Vālmīki Rāmāyaṇa · Sarga 1.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.3.1
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् ।
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥ १.३.१ ॥
Having heard the whole account, which is joined with dharma and purpose and is beneficial, he again clearly investigates the conduct of that wise one.
1.3.2
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ १.३.२ ॥
Having properly sipped water, standing with joined palms and seated on kuśa grass whose tips point east, the sage seeks out his course by means of dharma.
1.3.3
रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥ १.३.३ ॥
Whatever befell there to Rāma, Lakṣmaṇa and Sītā, and to King Daśaratha with his wife and his realm, all of it in truth.
1.3.4
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥ १.३.४ ॥
By the power of dharma he fully sees, exactly as it was, every laugh, word, gait and deed.
1.3.5
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥ १.३.५ ॥
Whatever befell the truth-vowed Rāma as he wandered in the forest with his wife as the third, all of that too he examined.
1.3.6
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः ।
पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥ १.३.६ ॥
Then the righteous-souled one, established in yoga, sees all that had happened there before, as clearly as an āmalaka fruit lying in the palm of the hand.
1.3.7
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।
अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥ १.३.७ ॥
Having seen all of it truly, through dharma, the great-minded sage resolved to compose all of that deed of the delightful Rāma.
1.3.8
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ १.३.८ ॥
Endowed with the qualities of desire and wealth, expansive in the qualities of dharma and wealth, rich in jewels like an ocean, delightful to the minds of all who hear it.
1.3.9
स यथा कथितं पूर्वं नारदेन महात्मना ।
रघुवंशस्य चरितं चकार भगवान् मुनिः ॥ १.३.९ ॥
Just as the great-souled Nārada had told it before, the blessed sage composed the deeds of the Raghu lineage.
1.3.10
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १.३.१० ॥
The birth of Rāma, his great prowess, his agreeableness toward all, his being dear to the world, his forbearance, gentleness, and truthful character.
1.3.11
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ १.३.११ ॥
Many wondrous tales in the company of Viśvāmitra, and others as well: the marriage of Jānakī and the breaking of the bow.
1.3.12
रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १.३.१२ ॥
The dispute between the two Rāmas, the virtues of Daśaratha's son, the consecration of Rāma, and the wicked disposition of Kaikeyī.
1.3.13
विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥ १.३.१३ ॥
The obstruction of Rāma's consecration, Rāma's banishment, the king's sorrow and lamentation, and his departure toward the other world.
1.3.14
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ १.३.१४ ॥
The despondency of the people and their dismissal, the conversation with the lord of the Niṣādas, and the return of the charioteer.
1.3.15
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १.३.१५ ॥
The crossing of the Gaṅgā and the meeting with Bharadvāja, and by Bharadvāja's permission the sight of Citrakūṭa.
1.3.16
वास्तुकर्म निवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १.३.१६ ॥
The building of the dwelling and settling there, the arrival of Bharata, the appeasing of Rāma, and the water rite for the father.
1.3.17
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १.३.१७ ॥
The consecration of the foremost sandals and the dwelling at Nandigrāma, the going to the Daṇḍaka forest, and the slaying of Virādha.
1.3.18
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्
अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥ १.३.१८ ॥
The sight of Śarabhaṅga, the encounter with Sutīkṣṇa, the mention of Anasūyā, and the offering of body-ointment.
1.3.19
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १.३.१९ ॥
And the meeting with Agastya, and the taking up of the bow, likewise the conversation with Śūrpaṇakhā and the disfiguring of her.
1.3.20
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ १.३.२० ॥
The slaying of Khara and Triśiras, the rising up of Rāvaṇa, the slaying of Mārīca, and likewise the abduction of Vaidehī.
1.3.21
राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ १.३.२१ ॥
The lamentation of Rāghava, the slaying of the vulture-king (Jaṭāyu), the sight of Kabandha, and likewise the sight of Pampā.
1.3.22
शबरीदर्शनं चैव फलमूलाशनं तथा ।
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥ १.३.२२ ॥
The sight of Śabarī, the eating of fruits and roots, the lamentation at Pampā, and likewise the meeting with Hanumān.
1.3.23
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ १.३.२३ ॥
The going to Ṛṣyamūka, the meeting with Sugrīva, the producing of trust, the friendship, and the quarrel of Vāli and Sugrīva.
1.3.24
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्
ताराविलापं समयं वर्षरात्रनिवासनम् ॥ १.३.२४ ॥
The slaying of Vāli, the installing of Sugrīva, the lamentation of Tārā, the pact, and the dwelling through the nights of the rainy season.
1.3.25
कोपं राघवसिंहस्य बलानामुपसंग्रहम्
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ १.३.२५ ॥
The anger of Rāma, lion of the Raghus; the gathering of the forces; the sending out of messengers to the quarters; and the report concerning the earth.
1.3.26
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्
प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥ १.३.२६ ॥
The giving of the ring; the discovery of the bear's cave; the sitting down to fast unto death; and the sight of Sampāti.
1.3.27
पर्वतारोहणं चैव सागरस्यापि लङ्घनम्
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ १.३.२७ ॥
The climbing of the mountain, and the leaping over the ocean; at the ocean's word, and the sight of Mainaka.
1.3.28
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ १.३.२८ ॥
The rebuking of the demoness, and the sight of the shadow-seizing one; the slaying of Siṃhikā, and the sight of the Laṅkā mountain.
1.3.29
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्
आपानभूमिगमनमवरोधस्य दर्शनम् ॥ १.३.२९ ॥
At night, the entry into Laṅkā, and the reflection of the one alone; the going to the drinking-hall, and the sight of the women's quarters.
1.3.30
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्
अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ १.३.३० ॥
The sight of Rāvaṇa, and the sight also of the Puṣpaka chariot; the going to the Aśoka grove, and the sight also of Sītā.
1.3.31
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥ १.३.३१ ॥
The giving of a token of recognition, speaking with Sītā, the rākṣasī women's threats, and Trijaṭā's dream.
1.3.32
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥ १.३.३२ ॥
Sītā's giving of a jewel, the breaking of trees, the scattering of the rākṣasī women, and the slaying of Rāvaṇa's servants.
1.3.33
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्
प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥ १.३.३३ ॥
The seizing of the son of the Wind, the burning of Laṅkā and his roar, the leap back, and the plundering of the honey-grove.
1.3.34
राघवाश्वासनं चैव मणिनिर्यातनं तथा
संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥ १.३.३४ ॥
The comforting of Rāghava, the delivery of the jewel, the meeting with the ocean, and the building of Nala's bridge.
1.3.35
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ १.३.३५ ॥
The crossing of the ocean, the night siege of Laṅkā, association with Vibhīṣaṇa, and the reporting of the means of slaying.
1.3.36
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ १.३.३६ ॥
The death of Kumbhakarṇa, the slaying of Meghanāda, the destruction of Rāvaṇa, and the recovery of Sītā in the enemy's city.
1.3.37
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥ १.३.३७ ॥
The consecration of Bibhīṣaṇa, the sight of the Puṣpaka chariot, the journey to Ayodhyā, and the meeting with Bharadvāja.
1.3.38
प्रेषणं वायुपुत्रस्य भरतेन समागमम्
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ १.३.३८ ॥
The sending of the son of Vāyu, the meeting with Bharata, the rise of Rāma's coronation, the dismissal of all the armies, the gladdening of his own realm, and the parting from Vaidehī.
1.3.39
अनागतं च यत् किंचिद् रामस्य वसुधातले
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ १.३.३९ ॥
Whatever was yet to come for Rāma upon the earth, that the venerable sage Vālmīki composed in the later poem.