摩诃婆罗多 · 章 9.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.46.1
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः ।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि ॥ ९.४६.१ ॥
随后,依照典籍聚集了所有灌顶的物品,诃斯帕蒂按照规定在燃烧的火中献上供品。
9.46.2
ततो हिमवता दत्ते मणिप्रवरशोभिते ।
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने ॥ ९.४६.२ ॥
随后,他坐在喜马拉雅所赠、以上等宝石装饰、镶嵌神圣宝石的神圣至尊宝座上。
9.46.3
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् ।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ९.४६.३ ॥
诸神众人手持以一切吉祥之物、依仪轨与咒语准备好的灌顶器物,
9.46.4
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा ।
धाता चैव विधाता च तथा चैवानिलानलौ ॥ ९.४६.४ ॥
大力的因陀罗与毗湿奴、日与月、创造者与安排者,以及风与火,
9.46.5
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां ।
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥ ९.४६.५ ॥
与普善、薄伽、阿耶曼、毗沙之间的维婆薮之子,以及智慧的楼陀罗同行,还有弥多罗与伐楼那,
9.46.6
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ९.४६.६ ॥
主神被楼陀罗、婆苏、阿底提耶与双马童所环绕,与一切天神、摩录多、萨提亚神与祖先一同而来。
9.46.7
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा ॥ ९.४६.७ ॥
他被乾闼婆、阿普萨拉斯、夜叉、罗刹、蛇众,无数的天仙以及同样的梵仙所环绕。
9.46.8
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ॥ ९.४६.८ ॥
他被毗迦那萨、婆罗奇利耶、食风者、摩利支仙、婆利古、安吉罗娑、苦行者和大德者所环绕。
9.46.9
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ ९.४६.९ ॥
被所有持明者、有德者和瑜伽成就者所环绕;祖父(梵天)、补罗斯底耶与大苦行者补罗诃也在那里。
9.46.10
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ।
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ ९.४६.१० ॥
安吉罗娑、迦叶波、阿特里、摩利支、婆利古、克拉图、哈利、普罗奇塔斯、摩奴与达刹,同样在那里。
9.46.11
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते ।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ॥ ९.४६.११ ॥
季节、行星与光明之体,哦民主;有形的河流与永恒的吠陀也在那里。
9.46.12
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च ।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥ ९.४६.१२ ॥
海洋与湖泊,以及各种圣地渡口;大地、天空、方位与树木,哦人主。
9.46.13
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती ।
उमा शची सिनीवाली तथैवानुमतिः कुहूः ॥ ९.४६.१३ ॥
提提女神(诸神之母)、慧(Hrī)、吉祥天(Śrī)、斯瓦哈(Svāhā)、辩才天(Sarasvatī)、乌玛(Umā)、舍遮(Śacī)、西尼瓦利(Sinīvālī),同样还有阿努玛蒂(Anumati)与库胡(Kuhū)。
9.46.14
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ॥ ९.४६.१४ ॥
罗迦(Rākā)与迪沙那(Dhiṣaṇā),以及天界居民的其他妻子;喜马拉雅与温底耶山,还有多峰的须弥山。
9.46.15
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥ ९.४६.१५ ॥
爱罗婆多(Airāvata)与其随从,同样还有迦罗(kalā)与迦湿陀(kāṣṭhā)等时段,月份与半月,季节,昼与夜,大王。
9.46.16
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः ।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ ९.४६.१६ ॥
马中之上的乌恰ihsravas(Uccaiḥśravas),龙王婆苏吉(Vāsuki),阿录那(Aruṇa)与迦楼罗(Garuḍa),以及树木与草药。
9.46.17
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः ।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ ९.४६.१७ ॥
尊贵的法神(Dharma)也来了,众神齐聚;时间(Kāla)、阎摩(Yama)与死神(Mṛtyu),以及阎摩的随从们。
9.46.18
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः ॥ ९.४६.१८ ॥
因为数量众多,未被一一列举的各类天神众,也从四面八方前来参加王子的灌顶仪式。
9.46.19
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः ।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ ९.४६.१९ ॥
大王,那时天界的居民们拿取了一切:灌顶的器皿和所有吉祥之物。
9.46.20
