

9.25.11

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।
शतेन गृघ्रवाजानां शराणां नतपर्वणाम् ॥ ९.२५.११ ॥

すると怒ったシュルタルヴァは、ああ尊者よ、禿鷹の羽と曲がった節を持つ百本の矢でビーマを射た。

9.25.12

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः ॥ ९.२५.१२ ॥

すると戦場で激怒したビーマは、勝利者にして大力のラヴィと、この三人を、毒と火のような三本の矢で打った。

9.25.13

ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः ।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ ९.२५.१३ ॥

彼らは打たれて戦車から地に倒れた。春に花で斑になったキンシュカの木が切り倒されたように。

9.25.14

ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः ।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥ ९.२५.१४ ॥

そこで敵を苦しめる者は、別の鋭い刃の矢で打ち、抜き難いそれで彼を死へと送った。

9.25.15

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥ ९.२५.१५ ॥

打たれたその車戦士中の最上の者は、自分の戦車から地に落ちた。山から風に折られたクータジャの木のように。

9.25.16

दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव ।
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ ९.२५.१६ ॥

次に彼は、あなたの息子たちであるドゥシュプラダルシャとスジャータを、戦いで軍の先頭にて二本ずつの矢で一人ずつ倒した。矢に貫かれた体の、その二人の最上の車戦士は倒れた。

9.25.17

ततः पतन्तं समरे अभिवीक्ष्य सुतं तव ।
भल्लेन पातयामास भीमो दुर्विपहं रणे ॥ ९.२५.१७ ॥

そこで戦いで倒れかかるあなたの息子を見て、ビーマは戦場で耐え難い刃の矢で彼を倒した。

9.25.18

स पपात हतो बाहात्पश्यतां सर्वधन्विनाम् ॥ ९.२५.१८ ॥

彼は打たれて倒れた。すべての弓兵が見守る中、腕から離れ落ちるように。

9.25.19

दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे ।
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात् ॥ ९.२५.१९ ॥

戦いで一人の者によって多くの兄弟が殺されるのを見て、怒りと焦燥に満ちたシュルタルヴァはビーマへと突進した。

9.25.20

विक्षिपन्सुमहच्चापं कार्तखरविभूषितम् ।
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून् ॥ ९.२५.२० ॥

金で飾られた巨大な弓を振りかざし、毒と火のような多くの矢を放ちながら。

9.25.21

स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे ।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥ ९.२५.२१ ॥

王よ、その大戦で彼はパーンダヴァの弓を断ち切った。そして弓を断たれた彼を、二十本の矢で覆った。

9.25.22

ततोऽन्यद्धनुरादाय भीमसेनो महाबलः ।
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत् ॥ ९.२५.२२ ॥

そして、別の弓を取った強大なビーマセーナは、あなたの息子を矢で覆い、「止まれ、止まれ!」と言った。

9.25.23

महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् ।
बादृशं समरे पूर्वं तम्भवासवयोर्युधि ॥ ९.२५.२३ ॥

二人の間に大いなる戦いが起こった。それは奇異で恐ろしいものだった。かつてバヴァとアーサヴァの間ですら、このような戦いは起きなかった。

9.25.24

तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः ।
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा ॥ ९.२५.२४ ॥

そこで二人の鋭く節のある、ヤマの杖のような矢によって、全空間と四方・四隅が覆われた。

9.25.25

अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः ।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥ ९.२५.२५ ॥

そこでシュルタルヴァは激怒し、弓を取り、王よ、戦いでビーマセーナの両腕と胸に矢を射かけた。

9.25.26

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना ।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥ ९.२५.२६ ॥

偉大な王よ、あなたの息子の弓手によって深手を負ったビーマは、満月の大海のように怒り、激しく揺れ動いた。

9.25.27

ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष ।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम् ॥ ९.२५.२७ ॥

そこで怒りに駆られたビーマは、尊い方よ、あなたの息子の御者と四頭の馬を矢でヤマの館へ送った。

9.25.28

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥ ९.२५.२८ ॥

戦車を失った彼を見て、無量の魂の持ち主は手さばきの妙技を示し、羽根のついた矢の雨を浴びせた。

9.25.29

श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी ।
अथास्याददतः खह्गं शतचन्द्रं च भानुमत्।
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः ॥ ९.२५.२९ ॥

王よ、戦車を失ったシュルタルヴァは剣と盾を取った。彼が輝くシャタチャンドラの剣を振り上げたとき、パーンダヴァは剃刀の鏃の矢で彼の首を胴から打ち落とした。

9.25.30

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना ।
पपात कायः स्वरथाद्वसुधामनुनादयन् ॥ ९.२५.३० ॥

偉大な者の剃刀の鏃の矢で首を断たれ、彼の体は自分の戦車から落ち、大地に響き渡った。

9.25.31

तस्मिन्निपतिते वीरे तावका भयमोहिताः ।
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ॥ ९.२५.३१ ॥

その英雄が倒れると、あなたの兵士たちは恐怖に惑わされ、戦いを求めてビーマセーナへ殺到した。

9.25.32

तानापतत एवाशु हतशेषाद्बलार्णवात् ।
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् ॥ ९.२५.३२ ॥

勇猛なビーマセーナは、軍勢の大海の残りから素早く襲いかかってくる鎧をまとった兵士たちを迎え撃った。

9.25.33

ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ ९.२५.३३ ॥

彼に近づくと、四方から彼を取り囲んだ。

9.25.34

ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः ।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥ ९.२५.३४ ॥

そして包囲されたビーマは、千眼のインドラが阿修羅を苦しめるように、鋭い矢であなたの兵すべてを苦しめた。

9.25.35

ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ ९.२५.३५ ॥

そして従者とともに五百人の大戦車兵を殺し、戦いでさらに七百頭の象の軍を打ち倒した。

9.25.36

हत्वा शतसहस्राणि पत्तीनां परमेषुभिः ।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ ९.२५.३६ ॥

最上の矢で数十万の歩兵と八百頭の馬を殺し、そのパーンドゥの子は輝いていた。

9.25.37

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ ९.२५.३७ ॥

クンティーの子ビーマセーナは戦いでお前の息子たちを殺し、自らを本望を遂げた者とし、己の生を実り多いものと思った、主よ。

9.25.38

तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् ।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप ॥ ९.२५.३८ ॥

そのように戦い、お前の兵を打ち倒す彼を、お前の軍勢は見ることさえできなかった、人の王よ。

9.25.39

विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान् ।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥ ९.२५.३९ ॥

クル族の全てを敗走させ、その歩兵を殺した後、両腕で雄叫びを上げ、大象たちを怯えさせた。

9.25.40

हतभूयिष्ठयोधा तु तव सेना विशामम्पते ।
किञ्चिच्छेषा महाराज कृपणं समपद्यत ॥ ९.२५.४० ॥

お前の軍の戦士の大部分は殺され、諸民族の主よ、わずかが残り、偉大な王よ、彼らは哀れな状態に陥った。