摩诃婆罗多 · 章 9.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.66.1
वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् ।
हतशिष्टास्तदा राजन्कौरवाणां महारथाः
अतः परं सौप्तिकं पर्व भविष्यति ।
तस्यायमाद्यः श्लोकः।
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः ।
उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ ९.६६.१ ॥
众卫士禀报难敌已被杀死,大王啊,于是考罗瓦族残存的大车战士们一同出发,面向南方。此后将是《夜袭篇》;这是其中的第一颂。在日落时分,他们来到了营地附近。
9.66.2
विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥ ९.६६.२ ॥
被利箭、狼牙棒、长矛和标枪所射穿,阿湿婆摩、克立巴和萨多人克里达瓦尔曼乘着疾驰的骏马急速赶到战场。
9.66.3
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् ।
प्रभग्नं वायुवेगेन महासालं यथा वने ॥ ९.६६.३ ॥
他们在那里看见般度之子的对手、持国之子这位大德者倒卧在地,犹如森林中被狂风吹断的大娑罗树。
9.66.4
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् ।
महागर्जामेवारण्ये व्याधेन विनिपातितम् ॥ ९.६६.४ ॥
他在地上翻滚,浑身浴血,如同森林中被猎人射倒的大驴。
9.66.5
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् ।
यदृच्छया निपतितं चन्द्रमादित्यगोचरात् ॥ ९.६६.५ ॥
反复翻滚,浸在血流之中,仿佛偶然从日月的视线中坠落。
9.66.6
युगान्तमारुतेनेव शोषितं मकरालयम् ।
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥ ९.६६.६ ॥
如同被末劫之风吹干的大海,又如天空中被霜雪笼罩的满月。
9.66.7
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे ।
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ॥ ९.६६.७ ॥
尘土覆身、双臂修长的他,如同阵中倒下的大象,四周被可怖的鬼众与食肉之物环绕。
9.66.8
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ।
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्।
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा ॥ ९.६६.८ ॥
如同贪求财富的仆从围住最优秀的国王,那人中之虎倒卧地上,眉头紧蹙,双眼因愤怒而圆睁,满腔愤懑。
9.66.9
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम् ।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥ ९.६६.९ ॥
众人见那大弓手之王倒卧于地,克里帕等诸车士皆陷入迷乱。
9.66.10
अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ ।
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन् ॥ ९.६६.१० ॥
他们下车,奔至国王面前;来到难敌身边,众人都坐在了地上。
9.66.11
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् ।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥ ९.६६.११ ॥
此时,大王啊,德罗纳之子眼含泪水,长声叹息,对婆罗多最优秀的人——诸世界主宰之主——说道。
9.66.12
न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि ।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥ ९.६६.१२ ॥
人间确实没有功德,因为你这人中之虎竟躺卧在尘土中、满身污垢。
9.66.13
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् ।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥ ९.६६.१३ ॥
你曾是国王,统领大地,如今却为何独自站在荒僻的林中,诸王之主啊?
9.66.14
दुःशासनं न पश्यामि नापि कर्णं महारथम् ।
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥ ९.६६.१४ ॥
我看不见杜尚娑那,也看不见大车将迦尔纳,也看不见那些朋友们。婆罗多之牛啊,这是怎么回事?
9.66.15
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन ।
लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः ॥ ९.६६.१५ ॥
死神的行径终究无法得知,这确实令人悲痛;世界之主啊,你竟躺卧在这尘土之中。
9.66.16
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः ।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥ ९.६६.१६ ॥
这位焚灭敌人者,曾走在受灌顶之王们的前面,如今却与草一同吞食尘土。看那时间的转变吧。
9.66.17
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव ।
सा च ते महती सेना क्व गता पार्थिवोत्तम ॥ ९.६६.१७ ॥
君王啊,你那洁净的伞盖和拂尘在哪里?王中之最啊,你那庞大的军队又去了哪里?