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप ।
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम् ॥ ९.४६.२० ॥
大王,它以装备神器的金瓶,以及萨拉斯瓦蒂河那圣洁的水来装饰。
9.46.21
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः ।
सैनापत्ये महात्मानमसुराणां भयङ्करम् ॥ ९.४६.२१ ॥
天界的居民们大喜,为这位少年灌顶——这位令阿修罗畏惧的大德,授予他统帅之位。
9.46.22
पुरा यथा महाराज वरुणं वै जलेश्वरम् ।
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः ॥ ९.४६.२२ ॥
大王,正如往昔水主婆罗努被灌顶,那位众世界之祖的世尊也这样为他灌顶。
9.46.23
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः ।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ॥ ९.४६.२३ ॥
大光明的迦叶,以及其他在世间闻名者;梵天欢喜,赐予他疾如风的强有力者。
9.46.24
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ।
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम् ॥ ९.४६.२४ ॥
主赐予他能随意展现勇力的成就者、大随从,以及难陀犀那、赤眼与受尊敬的钟耳。
9.46.25
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः ॥ ९.४६.२५ ॥
他的第四名随从是著名的鸠牟达摩林。在那里,大光明的主神斯坦努赐予了大侍从长。
9.46.26
मायाशतधरं कामं कामवीर्यबलान्वितम् ।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥ ९.४६.२६ ॥
他将身负百般幻术、具有欲望之力与威能的迦摩赐予斯干达,啊,诸王之王,那斩灭诸天之敌者。
9.46.27
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ॥ ९.४६.२७ ॥
在诸天与阿修罗的战斗中,他怒不可遏,以双臂击杀了行事可怖的达提耶们,共十四普由特。
9.46.28
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम् ।
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥ ९.४६.२८ ॥
诸神也赐给他一支充满涅哩底的军队,能摧毁诸天之敌,不可战胜,具有万种形象。
9.46.29
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः ।
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा ॥ ९.४६.२९ ॥
众天神与因陀罗一同高呼胜利;乾闼婆、夜叉、罗刹、仙人与祖灵亦复如此。
9.46.30
ततः प्रादादनुचरौ यमः कालोपमावुभौ ।
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥ ९.४६.३० ॥
随后阎摩赐予两名如同时间本身的随从:乌曼陀与普罗曼陀,二者皆具大威力与大光辉。
9.46.31
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ ।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान् ॥ ९.४६.३१ ॥
随从太阳的苏跋罗阇与跋斯伐罗,威严的太阳欢喜地将他们赠予室建多(迦尔提刻耶)。
9.46.32
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ ।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥ ९.४६.३२ ॥
如同凯拉什山峰,披戴白花环、涂着香膏,月神也赠予两位随从:摩尼与苏摩尼。
9.46.33
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः ।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ ९.४६.३३ ॥
焰舌与光明,两位英勇的随从,能摧毁敌军;火神为其子赠予了他们。
9.46.34
परिधं च वटं चैव भीमं च सुमहाबलम् ।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ ॥ ९.४६.३४ ॥
围栏、榕树、威力巨大的怖军、烧毁与焚烧——这些猛烈的随从因勇武而受敬重。
9.46.35
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ।
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ ॥ ९.४६.३५ ॥
阿姆莎也赠予智慧的塞建陀五位随从;乌特克罗沙与萨特卡罗,二者皆持金刚杖。
9.46.36
ददावनलपुत्राय वासवः परवीरहा ।
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून् ॥ ९.४६.३६ ॥
摧毁敌方英雄的婆薮将他们赠予阿那罗之子;这二者在摩亨德罗的战斗中确实杀死了众多敌人。
9.46.37
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् ।
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥ ९.४६.३७ ॥
大名鼎鼎的毗湿奴赐予塞建陀三名随从:轮盘、毗克拉玛迦,以及大力的桑克拉玛。
9.46.38
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ ।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ ॥ ९.४६.३८ ॥
两位最优秀的医者阿什文们欣然将精通一切学问的增长与难陀赐予塞建陀。
9.46.39
