Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.33.1

एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥ ९.३३.१ ॥

杜尔敉陀那一再咆哮之时,极为愤怒的婆苏提婆(黑天)对坚战说了这番话。

9.33.2

यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर ।
अर्जुनं नकुलं चैव सहदेवमथापि वा ॥ ९.३३.२ ॥

坚战啊,若他在战场上挑战你,或挑战阿周那、无种、偕天,那才是合宜的。

9.33.3

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥ ९.३३.३ ॥

国王啊,你为何说出这般鲁莽的话?在战场上只杀一人,便成为俱卢族之王——这是何等的大胆?

9.33.4

एतेन हि कृता योग्या वर्षाणीह त्रयोदश ।
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥ ९.३३.४ ॥

国王啊,他为了杀害婆摩森那,曾与一个铁人偶练习了十三年。

9.33.5

कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥ ९.३३.५ ॥

婆罗多之雄啊,他怎能完成此事?人中之王啊,你是出于怜悯才做出这般鲁莽之举的。

9.33.6

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥ ९.३३.६ ॥

在战场上,我看不出能与他对敌的人,除了狼腹(婆摩森那)和普利塔之子阿周那;而他们也并未过度疲劳。

9.33.7

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।
विषमं शकुनेश्चैव तव चैव विशेषतः ॥ ९.३३.७ ॥

这场掷骰子的赌局又像从前一样开始了;它不公平,尤其对沙古尼和您而言。

9.33.8

बली भीमः समर्थश्च कृती राजा सुयोधनः ।
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥ ९.३३.८ ॥

怖军强大而有能力,国王苏提陀那则熟练;无论强或巧,大王啊,熟练者才更为出众。

9.33.9

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥ ९.३३.९ ॥

大王啊,您让那敌人站在平坦的道路上,又把自身也押上了;在极其不均的境况中,您使我们陷入困境。

9.33.10

कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा ।
कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्।
पातितश्चैकबाणेन शोचयेदेवमाहवे ॥ ९.३३.१० ॥

谁能在战胜了所有敌人之后,被一个敌人逼入困境,从而失去所得的王国?在战斗中被一支箭射倒的人,又岂会如此悲叹?

9.33.11

न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे ।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि ॥ ९.३३.११ ॥

我在世上找不到一个能在今日战斗中战胜手持金刚杵的难敌的人,即使是天神也不能。

9.33.12

फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा ।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥ ९.३३.१२ ॥

无论是法尔古那(阿周那)、您,还是玛德利的两个儿子——我认为他们中没有人能在战斗中与手持金刚杵的他匹敌。

9.33.13

न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः ।
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः ॥ ९.३३.१३ ॥

你、毗摩、那古拉、萨诃德瓦,或法尔古那(阿周那),都不能依正法取胜;只有善战的国王苏由陀那能够取胜。

9.33.14

स कथं वदसे शत्रुं युध्यस्व गदयेति हि ।
एकं च नो निहत्याजौ भव राजेति भारत ॥ ९.३३.१४ ॥

他怎么说:「用钉头槌与敌人作战」?啊,婆罗多,在战场上杀死我们中的一人,然后成为国王吧。

9.33.15

वृकोदरं समासाद्य संशयो वै जये हि नः ।
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥ ९.३३.१५ ॥

一旦遭遇狼腹(毗摩),我们的胜利确实令人怀疑;在依正法作战者中,他既善战又有大力。

9.33.16

नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः ।
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ॥ ९.३३.१६ ॥

的确,这一般的潘度和贡蒂之后裔并非王国的份额;他们被创造出来,只为了长久的林居流放,或再次行乞。

9.33.17

मधुसूदन माकार्षीविषादं यदुनन्दन ।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥ ९.३३.१७ ॥

啊,摩dhu杀者,啊,雅度族的欢喜,不要悲伤。今天我将渡过这极难渡过的怨仇,到达彼岸。

9.33.18

अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः ।
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते ॥ ९.३३.१८ ॥

