Vālmīki Rāmāyaṇa · Sarga 1.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.11.1
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥ १.११.१ ॥
O lord of kings, listen again to my beneficial words, as the wise foremost of gods once declared.
1.11.2
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥ १.११.२ ॥
In the Ikṣvāku line a most righteous king named Daśaratha will be born, glorious and true to his word.
1.11.3
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ १.११.३ ॥
That king will form a friendship with the king of Aṅga, and he will have a greatly fortunate daughter named Śāntā.
1.11.4
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥ १.११.४ ॥
The son of the king of Aṅga will be known as Romapāda; to him the great-famed king Daśaratha will go.
1.11.5
अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥ १.११.५ ॥
O righteous one, I am without offspring; by your command, let Śāntā's husband perform a sacrifice for me, for the sake of progeny and the family line.
1.11.6
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥ १.११.६ ॥
Having heard the king's words and considered them in his mind, the self-controlled Romapāda will give Śāntā, with her husband who shall have a son, to him.
1.11.7
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ १.११.७ ॥
Having welcomed that brahmin, the king, freed from anxiety, will perform that sacrifice with a joyful heart.
1.11.8
तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ १.११.८ ॥
King Daśaratha, desiring fame and knowing dharma, with folded hands will invite Ṛṣyaśṛṅga, best of the twice-born.
1.11.9
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥ १.११.९ ॥
For the sake of sacrifice, for offspring, and for heaven, that lord of men, lord of the people, will obtain his desire from that foremost of the twice-born.
1.11.10
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥ १.११.१० ॥
And he will have four sons, of immeasurable valour, who will establish the lineage and be renowned among all beings.
1.11.11
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ १.११.११ ॥
Thus did that best of gods, the venerable lord Sanatkumāra, recount this tale formerly, in the age of the gods.
1.11.12
स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥ १.११.१२ ॥
You, tiger among men, great king, go yourself with army and vehicles and bring him back with due honour.
1.11.13
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १.११.१३ ॥
Hearing the words of Sumantra, Daśaratha was delighted. Having consulted Vasiṣṭha and considered the charioteer's words,
1.11.14
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥ १.११.१४ ॥
With the inner court and his ministers, he set out to the place where that twice-born sage was, crossing forests and rivers slowly, slowly.
1.11.15
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥ १.११.१५ ॥
He advanced toward the region where that best of sages was, and reaching that best of twice-born, who had gone near Romapāda,
1.11.16
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥ १.११.१६ ॥
Then he saw the sage's son, blazing like a fire. Then the king offered honour, as was fitting and especially so,
1.11.17
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।
रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥ १.११.१७ ॥
Because of his friendship with the king, Romapāda, with a joyful heart, declared it to the wise sage's son.
1.11.18
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥ १.११.१८ ॥
Out of friendship and kinship, he too then honoured him in return. Thus, well honoured by him, that best of men dwelt there with him.
1.11.19
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥ १.११.१९ ॥
After seven or eight days the king said this to the other king: O king, your daughter Śāntā is at peace with her husband, O lord of the people.
1.11.20
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥ १.११.२० ॥
Let him come to my city, for a great matter is at hand. Saying 'So be it,' the king agreed to the departure of that wise man.
1.11.21
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥ १.११.२१ ॥
He said to the brahmin, 'Go with your wife.' Then the sage's son, having consented, said to the king, 'So be it.'
1.11.22
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ १.११.२२ ॥
Having been given leave by the king, he departed with his wife. The two joined their hands in mutual salutation and, out of affection, embraced one another with their chests.
1.11.23
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥ १.११.२३ ॥
Daśaratha and the mighty Romapāda both rejoiced. Then, taking leave of his friend, the delight of the Raghus set out.
1.11.24
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥ १.११.२४ ॥
He sent swift-moving messengers to the citizens: 'Let the whole city be quickly and well adorned.'
1.11.25
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् ।
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥ १.११.२५ ॥
Fumigated with incense, sprinkled with water, well swept, and adorned with banners. Then the city-folk, hearing that the king had arrived, were overjoyed.
1.11.26
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।
ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥ १.११.२६ ॥
They did all that the king had ordered. Then the king entered the well-adorned city.
1.11.27
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् ।
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ १.११.२७ ॥
With the roar of conch-shells and drums, placing the best of brahmins in front. Then all the citizens, seeing the brahmin, were greatly delighted.
1.11.28
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥ १.११.२८ ॥
Being led in and honored by the king, whose deeds were like Indra's — as in heaven the thousand-eyed lord of the gods honors Kāśyapa.
1.11.29
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ १.११.२९ ॥
Having led him into the inner palace and worshipped him according to the scriptures, the king considered himself to have accomplished his purpose by bearing him along.
1.11.30
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ १.११.३० ॥
All the inner apartments, seeing Śāntā, large-eyed, arrived there together with her husband, attained joy in their affection.
1.11.31
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ १.११.३१ ॥
Honored by all of them, and especially by the king, she dwelt there happily for some time together with the brahmins.