किन्दुं च कुसुमं चैव कुमुदं च महायशाः ।
डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥ ९.४६.३९ ॥
大名鼎鼎的达特利将钦杜、俱萨摩、俱穆陀,以及丹婆罗与阿丹婆罗赐予伟大的塞建陀。
9.46.40
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ॥ ९.४६.४० ॥
陀湿多赐予塞建陀两名随从,二者皆强力,具大幻力,羊头,极为勇猛:伐迦罗与阿努伐迦罗。
9.46.41
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने ।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥ ९.४६.४१ ॥
主神弥陀罗将精通苦行与明智的两位高尚者,善誓与真约,赐予伟大的童子俱摩罗。
9.46.42
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ ।
सुव्रतं च महात्मानं शुभकर्माणमेव च ॥ ९.४६.४२ ॥
这两位在三界闻名,外貌可爱,能赐恩惠:善行与具善业的大德者。
9.46.43
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ।
पाणीतकं कालिकं च महामायाविनावुभौ ॥ ९.४६.४३ ॥
造物主赐给卡尔提刻亚两位闻名三界的侍从,帕尼塔迦与迦利迦,二者皆为大幻术师。
9.46.44
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत ।
बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥ ९.४६.४४ ॥
婆罗多啊,补沙赐给卡尔提刻亚两位随从,大力与超力,皆大面大力。
9.46.45
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम ।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ ॥ ९.४६.४५ ॥
婆罗多之最啊,风神赐给卡尔提刻亚阎摩与超阎摩,鱼面大力。
9.46.46
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः ।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ॥ ९.४६.४६ ॥
守信的伐楼那赐给卡尔提刻亚高尚的苏跋尔恰斯,同样也赐给了超跋尔恰斯。
9.46.47
हिमवान्प्रददौ राजन्हुताशनसुताय वै ।
काञ्चनं च महात्मानं मेघमालिनमेव च ॥ ९.४६.४७ ॥
君王啊,雪山赐给火神之子高尚的金光与云鬘。
9.46.48
ददावनुचरौ मेरुरग्निपुत्राय भारत ।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ ॥ ९.४६.४८ ॥
婆罗多啊,须弥山赐给火神之子两位随从,坚固与极坚固;须弥山又赐了另外两位。
9.46.49
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ ।
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ ॥ ९.४६.४९ ॥
这位大心者把两名具有大力与勇武的随从赐给火神之子——乌恰伦伽与阿提伦伽,他们以巨石作战。
9.46.50
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ।
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ ॥ ९.४६.५० ॥
频耶把两名随从赐给火神之子,大海又赐下这两名持杖者——桑格拉哈与维格拉哈。
9.46.51
प्रददावग्निपुत्राय महापारिषदावुभौ ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च ॥ ९.४६.५१ ॥
火神之子被赐予两名大随从:乌德马达、山库伽尔纳,还有布史潘陀。
9.46.52
प्रददावग्निपुत्राय पार्वती शुभदर्शना ।
जयं महाजयं चैव गङ्गा ज्वलनसूनवे ॥ ९.४६.५२ ॥
容貌吉祥的帕尔瓦蒂把胜与大胜赐给火神之子;恒河也把它们赐给了火神之子。
9.46.53
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥ ९.४६.५३ ॥
人中之虎啊,蛇王伐苏吉赐予了它们;同样,萨提亚、楼陀罗、婆苏和祖先们也赐予了。
9.46.54
सागराः सरितश्चैव गिरयश्च महाबलाः ।
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः ॥ ९.४६.५४ ॥
海洋、河流与大力的山岳,赐下了统领军队的将领,他们持有长矛与利剑。
9.46.55
दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः ॥ ९.४६.५५ ॥
请听那些其他斯建陀军士的名字,他们持有神圣武器,装饰着各式服饰。
9.46.56
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः ।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ॥ ९.४६.५६ ॥
持有各种武器,饰以奇异饰物者:尸叉俱罗、尼坤婆、钵摩与瞿mud。
9.46.57
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः ॥ ९.४६.५७ ॥
十二臂的阿难陀,以及黑天与副黑天、嗅听、猴肩、金眼与水中之王。
9.46.58
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत् ।
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः ॥ ९.४६.५८ ॥
大王啊!阿叉、桑坦阇那、古那底迦、灭暗者、独眼、双眼,以及独发之主。
9.46.59
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ।