我必定在战场上杀死苏由陀那,毫无疑问。啊,黑天,法王的胜利显然是确定的。

9.33.19

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् ॥ ९.३३.१९ ॥

毗摩说:我的这根铁杵重一倍半,但对持国之子而言并非如此。摩陀婆啊,不要让他受苦。

9.33.20

अनया गदयानाहं संयुगे योद्धुमुत्सहे ।
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन ॥ ९.३३.२० ॥

毗摩说:我愿以此铁杵在战场上作战。遮那陀那啊,愿你们所有人都做我的见证者。

9.33.21

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् ॥ ९.३३.२१ ॥

毗摩说:克里希那啊,即便对抗三界诸神及持各种武器的众人,我也能在战场上作战;何况今日与苏yodhana相战呢。

9.33.22

तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् ।
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥ ९.३३.२२ ॥

瓦苏提婆见狼腹(毗摩)如此言语,欢喜地向他致敬,并说出了这番话。

9.33.23

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् ॥ ९.३३.२३ ॥

大臂者啊,依靠你,法王坚战将杀死敌人,毫无疑问地获得他自己光辉的荣耀。

9.33.24

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे ।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥ ९.३३.२४ ॥

在战场上,持国的所有儿子、国王、王子和象,都将被你杀死并击倒。

9.33.25

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ ९.३३.२५ ॥

般度之子啊,羯陵伽、摩揭陀、东方诸族、犍陀罗以及俱卢人,在大战中与你对阵,皆被杀死。

9.33.26

हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् ।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥ ९.३३.२६ ॥

贡蒂之子啊,连同杀死难敌,将这大地连同四海交给法王,如毗湿奴交给舍遮之主一般。

9.33.27

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति ।
त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि ॥ ९.३३.२७ ॥

在战场上遇到你,那罪恶的持国之子将会毁灭。你折断他的双腿,便能履行你的誓言。

9.33.28

यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः ।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥ ९.३३.२८ ॥

你必须全力与那罪恶的持国之子作战,因为他技艺高超、力量强大,并且总是以战斗为荣。

9.33.29

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर ॥ ९.३३.२९ ॥

于是,国王啊,萨提亚基以种种言辞赞美般度之子婆罗多子,人主啊。

9.33.30

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥ ९.३३.३० ॥

般遮罗人与般度之子们,以法王为首,都称赞了婆罗多子那番话。

9.33.31

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ ९.३३.३१ ॥

于是力大如斯的怖军对与srinjaya人同立、灼如太阳的坚战说道。

9.33.32

अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे ।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥ ९.३३.३२ ॥

我愿与他相遇于战场交战;这个最卑劣的人在战斗中不能胜过我。

9.33.33

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् ।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥ ९.३३.३३ ॥

今日我要将深藏心中的怒火倾泻于德兰史之子苏约达纳身上,如阿周那在渴婆林中放出火焰。

9.33.34

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहते गदया पापे अद्य राजन्सुखी भव ॥ ९.३३.३४ ॥

啊,般度之子,今日我要拔出你心中的刺。国王啊,那恶人以铁杵被杀之后,你今日便安乐吧。

9.33.35

अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥ ९.३३.३५ ॥

无罪者啊,今日我要再为你献上以荣耀编织的花环。今日苏约达纳将舍弃他的性命、福祉与王国。

9.33.36

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ ९.३३.३६ ॥

国王德兰史,今日听闻其子被我所杀,将会想起那由沙恭尼之计所生的恶行。

9.33.37

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ ९.३३.३७ ॥

说罢,婆罗多族最优秀的勇士举起铁棒,起身应战,犹如因陀罗向弗栗多挑战。

9.33.38

तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् ।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् ॥ ९.३३.३८ ॥

你那位极其勇猛的儿子不能忍受这挑战,立即迎上前去,犹如发情的象遇到另一头发情的象。

9.33.39

गदाहस्तं तव सुतं युद्धाय समुपस्थितम् ।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम् ॥ ९.३३.३९ ॥

所有般度之子看见你的儿子手持铁棒、准备好应战,犹如带着峰峦的吉罗娑山。

9.33.40

तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् ।
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥ ९.३३.४० ॥

