摩诃婆罗多 · 章 9.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.40.1
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः ।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥ ९.४०.१ ॥
罗摩持犁者在那里停留,敬重了修行处的居住者,也对芒伽纳迦表示了吉祥的情谊。
9.40.2
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च ।
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली ॥ ९.४०.२ ॥
他向再生者布施,那夜禁食,受到众仙人的尊敬,黎明起身的持犁者便出发了。
9.40.3
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत ।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥ ९.४०.३ ॥
婆罗多啊,大力的罗摩向所有仙人告别,触摸了水,便急速前往一处圣渡口。
9.40.4
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः ।
कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥ ९.४०.४ ॥
于是持犁者来到乌尚那萨圣渡口,名为卡帕拉摩叉那,大仙在那里获得解脱。
9.40.5
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः ।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥ ९.४०.५ ॥
大王啊,大王,那罗刹之巨大头颅躺在那里——他的小腿被抓住,腹部硕大,往昔被罗摩掷出。
9.40.6
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना ।
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः।
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥ ९.४०.६ ॥
往昔,大德的迦维耶(室建陀)曾在那里修苦行;他的全部治国之道在那里生起;他站在那里,思索着提婆与檀那婆的争斗。
9.40.7
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् ।
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥ ९.४०.७ ॥
大王啊,巴罗抵达那最殊胜的圣渡口后,依仪轨将财物布施给了伟大的婆罗门。
9.40.8
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः ।
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥ ९.४०.८ ॥
婆罗门啊,那位大仙在迦波罗摩竭那里是如何获得解脱的?他的头又因何缘故粘住了?
9.40.9
पुरा वै दण्डकारण्ये राघवेण महात्मना ।
वसता राजशार्दूल राक्षसाञ्शमयिष्यता ॥ ९.४०.९ ॥
王中之虎啊,往昔大心的罗怙之子在檀荼迦林中居住,将要降伏罗刹之时……
9.40.10
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः ।
क्षुरेण शितधारेण तत्पणात महावने ॥ ९.४०.१० ॥
在Janasthāna,那恶心的罗刹之头被锋利的剃刀割下;因为那个赌约,在那大森林中……
9.40.11
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा ॥ ९.४०.११ ॥
大王啊,它偶然粘在了摩诃奥达罗的大腿上;他在林中游走时,刺穿了骨头,那时便开始跳动。
9.40.12
स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ ९.४०.१२ ॥
因为那粘在身上之物,那位再生者、大智慧者,当时不能前往圣渡口与圣所。
9.40.13
स पूतिना विस्रवता वेदनार्तो महामुनिः ।
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम् ॥ ९.४०.१३ ॥
那位大仙被流脓发臭的伤口折磨得痛苦不堪,据我们听说,他前往大地上所有的圣地渡口。
9.40.14
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः ।
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ ९.४०.१४ ॥
那位大苦行者走遍所有河流与海洋,将这一切告诉了心灵清净的仙人们。
9.40.15
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान् ।
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥ ९.४०.१५ ॥
他虽在所有圣地渡口沐浴,却未获得解脱。那位婆罗门之首于是听到了诸仙的大语。
9.40.16
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा ।
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम् ॥ ९.४०.१६ ॥
萨拉斯瓦蒂河的最上圣地渡口,名为乌尚那萨之渡,能平息一切罪过,是无上的成就之地。
9.40.17
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ॥ ९.४०.१७ ॥
那位再生者便从那里前往,抵达乌尚那萨的圣地渡口。
9.40.18
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ।
… च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥ ९.४०.१८ ॥
那时,在乌尚那萨的圣地渡口,他正在漱水净口,……(原文缺失)……松开脚,当即跌入水中。
9.40.19
विमुक्तस्तेन शिरसा परं सुखमवाप ह ।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो ॥ ९.४०.१९ ॥
他从头颅的束缚中解脱,获得了至高的安乐;那颗头颅,啊,伟大者,也消失在水中。
9.40.20
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः ।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥ ९.४०.२० ॥