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः ॥ ९.४६.५९ ॥
千臂的毗迦吒、虎眼、撼地者、福名、善名、善轮与悦见。
9.46.60
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ॥ ९.४६.६० ॥
著名的科迦那陀,喜爱花环与香膏者;阿乔陀罗、象首、肩目,以及百目者。
9.46.61
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः ।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥ ९.४६.६१ ॥
舌如火焰,目光可怖,黑发,结发髻,哈利,闻名,如红莲,黑发,持髻者。
9.46.62
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः ।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥ ९.४६.६२ ॥
四牙,八舌,雷鸣之声,名声远扬,目如闪电,口如弓,生于腹中,食风者。
9.46.63
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः ।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥ ९.४६.६३ ॥
慷慨之眼,车轴之身,金刚为脐,财富光辉,海洋般迅疾,王中之王啊,撼山者,亦复如是。
9.46.64
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ ।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ ९.४६.६४ ॥
牛、羊、流,及难陀、优波难陀,烟、白、羯陵伽、悉达多,与施愿者亦然。
9.46.65
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान् ।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥ ९.४६.६५ ॥
爱者、难陀、牛难陀、威光者、欢喜、喜悦、吉祥与坚固亦然。
9.46.66
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत ।
गोव्रजः कनकापीडो महापारिषदेश्वरः ॥ ९.४६.६६ ॥
安隐持、善持、成器、婆罗多啊、牛群、金冠、大眷属之主。
9.46.67
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान् ।
वैताली गतिताली च तथा कथकवातिकौ ॥ ९.४६.६७ ॥
歌者与笑者,箭(Bāṇa)与勇猛的剑(Khaḍga),Vaitālī与Gatitālī,以及Kathaka与Vātika。
9.46.68
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह ।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः ॥ ९.४६.६८ ॥
鹅生者(Haṃsaja),身上涂满泥浆者,海洋狂乱者(Samudronmādana),Raṇotkaṭa,Prahāsa,Śvetasiddha与Nandana。
9.46.69
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः ।
कालकक्षः सितश्चैव भूतानां मथनस्तथा ॥ ९.४६.६९ ॥
黑颈者(Kālakaṇṭha)、Prabhāsa、Kumbhāṇḍakodara、Kālakakṣa、Sita,以及搅乱众生者。
9.46.70
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः ।
मज्जानश्च महातेजाः क्रथक्राथौ च भारत ॥ ९.४६.७० ॥
祭祀载者(Yajñavāha)、Suvāha、敬神者、饮苏摩者、大光者Majjāna,以及Kratha与Krātha,婆罗多之后。
9.46.71
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान् ।
मधुरः सुप्रसादश्च किरीटी च महाबलः ॥ ९.४६.७१ ॥
Tuhara与Tuhāra,勇猛的Citradeva,Madhura与Suprasāda,戴冠者,大力者。
9.46.72
वत्सलो मधुवर्णश्च कलशोदर एव च ।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥ ९.४६.७२ ॥
Vatsala,蜜色者与瓶腹者,施法者,引发欲望者,针面者(Sūcīvaktra),以及勇猛者。
9.46.73
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः ।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥ ९.४६.७३ ॥
白面、妙面、美面与苍白的般睹罗;棍臂、妙臂、尘、以及同样的杜鹃罗迦。
9.46.74
अचलः कनकाक्षश्च बालानामपि यः प्रभुः ।
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः ॥ ९.४६.७४ ॥
不动与金眼,他甚至是孩童的主宰;行者、红莲、鹫羽与豺狼。
9.46.75
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः ।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः ॥ ९.४६.७५ ॥
铁面的罗诃阇婆迦罗与迅捷的遮婆那、瓶面与瓶罗迦、金颈、黑力、天鹅面与月光者。
9.46.76
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः ।
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः ॥ ९.४६.७६ ॥
手须与商菩迦,五面与教者,鹭面,豺狼,菜面与俱遮罗。
9.46.77
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः ।
पैतामहा महात्मानो महापारिषदाश्च ये ॥ ९.४६.७७ ॥
修习瑜伽的大灵,常为婆罗门所爱者,祖父的大灵,以及那些伟大的随从。