般度之子们接近独自一人的那位大力的持国之子,欢欣鼓舞,犹如离群的象。

9.33.41

न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा ।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे ॥ ९.३३.४१ ॥

杜尔敉檀无慌乱,无恐惧,无疲惫,无痛苦;他在战场上如狮子般屹立。

9.33.42

समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम् ।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥ ९.३३.४२ ॥

看见他高举铁棒,犹如带峰的吉罗娑山,大王啊,那时毗摩森那对杜尔敉檀说道。

9.33.43

राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् ।
स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते। ॥ ९.३३.४३ ॥

国王持国啊,请想起你与国王对我们所做的那恶行,即在婆罗那伐多发生的那件事。

9.33.44

द्रौपदी च परामृष्टा समामध्ये रजस्वला ।
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात् ॥ ९.३३.४४ ॥

德劳帕蒂正值经期,在会场中被抓住;国王在赌博中因沙恭尼的狡诈之智而受骗。

9.33.45

यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि ।
अनागासु च पार्थेषु तस्य पश्य महत्फलम् ॥ ९.३३.४५ ॥

还有你对无辜的普利塔之子所犯下的其他罪孽,恶意之人啊,看看那巨大的果报吧。

9.33.46

त्वत्कृते निहतः शेते शरतल्पे महायशाः ।
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ ९.३३.४६ ॥

因你而被杀的,声名显赫的恒河之子,婆罗多族中最优秀者,我们所有人的祖父,正躺在箭床上。

9.33.47

हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान् ।
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे ॥ ९.३३.४७ ॥

德罗纳被杀,迦尔纳被杀,威猛的沙利耶也已逝去;最先点燃仇恨之火的沙恭尼,也在战场上被杀。

9.33.48

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥ ९.३३.४८ ॥

你那英勇的兄弟们被杀,你的儿子们连同他们的军队被杀,那些在战场上从不退缩的勇敢国王也被杀。

9.33.49

एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥ ९.३३.४९ ॥

这些人及其他许多刹帝利中的雄牛已被杀死,折磨德罗波蒂的恶人波罗提迦明也已被杀。

9.33.50

अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥ ९.३३.५० ॥

只剩你一人了,灭族的卑劣之人。今日我也要用钺杖杀你,此事毫无疑问。

9.33.51

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् ॥ ९.३३.५१ ॥

大王,今日在战场上,我要毁灭你所有的傲慢、你对王国的庞大希冀,以及你对般度之子所行的恶行。

9.33.52

किं कत्थितेन बहुना युध्यस्वाद्य मया सह ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥ ९.३३.५२ ॥

何必多言夸口?今日便与我交战吧。狼腹啊,今日我要消除你的战意。

9.33.53

किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् ।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥ ९.३३.५३ ॥

恶人啊,你没看见我已经站好,准备与你进行钺杖之战,手持如喜马拉雅山峰般巨大的钺杖吗?

9.33.54

गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः ।
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः ॥ ९.३३.५४ ॥

恶人啊,今日哪个敌人敢杀我这持钺杖者?我依正义作战时,即使是诸神中的破城者因陀罗,也不敢如此。

9.33.55

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते ॥ ९.३३.५५ ॥

贡蒂之子啊,不要徒然咆哮,就像没有雨水的秋云。在战斗中展示你的力量吧,趁我还未夺走你的性命。

9.33.56

तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः ।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥ ९.३३.५६ ॥

般度之子与苏摩耶人听到他的话,皆渴望胜利,纷纷称赞了这番言辞。

9.33.57

उन्मत्तमिव मातङ्गं तलशब्देन मानवाः ।
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः ॥ ९.३३.५७ ॥

国王啊,正如以拍掌之声激怒发狂的象,敌人们拍手,再次激励了难敌。

9.33.58

बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥ ९.३३.५८ ॥

那里大象吼叫,战马屡屡嘶鸣;渴望胜利的般度之子们的兵器闪闪发光。