Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.27.1

अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥ १.२७.१ ॥

在那里度过那一夜后,大名鼎鼎的毗奢弥多罗微笑着,以甜美的声音对罗怙之裔说了这番话。

1.27.2

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ १.२७.२ ॥

王子,大名远扬者,愿你吉祥!我非常欣喜。怀着最深的爱意,我将把各种兵器都赠予你。

1.27.3

देवासुरगणान् वापि सगन्धर्वोरगान् भुवि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ १.२७.३ ॥

即便是诸天与阿修罗的大军,以及大地上的乾闼婆与蛇众,你将借此在战场上强力制服敌人而获胜。

1.27.4

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥ १.२७.४ ॥

那些神圣的兵器,愿你吉祥——我将把它们全部赠予你。罗怙之裔啊,我还要把那伟大的神圣杖轮赠予你。

1.27.5

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥ १.२७.५ ॥

然后,英雄啊,法轮,同样还有时轮、极其猛烈的毗湿奴轮,以及因陀罗之轮。

1.27.6

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥ १.२७.६ ॥

人中之最啊,霹雳之箭,湿婆殊胜的三叉戟,同样还有梵首箭,罗怙之裔啊,还有艾希迦箭。

1.27.7

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥ १.२७.७ ॥

啊,大臂者,我赠你无上的梵天神箭。啊,迦古什特ha,我还赠你两件吉祥的铁杵,名为摩多基与尸乡梨。

1.27.8

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च ॥ १.२७.८ ॥

啊,人中之虎,啊,王子,我赠你光耀的法绳与时之绳,啊,罗摩。

1.27.9

वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥ १.२७.९ ॥

我赠你无上的伐楼那绳箭。啊,罗怙之乐,我还赠你两道雷电,名为干与湿。

1.27.10

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ १.२७.१० ॥

我还赠你毗那迦神箭与那罗延神箭,以及名为尸迦罗的心爱的火箭。

1.27.11

वायव्यं प्रथमं नाम ददामि तव चानघ ।
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥ १.२७.११ ॥

啊,无垢者,我先赠你名为伐由的神箭。同样,我赠你马首神箭与鹤神箭。

1.27.12

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।
कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥ १.२७.१२ ॥

啊,迦古什特tha,啊,罗迦婆,我还赠你两件神矛。我赠你可怖的羯迦罗、棍棒、迦波罗与金铃。

1.27.13

वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः ।
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ १.२७.१३ ॥

凡用于杀灭罗刹的兵器,我尽数赠予你;还有名为“毗陀罗”的大神器,以及名叫“难陀那”的神器,我都按名赠予。

1.27.14

असिरत्नं महाबाहो ददामि नृवरात्मज ।
गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥ १.२७.१४ ॥

大臂者啊,人中俊杰之子,我把剑中之宝赠予你;乾闼婆所喜爱的神器,名叫“迷惑”,我按名赠予。

1.27.15

प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव ।
वर्षणं शोषणं चैव संतापनविलापने ॥ १.२७.१५ ॥

罗怙之子啊,我赠予你催眠与平息之器,以及温和之器;还有降雨之器、枯竭之器,以及使人灼热与哀号之器。

1.27.16

मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥ १.२७.१६ ॥

令人沉醉的与不可抵挡的,以及爱神所钟爱的;还有乾闼婆所喜爱的神器,以及名为“摩那婆”的神器,我按名赠予。

1.27.17

पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ १.२७.१७ ॥

皮舍遮之器,名叫“迷惑”,我按名赠予。人中猛虎啊,王子啊,大名鼎鼎的人啊,请接受它们。

1.27.18

तामसं नरशार्दूल सौमनं च महाबलम् ।
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ १.२७.१८ ॥

人中猛虎啊,暗黑之器与大力的喜悦之器;还有毁灭之器与不可抵挡之器,以及杵形之器,王子啊。

1.27.19

सत्यमस्त्रं महाबाहो तथा मायामयं परम् ।
सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १.२७.१९ ॥

啊,大臂者!名为真实的武器,由幻术所成的至高武器,名为太阳光辉的日神武器,能夺去敌人的光芒。

1.27.20

सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १.२७.२० ॥

名为始暑的月神武器,特瓦什特里极其可怖的武器,薄伽的可怖武器,然后是名为摩那婆的寒箭。

1.27.21

एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ १.२७.२१ ॥

啊,罗摩!啊,大臂者!请迅速接受这些武器,王子啊:它们可随意变化形态,极为强大,力量至为慷慨。

1.27.22

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ १.२७.२२ ॥

于是,这位圣者面向东方站立,洁净身心,极为欢喜,将无上的咒语集合授予罗摩。

1.27.23

सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ १.२७.२३ ॥

那些即使诸神也难以完全召唤的武器,当时这位婆罗门向罗怙之后一一指明。

1.27.24

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ १.२७.२४ ॥

当智慧的毗首弥多罗仙人持诵之时,所有极其珍贵的武器都来到罗怙之后面前。

1.27.25

ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा ।
इमे च परमोदार किंकरास्तव राघव ॥ १.२७.२५ ॥

于是众人欣喜,合掌对罗摩说:至尊宽厚的罗怙之子啊,我们皆是您的仆从。

1.27.26

यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै ।
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ १.२७.२६ ॥

您所愿者,愿您吉祥,我们必当全部照办。那些大力者如此说后,心意欢喜的罗摩……

1.27.27

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥ १.२७.२७ ॥

迦古特斯特ha接受了它们,以手触之,说:“愿你们存于我心”,于是唤起了它们。

1.27.28

ततः प्रीतमना रामो विश्वामित्रं महामुनिम्।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ १.२७.२८ ॥

于是大光辉的罗摩心意欢喜,向大仙人毗舍弥多罗致敬,便开始启程。