9.46.78
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ।
सहस्रशः पारिषदाः कुमारमुपतस्थिरे ॥ ९.४६.७८ ॥
嗟!遮那弥阳遮,青年、孩童与老人,成千上万的随从侍立于童子面前。
9.46.79
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय ।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ ९.४६.७९ ॥
Janamejaya,请听那些有着各种面孔的:有龟面、鸡面的,还有兔面、猫头鹰面的。
9.46.80
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा ।
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत ॥ ९.४६.८० ॥
另有些人是驴脸和骆驼脸,也有猪脸;有猫脸和兔脸的,还有长脸的,婆罗多啊。
9.46.81
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे ।
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ॥ ९.४६.८१ ॥
有些人是獴脸和猫头鹰脸,也有乌鸦脸;另有些人是老鼠脸和棕色脸,也有孔雀脸。
9.46.82
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ।
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा ॥ ९.४६.८२ ॥
有些人是鱼脸和公羊脸,另有些是山羊、绵羊和水牛脸;有些是熊脸和虎脸,也有豹脸和狮脸。
9.46.83
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये ।
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा ॥ ९.४६.८३ ॥
可怖的,有象脸的,也有鳄鱼脸的;有金翅鸟脸和鹤脸的,也有狼脸和乌鸦脸的。
9.46.84
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत ॥ ९.४६.८४ ॥
另有些人是牛脸、驴脸和骆驼脸,也有公牛脸和虻脸;有大腹、大腿和四肢的,也有星星般眼睛的,婆罗多啊。
9.46.85
पारावतमुखाश्चान्ये तथा वृषमुखाः परे ।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः ॥ ९.४६.८५ ॥
另一些人有鸽子的脸,另一些有公牛的脸;另一些有杜鹃般的脸,另一些有鹰和鹧鸪的脸。
9.46.86
कृकलासमुखाश्चैव विरजोम्बरधारिणः ।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः ॥ ९.४६.८६ ॥
有些人有蜥蜴般的脸,身穿灰尘色的衣服;有些人有蛇口、矛形的脸、凶猛的脸和吉祥的脸。
9.46.87
आशीविषाश्चीरधरा गोनासावदनास्तथा ।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ॥ ९.४६.८७ ॥
有些人如同毒蛇,身穿破衣,有牛鼻般的脸;有些人肚大肢细,有些人肢粗肚细。
9.46.88
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः ।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ ९.४६.८८ ॥
他们颈短耳大,以各种毒蛇为饰,身披象皮,穿着黑色鹿皮衣。
9.46.89
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः ।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि ॥ ९.४६.८९ ॥
大王啊,有些人肩上有脸,有些人腹上也有脸;有些人背上有脸,有些人下巴上有脸,有些人小腿上也有脸。
9.46.90
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः ॥ ९.४६.९० ॥
许多人两侧有脸,又有各国之面;诸位群主则有如昆虫与飞蛾的面孔。
9.46.91
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे ॥ ९.४६.९१ ॥
其他人有各种蛇的面孔,有些人有许多手臂、头和颈项。有些人的手臂如各种树木,另一些人的头则在臀部。
9.46.92
भुजङ्गभोगवदना नानागुल्मनिवासिनः ।
चीरसंवृतगात्राश्च नानाकनकवाससः ॥ ९.४६.९२ ॥
有些人的脸如蛇盘的身躯;他们居住在各种灌木丛中。他们的身体覆盖着树皮衣,有些人则穿着各种金色的衣服。
9.46.93
नानावेषधराश्चैव नानामाल्यानुलेपनाः ।
नानावस्त्रधराश्चैव चर्मवासस एव च ॥ ९.४६.९३ ॥
他们穿着各种服饰,佩戴各种花环,涂抹各种香膏。他们穿着各种衣服,也穿着皮衣。
9.46.94
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः ।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः ॥ ९.४६.९४ ॥
他们戴着头巾和王冠,脖颈俊美,光彩照人。有些人戴着金冠,有些人有五束发髻,有些人头上长着金色的头发。
9.46.95
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे ।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥ ९.४६.९५ ॥
有些人有三束发髻,有些人有两束,其他人有七束。有些人戴着羽饰,有些人戴着王冠,有些人剃光了头,有些人长着纠结的发辫。
9.46.96
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा ।
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः ॥ ९.४६.९६ ॥
有些人佩戴着彩色的花环,有些人长着满脸的毛。他们只以战斗为乐,即使是最优秀的天神也永远无法战胜他们。