9.66.18
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे ।
यो वै लोकगुरुर्नाथो भवानेतां दशां गताः ॥ ९.६६.१८ ॥
行为的进程确实难以理解,隐藏在另一个原因之中。你,世界的导师与守护者,竟落到了这般境地。
9.66.19
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते ।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥ ९.६६.१९ ॥
在一切有死之人中,财富是无常的,人们却以为它长久。看到你这位能与因陀罗相比的人遭遇如此大的不幸,这一点便清楚了。
9.66.20
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः ।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥ ९.६६.२० ॥
听了他的话,尤其悲伤之时,大王,你的儿子说出了这些适时的话。
9.66.21
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् ।
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥ ९.६६.२१ ॥
他以双手拭去眼泪,洒下因悲伤而生的泪水,那人主便对慈悲(Kṛpa)及所有英雄说道。
9.66.22
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते ।
विनाशः सर्वभूतानां कालपर्यायकारितः ॥ ९.६६.२२ ॥
这是世界的法则,由造物主所定,人们如此说。一切众生的毁灭,依时间的次第而来。
9.66.23
सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः ।
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः ॥ ९.६६.२३ ॥
这种为你们所亲见的境况降临到了我身上。我护持大地之后,now已到达了这一最终的境地。
9.66.24
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि ।
दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः ॥ ९.६६.२४ ॥
幸运的是,我在战斗中任何灾难面前都未曾退缩。幸运的是,我被恶人所杀,尤其是被遮罗所杀。
9.66.25
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता ।
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः ॥ ९.६६.२५ ॥
我一直怀着求战的热情。幸运的是,我在这场战斗中被杀,而我的亲属与族人都已被杀。
9.66.26
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् ।
स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम् ॥ ९.६६.२६ ॥
幸运的是,我看到你们从这场人员毁灭中脱离,享有安康与吉祥。这对我来说是最好的喜悦。
9.66.27
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे ।
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः ॥ ९.६६.२७ ॥
你们不要因对我的情谊而在此为我的死而悲伤。若吠陀是你们的依据,我已赢得了不朽的世界。
9.66.28
जानमानः प्रभावं च कृष्णस्यामिततेजसः ।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥ ९.६६.२८ ॥
虽然知道无量光辉的黑天的威力,我却没有被他使我偏离已善行的刹帝利之法。
9.66.29
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन ।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः।
यतितं विजये शक्त्या दैवं तु दुरतिक्रमम् ॥ ९.६६.२९ ॥
我已达到那种境界,绝不值得悲伤。你们做了与你们相称、合宜的事,竭尽全力求胜;但天命难以违抗。
9.66.30
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः ।
तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम् ॥ ९.६६.३० ॥
国王之主啊,他说完这些话,泪眼模糊,因悲痛而极度困顿,便沉默不语。
9.66.31
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम् ।
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥ ९.६६.३१ ॥
看到国王满含泪水与悲伤,德罗纳之子因愤怒而燃烧,如同世界毁灭时的烈火。
9.66.32
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च ।
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥ ९.६६.३२ ॥
他被愤怒所攫住,双手紧握,以哽咽的泪声对国王说了这番话。
9.66.33
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा ।
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै ॥ ९.६६.३३ ॥
我的父亲被卑劣之人以极其残忍的行为杀害;国王啊,我为那行为的悲痛,远不及今日因你而悲痛。
9.66.34
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो ।
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥ ९.६६.३४ ॥
主啊,请听我这句真实之言——以祭祀、布施、施舍、法与善行为誓。
9.66.35
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः ।
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् ॥ ९.६६.३५ ॥
今天,在婆苏提婆注视之下,我将杀尽所有般遮罗人;今夜,大王啊,我将杀死般度五子。
9.66.36
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥ ९.६६.३६ ॥
大王啊,您应当允许我。
9.66.37
तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः ।
मनसः प्रीतिजननं कृपं वचनमब्रवीत्।
आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥ ९.६६.३७ ॥
持国啊,听了德罗纳之子的这些话,你的儿子对克里巴说了令人心喜的话:“老师,快拿一个盛满水的瓶来。”
9.66.38
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः ।
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥ ९.६६.३८ ॥
那位最优秀的婆罗门明白了国王的命令,拿着盛满的瓶子走到国王面前。
9.66.39
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते ।
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्।
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥ ९.६६.३९ ॥
你的儿子对他说:“伟大的王啊,人民的主宰,再生者中最优秀的,请依我的命令,为德罗纳之子加冕为军队统帅。若你愿意为我做我所喜爱之事,愿你吉祥。”
9.66.40
राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः ।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥ ९.६६.४० ॥
奉国王之命,尤其是婆罗门,应遵循武士之法而战;懂得法的人都如此知道。
9.66.41
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः ।
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत् ॥ ९.६६.४१ ॥
沙罗德瓦特之子克里巴听了国王的话,便按照国王的命令,为德罗纳之子加冕为军队统帅。
9.66.42
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् ।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥ ९.६६.४२ ॥
大王,他受了灌顶,拥抱了最优秀的国王,然后像狮子般吼叫着离去,震响四面八方。
9.66.43
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः ।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥ ९.६६.४३ ॥
王中之王啊,难敌也浑身沾满鲜血,走入了那令一切众生恐惧的夜晚。
9.66.44
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप ।
शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम् ॥ ९.६६.४४ ॥
国王啊,他们迅速离开那个战场,心中被悲伤扰乱,陷入了极度的忧虑之中。