蚁垤《罗摩衍那》 · 篇 1.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.47.1
सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ १.४७.१ ॥
胚胎被割成七份后,极为悲痛的提提以安抚的言辞对难以接近的千眼者(因陀罗)说道。
1.47.2
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः।
नापराधो हि देवेश तवात्र बलसूदन ॥ १.४७.२ ॥
这胚胎被割成七块,是因我的过错。此事与你无关,诸神之主、杀伐婆罗者啊。
1.47.3
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये।
मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते ॥ १.४७.३ ॥
我的胎儿遭此毁灭,我愿你施一恩惠:愿七组、每组七位的摩录多成为你所居之处的守护者。
1.47.4
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ १.४७.४ ॥
愿这七股风之枝在天上游行,我的孩子。他们以摩录多之名著称,是我的儿子,形貌神圣。
1.47.5
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः।
दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ १.४७.५ ॥
一位游行梵界,另一位游行因陀罗界;名为天风的第三位也将享有大名。
1.47.6
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्।
संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः ॥ १.४७.६ ॥
诸神之中最尊贵者啊,我的四个儿子将遵你之令,于适当的时候游行四方。愿你吉祥。
1.47.7
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः।
तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ॥ १.४७.७ ॥
“以你所取之名,他们将被称为‘摩录多’。”她说完这话,千眼的布兰达罗(因陀罗)……
1.47.8
उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः।
सर्वमेतद् यथोक्तं ते भविष्यति न संशयः ॥ १.४७.८ ॥
灭力者(因陀罗)合掌说道:“一切都会如你所说而实现,毫无疑问。”
1.47.9
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः।
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥ १.४७.९ ॥
“你的儿子们将以神的形象游行;愿你吉祥。”两位母子定下这一决心后,在苦行林中……
1.47.10
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्।
एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ॥ १.४७.१० ॥
“罗摩啊,我们听说他们二人已心愿圆满,升往天界。卡古特斯特之裔啊,这里便是往昔摩亨德罗(因陀罗)所居之地。”
1.47.11
दितिं यत्र तपःसिद्धामेवं परिचचार सः।
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥ १.४७.११ ॥
“苦行成就的提缇所居之处,他便如此游行。人中之虎啊,伊克什瓦库之子,至为有德……”
1.47.12
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ १.४७.१२ ॥
他生于阿兰布沙,名为毗舍罗,显赫一时;此地便由他所建,名为毗舍罗城。
1.47.13
विशालस्य सुतो राम हेमचन्द्रो महाबलः।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ १.४७.१३ ॥
罗摩啊,毗舍罗之子是大力的醯摩旃陀罗。醯摩旃陀罗之后,以苏旃陀罗之名闻名(为王)。
1.47.14
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १.४७.१४ ॥
罗摩啊,苏旃陀罗之子以达摩罗奢之名闻名。达摩罗奢之子是苏嚫遮耶。
1.47.15
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १.४७.१५ ॥
光荣而有威力的萨诃提婆是苏嚫遮耶之子。萨诃提婆之子是至为正法的拘舍婆。
1.47.16
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १.४७.१६ ॥
大光明而有威力的苏摩达多是拘舍婆之子。苏摩达多之子以迦咕私陀之名闻名。
1.47.17
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्।
आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः ॥ १.४७.१७ ॥
他的儿子名叫苏摩提,大光明、大名声、不可战胜,如今居住在此城。
1.47.18
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १.४७.१८ ॥
凭借甘蔗王的恩惠,那些毗舍罗家族的诸王皆长寿、大德、有力、极为正法。
1.47.19
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ १.४७.१९ ॥
今日我们在此安睡一夜。啊,人中之杰,明日黎明你应当去拜见遮那迦。
1.47.20
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः ॥ १.४७.२० ॥
然而,光辉伟大、名声显赫的苏摩提,人中之最优秀者,听闻毗首弥多罗已到,便出门迎接他。
1.47.21
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ १.४७.२१ ॥
他以至高的敬意,与老师和亲族一同合掌,问候安好之后,便对毗首弥多罗说道。
1.47.22
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ १.४७.२२ ॥
哦,圣者,我有福且蒙恩,因为您来到了我的领地,我得以见到您;没有人比我更有福了。