于是他,免于痛苦,灵魂清净,远离污垢,欢喜而事成,大腹者,啊国王,返回了修行林。
9.40.21
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः ।
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ ९.४०.२१ ॥
于是这位大苦行者,获得解脱,前往那圣洁的修行林,把一切告诉了心性修养成熟的诸仙人。
9.40.22
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद ।
कपालमोचनमिति नाम चक्रुः समागताः ॥ ९.४०.२२ ॥
众仙人听了他的话,啊施敬者,聚集在那里的诸仙为那圣渡口取名为“颅骨解脱”。
9.40.23
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः ।
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः ॥ ९.४०.२३ ॥
那位大仙人也再次前往那最殊胜的圣渡口,饮下大量清水,于是便获得了成就。
9.40.24
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः ।
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा ॥ ९.४०.२४ ॥
在那里,摩陀婆施予众多布施,尊敬婆罗门,然后,啊王中之王,前往乌尚古的修行林。
9.40.25
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत ।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ॥ ९.४०.२५ ॥
婆罗多的后裔啊,那里阿尔史提舍那修过严苛的苦行;也在那里,大仙维什婆弥多罗获得了婆罗门的地位。
9.40.26
सर्वकामसमृद्धं च तदाश्रमपदं महत् ।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो ॥ ९.४०.२६ ॥
那片大修行处充满一切所欲之物;啊,主上,它常有仙人与婆罗门前来居住。
9.40.27
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः ।
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत् ॥ ९.४०.२७ ॥
于是,尊贵的执犁者大力罗摩被婆罗门们围绕着前往那里;啊,王中之王,那里正是乌商伽舍弃肉身之处。
9.40.28
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत ।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा ॥ ९.४०.२८ ॥
婆罗门乌商伽年事已高,恒常修行;婆罗多的后裔啊,他多方思量之后,便决心舍弃肉身。
9.40.29
ततः सर्वानुपादाय तनयान्वै महातपाः ।
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम् ॥ ९.४०.२९ ॥
于是大苦行者乌商伽召集了所有儿子,就在那里说道:"带我去普利图达卡。"
9.40.30
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः ।
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम् ॥ ९.४०.३० ॥
他们得知乌商伽已年过其时,那些以苦行为财富的仙人便把这位以苦行为财富的人带到了萨拉斯瓦蒂的圣渡口。
9.40.31
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् ।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ॥ ९.४०.३१ ॥
于是他的儿子们把这位智者带到圣洁的萨罗室伐蒂河,那里有百处圣渡口,婆罗门众常来此处。
9.40.32
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः ।
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः।
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥ ९.४०.३२ ॥
大王啊,他在那里依规矩沐浴,知晓圣渡口的功德,这位大苦行、最优秀的仙人十分欢喜,对侍奉他的诸子说道:人中虎啊。
9.40.33
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत् ॥ ९.४०.३३ ॥
若有人在萨罗室伐蒂河北岸、普利苏陀迦处,专心诵经,舍弃其身,则明日死亡不会折磨他。
9.40.34
इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम् ।
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः।
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः ॥ ९.४०.३४ ॥
说完这些,他舍弃自身,到达毗湿奴之处。在那里,这位法魂、持犁者、爱护婆罗门的人沐浴并洁净自己,又向婆罗门布施了许多应施之物……
9.40.35
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः ॥ ९.४०.३५ ॥
世界之祖——薄伽梵——在那里创造了诸世界。
9.40.36
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ।
तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥ ९.४०.३६ ॥
在那里,哦,俱卢之裔,持坚定誓愿的阿尔施提舍那,哦,大王,以大苦行获得了婆罗门身份,那位最优秀的仙人。
9.40.37
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः ।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः ॥ ९.४०.३७ ॥
信度洲与大苦行的王仙提婆毗在那里获得了婆罗门身份;同样,仙人毗首弥多罗也在那里获得了婆罗门身份。
9.40.38
महातपस्वीं भगवानुग्रतेजा महातपाः ।
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ॥ ९.४०.३८ ॥
强大而勇猛的大力(Balabhadra)——那位具有猛烈光辉与大苦行的世尊——来到了那里。