Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.34.1

…सुसंवृत्ते सुदारुणे ।
… पाण्डवेषु महात्मसु ॥ ९.३४.१ ॥

……在极其可怕的情况下展开时……在般度之子、伟大的人们之中。

9.34.2

ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥ ९.३४.२ ॥

于是持棕榈旗的罗摩听说那两位弟子的战斗已经开始,大王啊,手持犁的他来了。

9.34.3

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः ।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् ॥ ९.३४.३ ॥

般度之子们见到他,极为欢喜,与克沙瓦一同走近,拥抱他,并依礼向他致敬。

9.34.4

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् ।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥ ९.३४.४ ॥

向他致敬之后,他们说道:“请看,罗摩啊,你那两位弟子在战斗中的技艺,大王。”

9.34.5

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् ।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥ ९.३४.५ ॥

那时,罗摩看见与般度之子在一起的克里希那,以及手持权杖站立的俱卢之子难敌,便开口说道。

9.34.6

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै ।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव ॥ ९.३४.६ ॥

自我出发至今已四十二日;我在补沙星宿下出发,在听宿星宿下回来。摩陀婆啊,我想观看我两位弟子的棍棒之战。

9.34.7

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥ ९.३४.७ ॥

于是国王坚战拥抱了犁杵者,向他致以欢迎,并如实询问他是否安好。

9.34.8

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ ॥ ९.३४.८ ॥

两位大弓手、声名卓著的克里希那向犁杵者恭敬行礼,满心欢喜地拥抱了他。

9.34.9

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥ ९.३४.९ ॥

大王啊!摩陀罗的两位勇士之子与德罗巴蒂的五个儿子,向大力的罗希尼之子致敬后,肃立一旁。

9.34.10

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप ।
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥ ९.३४.१० ॥

人主啊!那时强大的怖军与你的儿子也高举鹿头棍,向大力罗摩致敬。

9.34.11

स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः ।
पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥ ९.३४.११ ॥

他们在那里一再欢迎并礼敬罗摩,对罗摩说:“啊,大臂者,请观看这场战斗!”

9.34.12

एवमुचुर्महात्मानं रौहिणेयं नराधिपाः ॥ ९.३४.१२ ॥

众王这样对伟大的罗希尼之子说。

9.34.13

परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् ।
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥ ९.३४.१३ ॥

于是罗摩与般度之子及斯林遮耶人相拥,并询问所有无量威力诸王的安好。他们也走近他,询问他的安康。

9.34.14

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः ।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः ॥ ९.३४.१४ ॥

犁者(大力罗摩)以礼还敬所有大德的刹帝利,询问他们的安好,并依年龄互致问候。

9.34.15

जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे ।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥ ९.३४.१५ ॥

他深情地拥抱了阇那达那与萨蒂亚基,嗅其头顶,询问他们的安好。

9.34.16

तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् ।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ॥ ९.३४.१६ ॥

大王啊,二人依礼恭敬那位长者,如因陀罗与优本陀罗欢喜地礼敬天神之主梵天。

9.34.17

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् ।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥ ९.३४.१७ ॥

于是法之子对摧敌者罗呵尼耶(大力罗摩)说:“罗摩啊,请看这两兄弟的大战,婆罗多的后裔啊!”

9.34.18

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥ ९.३४.१८ ॥

大臂、光荣的克舍婆(黑天)之兄,极为欢喜地进入他们中间,受到大车战士们的礼敬。

9.34.19

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः ॥ ९.३४.१९ ॥

他立于诸王之中,身着蓝衣,白光照耀,如同天空中被星群环绕的月亮一般光彩夺目。

9.34.20

ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः ।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः ॥ ९.३४.२० ॥

于是,大王,两人欲终结仇怨,二人之间爆发了一场喧嚣、令人毛骨悚然、致人死命的激烈冲突。