9.46.97
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः ।
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥ ९.४६.९७ ॥
有的黑色,面无血肉,背长腹细;有的背厚,有的背短,腹与肢体下垂。
9.46.98
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः ।
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः ॥ ९.४६.९८ ॥
有的臂大,有的臂小,有的身材矮小、是侏儒;有的驼背,有的小腿短,有的颈如象耳。
9.46.99
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे ।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः ॥ ९.४६.९९ ॥
有的鼻如象,有的鼻如龟,有的鼻如狼;有的呼吸长,有的小腿长,有的可怖,有的面朝下。
9.46.100
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे ।
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥ ९.४६.१०० ॥
有的獠牙大,有的獠牙小,有的四牙;另有的如殊胜之象。大王,这样可怖的有成千上万。
9.46.101
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः ।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत ॥ ९.४६.१०१ ॥
有的身体匀称,光彩照人,装饰精美;有的眼睛黄褐,耳尖如桩,鼻子通红。婆罗多啊。
9.46.102
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः ।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ॥ ९.४६.१०२ ॥
有的獠牙宽,有的獠牙大,厚唇,黄色头发;有的脚、唇、牙各不相同;有的手、颈各不相同。
9.46.103
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत ।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ॥ ९.४६.१०३ ॥
婆罗多啊,他们披着各色兽皮,说着种种语言;那些精通各地方言的君主彼此交谈。
9.46.104
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ॥ ९.४६.१०४ ॥
欢喜之中,那些大侍从也纷纷奔走;他们脖颈长,指甲长,腿、头和臂也都很长。
9.46.105
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः ॥ ९.४६.१०५ ॥
婆罗多啊,有的人黄褐眼睛、蓝色喉咙、长耳朵;有的像狼腹,有的黑如黛墨。
9.46.106
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे ।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥ ९.४६.१०६ ॥
有的白眼红颈,有的黄褐眼。大王啊,婆罗多啊,许多身上有斑点,颜色斑斓。
9.46.107
चामरापीडकनिभाः श्वेतलोहितराजयः ।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥ ९.४६.१०७ ॥
如牦牛尾拂与花环,有白红条纹;有的五色斑斓,有的单色一致,光泽如孔雀。
9.46.108
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु ।
शेषैः कृतः पारिषदैरायुधानां परिग्रहः ॥ ९.४६.१०८ ॥
请听我讲述他们的兵器:其余的侍从各自执持武器。
9.46.109
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः ।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥ ९.४६.१०९ ॥
有些人手持高举的绳索,张着大口,长着驴脸,背上有眼睛,喉咙呈蓝色,手臂如铁杵。
9.46.110
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत ॥ ९.४६.११० ॥
手持百杀器与轮盘,手持杵棒,手持剑与铁锤,手持木棒,婆罗多之子啊。
9.46.111
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः ।
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः ॥ ९.४६.१११ ॥
手持铁杵与布舒恩迪,手持投矛,持各种可怖的兵器,大德而迅捷。
9.46.112
महाबला महावेगा महापारिषदास्तथा ।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः ॥ ९.४६.११२ ॥
大力者、大速者、大随从也一样,见王子灌顶而欢喜,喜好战斗。
9.46.113
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ।
एते चान्ये च बहवो महापारिषदा नृप ॥ ९.४६.११३ ॥
身上缠着铃网,那些大威力者起舞。他们与其他众多大随从,啊王。
9.46.114
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम् ।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ॥ ९.४६.११४ ॥
他们侍奉大德而著名的迦尔提刻耶:天神、空中之众、地上之众,速如风。
9.46.115
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन् ।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥ ९.४६.११५ ॥
受诸神差遣的勇士成为斯坎达的随从。成千上万、数十万乃至数千万这样的战士环绕着那位受灌顶的大德者,侍立在他身旁。